| YouTube Channel

दुर्द्धी (durddhI)

 
वाचस्पत्यम्
Sanskrit
दुर्द्धी
त्रि०
दुःस्थिता धीर्यस्य प्रा० ब० दुष्टबुद्धियुक्ते “अनु-त्थानवता चापि दुर्विनीतेन दुर्द्धिया” भा० उ० १३४ अ०अत्र “गतिकारकेतरपूर्वस्य यण् नेष्यते” वार्त्ति० यण् ।“प्रादिभ्यी धातुजस्य वा चोत्तरपदलोपः” वार्त्ति० दुःस्थि-तशब्दस्य उत्तपदलोपे दुरित्यस्य धीशब्दं प्रति गतित्वंनास्ति किन्तु लुप्तस्थितशब्दं प्रति, अतोऽस्य गतिपूर्वक-त्वाभावात् यण् इति बोध्यम् दुष्टं ध्यायति दुर् +ध्यै--क्विपि दुर्द्धीशब्दस्य गतिपूर्वकत्वात् यण् दुर्द्ध्याइत्यादि अत्र संयोगपूर्वकत्वेऽपि धात्ववयवसंयोग-पूर्वकत्वाभावात् इयङः प्रवृत्तिरिति बोध्यम्