| YouTube Channel

दुर्द्दिनं (durddinaM)

 
शब्दकल्पद्रुमः
Sanskrit
दुर्द्दिनं,
क्ली,
(दुर्दुष्टं दिनम् ।) मेघाच्छन्नदिनम् ।इत्यमरः १२
(यथा, हरिवंशे ।१६७ १८ ।“तुमुलं दुर्द्दिनञ्चासीत् सविद्युत्स्तनयिन्तुमत् ।तद्दुर्द्दिनतलं भित्त्वा नारदः प्रत्यदृश्यत
”घनान्धकारः यथा, कुमारे ४३ ।“यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः ।अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः
”)वृष्टिः यथाह साञ्जः ।“घनान्धकारे वृष्टौ दुर्द्दिनं कवयो विदुः
”(यथा, रघुः ४१ ।“द्बिषां विषह्य काकुत्स्थस्तत्र नाराचदुर्द्दिनम् ।सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम्
”कुत्सितदिनम् ।)“सुदिनं दुर्द्दिनञ्चैव सर्व्वं कर्म्मोद्भवे भव ।तत् कर्म्म तपसां साध्यं कर्म्मणाञ्च शुभाशुभम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम्
“यदच्युतकथालापरसपीयूषवर्जितम् ।तद्दिनं दुर्द्दिनं मन्ये मेघाच्छन्नं दुर्दिनम्
”इत्युद्भटः
(दुर्द्दिनं वर्षः घनान्धकारो वा अस्त्यस्येति ।अच् वर्षयुक्ते घनान्धकारविशिष्टे च, त्रि ।यथा, हरिवंशे ६७ ६६ ।“सम्प्राप्ते दुर्द्दिने काले दुर्द्दिनं भाति वै नभः
”तथा, महाभारते ९१ २३ ।“जीमूतैश्च दिशः सर्व्वाश्चक्रे तिमिरदुर्द्दिनाः
”)