| YouTube Channel

दुर्जातं (durjAtaM)

 
शब्दकल्पद्रुमः
Sanskrit
दुर्जातं,
क्ली,
(दुर्दुष्टं यथा तथा जातम् प्रादि-समासः ।) व्यसनम् (यथा, रघुः १३ ७२ ।“दुर्जातबन्धुरयमृक्षहरीश्वरो मेपौलस्त एष समरेषु पुरः प्रहर्त्ता
”)असमञ्जसम् इति त्रिकाण्डशेषः
असम्यग्-जाते, त्रि इति मेदिनी ते, ११४
(यथा, महाभारते १२ २२४ ३३ ।“दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते
”)