दुर्गानवमी (durgAnavamI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaदुर्गानवमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾರ್ತಿಕ ಶುಕ್ಲ ನವಮಿ
व्युत्पत्तिः - > दुर्गा प्रिया नवमी
विस्तारः - > "कार्तिकस्य सिते पक्षे नवम्यां जगदम्बिकाम् । दुर्गां प्रपूजेत् भक्त्या धर्मकामार्थसिद्धये ॥"
Wordnet
Sanskrit दुर्गानवमी
अश्विनमासस्य शुक्लपक्षस्य नवमी।
"दुर्गानवमी नवरात्रस्य अन्तिमं दिनम् अस्ति।"
रामनवमी, दुर्गानवमी
चैत्रमासस्य शुक्लपक्षस्य नवमी।
"प्रभुरामः रामनवम्याम् अवतरितः।"
शब्दकल्पद्रुमः
Sanskritदुर्गानवमी, (दुर्गायाः पूजोपलक्षिता नवमी ।)कार्त्तिकशुक्लनवमी । सा त्रेतायुगाद्या । तत्रजगद्धात्रीपूजा कर्त्तव्या । यथा, योगिनीतन्त्रे ।“कार्त्तिकेऽमलपक्षे तु नवम्याञ्च विशेषतः ।प्रगल्भाञ्च जगद्धात्रीं पूजयेद्दीपमालया ॥
तन्त्रान्तरे ।‘त्रिकालं पूजयेद्दुर्गां मनुनैकाक्षरेण च ।नानाबलिविधानेन गीतवाद्यपुरःसरम् ॥
कार्त्तिकस्य सिते पक्षे नवम्याञ्च विशेषतः ।कृत्वैवं साधकश्रेष्ठो लभेद्राज्यमकण्टकम् ॥
’कुब्जिकातन्त्रे ।‘कार्त्तिके शुक्लपक्षे तु नवम्यां जगदम्बिकाम् ।दुर्गां प्रपूजयेद्भक्त्या धर्म्मकामार्थसिद्धये ॥
’शक्तिसङ्गमतन्त्रे ।‘कार्त्तिकस्य सिते पक्षे नवम्यां जगदीश्वरीम् ।त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत् ॥
निर्म्माय प्रतिमां शक्त्या जगद्धात्र्या विधानतः ।पूजयित्वा परदिने प्रतिमां तां विसर्जयेत् ॥
एवं कृत्वा चक्रवर्त्ती भवेत् साधकसत्तमः ।पुत्त्रपौत्त्रधनैश्वर्य्यसंयुतास्य भवेत् पुरी ॥
दासदासीगणैर्युक्तो मुक्तः स्यात् पापसङ्कटात् ।विशेषतो षसुयुतां नवमीं प्राप्य साधकः ।पूजयित्वा मृण्मयीं तां लभते वाच्छितं फलम् ॥
’भविष्ये ।‘मासैश्चतुर्भिर्यत् पुण्यं विधिना पूज्य चण्डिकाम् ।तत् फलं लभते वीर ! नवभ्यां कार्त्तिकस्य च ॥
”इति तिथितत्त्वम् ॥
वाचस्पत्यम्
Sanskritदुर्गानवमी स्त्री दुर्गाप्रिया तत्पूजाङ्गत्वात् नबमी ।कार्तिकशुक्लपक्षीयनवम्याम् । दुर्गाया इयम् अण् ङीप् ।दौर्गी तत्पूजयाङ्गनवमीतिथौ “श्रावणी दौर्गनवमीदूर्वा चैव हुताशनी । पूर्वविद्धैव कर्तव्या शिवरात्रिर्बले-र्दिनम्” ति० त० । तत्पूजाविधानादि योगिनीतन्त्रे यथा“कार्तिकेऽमलपक्षे च नवम्याञ्च विशेषतः । उद्बुद्धांतु जगद्धात्रीं पूजयेद् दीपमालया” तन्त्रान्तरे “त्रिकालंपूजयेद्दुर्गां मनुनैकाक्षरेण (दुँ) च । नानावलिविधानेनगीतवाद्यपुरःसरम् । कार्तिकस्य सिते पक्षे नवम्याञ्चविशेषतः । कृत्वैवं साधकश्रेष्ठी लभेद्राज्यमकण्टकम्”कुब्जिकातन्त्रे “कार्त्तिके शुक्लपक्षे तु नवम्यां जगद-म्बिकाम् । दुर्गां प्रपूजयेद् भक्त्या घर्मकामार्थसिद्धये ।शक्तिसङ्गमतन्त्रे “कार्तिकस्य सिते पक्षे नवम्यां जगदी-श्वरीम् । त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत् ।निर्माय प्रतिमां शक्त्या जगद्धात्र्या विधानतः । पूज-यित्वा परदिने प्रतिमां तां विसर्जयेत् । एवं कृत्वा चक्रवर्त्ती भवेत् साधकसत्तमः । पुत्रपौत्रघनैश्वर्य्यसंयु-तास्य भवेत् पुरी । दासदासीगणैर्युक्तो मुक्तः स्यात्पापसङ्कटात् । विशेषतः वसुयुतां नवमीं प्राप्य सा-धकः । पूजयित्वा मृण्मयीं तां लमते वाञ्छितं फलम्”भविष्ये “मासैश्चतुर्भिर्यत् पुण्यं विधिना०० पूज्य चण्डि-काम् । तत् फलं लभते घीर! नवम्यां कार्तिकस्य च” ।अधिकं जगद्धात्रीशब्दे ३००४ पृ० दृश्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
