| YouTube Channel

दुर्द्धर (durddhara)

 
वाचस्पत्यम्
Sanskrit
दुर्द्धर
त्रि०
दुःखेन धार्यते दुर् + धृ--कर्मणि खल् नरकभेदे२ ऋषभौषधौ मेदि० पारदे भल्लातके राजनि० “दुर्द्धरंदुर्मुखञ्चैभौ शरैर्निन्ये यमक्षयम्” देवीमा० उक्ते महिषा-सुरसेनापतिभेदे
पु०
परमेश्वरे
पु०
“दर्पहा दर्पदो दृप्तोदुर्द्धरोऽन्यापराजितः” विष्णु० सं० “न शक्यधारणा यस्यप्रणिधानादिषु सर्वोपाधिनिर्मुक्तत्वात्तथापि तत्प्रसादतःकैश्चित् दुःखेन हृदये धार्यते जन्मान्तरसहस्रेषु भावनायोगात् तस्माद्दुर्द्धरः “क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते” भग-वद्वचनात्” भा० “सुभुजो दुर्द्धरो वाग्मी” विष्णुसं० अस्यचान्या व्युत्पत्तिः भाष्ये दर्शिता यथा “पृथिव्यादीन्यपिलोकधारकाण्यन्यैर्द्धारयितुमशक्यानि धारयन्न केनापिधारयितुं शक्यत इति दुर्द्धरः दुःखेन ध्यानसमये मुमु-क्षुभिर्हृदये धार्यत इति वा दुर्द्धरः” भा० तेन व्युत्पत्ति-भेदान्नामभेदोपपत्तेः सहस्रसंख्यापूर्त्तिर्द्रष्टव्या “वन्ये-भदानानिलगन्घदुर्द्धरा” माघः “दण्डो हि सुमह-त्तेजो दुर्द्धरश्चाकृतात्मभिः” रघुः