| YouTube Channel

दुर्गमः (durgamaH)

 
Wordnet
Sanskrit
Synonyms:
दुर्गमः
adjective
दुःखेन गमनीयस्थानादि।
"सः पर्वतारोहणार्थे दुर्गमं मार्गम् अवलम्बितवान्।"
शब्दकल्पद्रुमः
Sanskrit
दुर्गमः, त्रि, (दुर्दुःखेन गम्यते इति दुर् + गम+ “ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।” ।३ १२६ इति खल् ।) दुर्गः दुःखेनगमनीयस्थानादि इति शब्दमाला
(यथा, महाभारते १४ ३५ ।“पार्श्वतःकेऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम्
”दुर्दुःखेन गम्यते ज्ञायते इति दुर्ज्ञेयः यथा, गहाभारते १३ १४ २९५ ।“नमो वृषभवाहाय गजेन्द्रगमनाय ।दुर्गमाय नमस्तुभ्यमगम्यगमनाय
”पुं, विष्णुः यथा, तत्रैव १३ १४९ ९६ ।विष्णुसहस्रनामकीर्त्तने ।“दुर्ल्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा
”असुरविशेषः यथा, मार्कण्डेये ९१ ४४ ।“तत्रैव वधिष्यामि दुर्गमाख्यं महासुरन्
”क्ली, वनम् सङ्कटस्थलम् यथा, महाभारते ।१ ८१ ३० ।“राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्
”)