दुर्गकर्मन् (durgakarman)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English दुर्गकर्मन् durgakarman fortification
Apte Hindi
Hindiदुर्गकर्मन्
*दुर्ग- कर्मन् -
किलाबन्दी
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaदुर्गकर्मन्
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕೋಟೆಯನ್ನು ಕಟ್ಟಿ ಬಲಪಡಿಸುವುದು
वाचस्पत्यम्
Sanskritदुर्गकर्म्मन् दुगार्थं दुर्गे वा कर्म कार्यम् । मा० शा० ८६ अ०उक्ते दुर्गसाधनकर्मभेदे यथा“तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः । श्रुत्वा तथाविधातव्यमनुष्ठेयञ्च यत्नतः । षडविधं दुर्गमास्थाय पु-राण्यथ निवेशयेत् । सर्वसम्पत्प्रधानं यद्बाहुल्यञ्चापिसम्भवेत् । धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च ।मनुष्यदुर्गं मृद्दुर्गं वनदुर्गञ्च तानि षट् । यत् पुरंदुर्गसम्पन्नं धान्यायुधसमन्वितम् । दृढप्राकारपरिखंहस्त्यश्वरथसङ्कुलम् । विद्वांसः शिल्पिनो यत्र निच-याश्च सुचिन्तिताः । धार्मिकश्च जनो यत्र दाक्ष्यमुत्तम-मास्थितः । ऊर्जस्विनरनागाश्वं चत्वरापणशीभितम् ।प्रसिद्धव्यवहारञ्च प्रशान्तमकुतोभयम् । सुप्रभं शान्त-नादञ्च सुप्रशस्तनिवेशनम् । शूराढ्यजनसम्पन्नं ब्रह्म-घोषानुनादितम् । समाजोत्सवसम्पन्नं सदा पूजितदै-बतम् । वश्यामात्यबलो राजा तत् पुरं स्वयमाविशेत् ।तत्र कोषं बलं मित्रं व्यवहारञ्च वर्द्धयेत् । पुरे जन-पदे चैव सर्वदोषान्निवर्त्तयेत् । भाण्डागारायुधागारंप्रयत्नेनाभिबर्द्धगेत । निचयान् बर्द्धयेत् सर्वांस्तथामन्त्रायुधालयान् । काष्ठलोहतुषाङ्गारदारुशृङ्गास्थि-वैणवान् । मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ।शणं सर्जरसन्धान्यमायुधानि शरांस्तथा । चर्मस्नायुंतथा वेत्रं मुञ्जवल्वजबन्धनान् । आशयाश्चोदपानाश्चप्रभूता सलिलाकराः । निरोढव्याः सदा राज्ञा क्षीरि-णश्च महीरुहाः । सत्कृताश्च प्रयत्नेन आचार्यत्विक्-पुरोहिताः । महेष्वासाः स्थपतयः सांवत्सरचिकित्-सकाः । प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः ।कुलीनाः सत्त्वसम्पन्ना युक्ताः सर्वेषु कर्मसु । पूजयेद्धा-र्मिकान् राजा निगृह्णीयादधार्मिकान् । नियुञ्ज्याच्चप्रयत्नेन सर्ववर्णान् स्वकर्मसु । बाह्यमाभ्यन्तरञ्चैव पौरजानपदं तथा । चारैः सुविदितं कृत्वा ततः कर्मप्रयोजयेत् । चरान् मन्त्रञ्च कोषञ्च दण्डञ्चैव विशेषतः ।अनुतिष्ठेत् स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् । उदासीनारिमित्राणां सर्वमेव चिकीर्षितम् । पुरे जनपदे चैवज्ञातव्यं चारचक्षुषा । ततस्तेषां विधातव्यं सर्वमेवा-प्रमादतः । भक्तान् पूजयता नित्यं द्विषतश्च निगृह्णता ।यष्टव्यं क्रतुभिर्नित्यं दातव्यञ्चाप्यपीडया । प्रजानांरक्षणं कार्यं न कार्यं धर्मबाधकम् । कृपणानाथ-वृद्धानां विधवानाञ्च योषिताम् । योगक्षेमञ्च वृत्तिञ्चनित्यमेव प्रकल्पयेत् । आश्रमेषु यथाकालं चेलभाजनभोजनम् । सदैवोपहरेद्राजा सत्कृत्याभ्यर्च्य मान्य च ।आत्मानं सर्वकार्य्याणि तापसे राष्ट्रमेव च । निवेदयेत्प्रयत्नेन तिष्ठेत् प्रह्णश्च सर्बदा । सर्वार्थत्यागिनां राजाकुले जातं बहुश्रुतम् । पूजयेत्तादृशं दृष्ट्वा शयनासन-भोजनैः । तस्मिन् कुर्वीत विश्वासं राजा कस्याञ्चिदा-पदि । तापसेषु हि विश्वासमपि कुर्व्नन्ति दस्यवः । तस्मिन्निधीनादधीत प्रज्ञां पर्य्याददीत च । न चापि तीक्ष्णंसेवेत भृशं वा प्रतिपूजयेत् । अन्यः कार्यः स्वराष्ट्रेषुपरराष्ट्रेषु चापरः । अटवीषु परः कार्यः सामन्तनगरेष्वपि ।तेषु सत्कारमानाभ्यां संविभागांश्च कारयेत् । परराष्ट्रा-टवीस्थेषु यथा स्वविषये तथा । ते कस्याञ्चिदवस्थायांशरणं शरणार्थिने । राज्ञे दद्युर्यथाकामं तापसाः संशि-तव्रताः । एष ते लक्षणोद्देशः सङ्क्षेपेण प्रकीर्त्तितः ।यादृशे नगरे राजा स्वयमावस्तुमर्हति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
