| YouTube Channel

दुरालभा (durAlabhA)

 
शब्दसागरः
English
दुरालभा
f.
(-भा) A prickly nightshade.
E.
दुर् difficult, लभ् to gain,
affix खल् but without any nasal.
Shabdartha Kaustubha
Kannada
दुरालभा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತೀಟಕ ಸಂಧಿ
निष्पत्तिः - > दुर् + + डुलभष् (प्राप्तौ) -"खल्" (३-३-१२६)
व्युत्पत्तिः - > दुःखेनालभ्यते
विस्तारः - > "रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा" - अम०
शब्दकल्पद्रुमः
Sanskrit
दुरालभा,
स्त्री,
(दुःखेन आलभ्यते गृह्यते स्पृश्यतेवासौ दुर् + + लभ + खल् + टाप् ।आगमविधेरनित्यत्वात् नुम् ।) स्वनामख्यात-कण्टकयुक्तक्षुद्रवृक्षविशेषः यवासप्रभेदः ।हिङ्गुथा इति ख्याता तत्पर्य्यायः दुरालम्भा २धन्वयासः ताम्रमूला कच्छुरा दुस्पर्शा ६धन्वी धन्वयवासकः प्रबोधनी सूक्ष्म-दला १० विरूपा ११ दुरभिग्रहा १२ दुर्लभा१३ दुःप्रधर्षा १४ इति राजनिर्घण्टः
यासः१५ यवासः १६ दुस्पर्शः १७ कुनाशकः १८रोदनी १९ अनन्ता २० समुद्रान्ता २१ इत्य-मरः ९२
गान्धारी २२ काषाया२३ इति भावप्रकाशः
धनुर्यासः २४ युवसः२५ कच्छरा २६ इति शब्दरत्नावली
विक-ण्ठकः २७ इति जटाधरः
(पद्ममुखी २८ ।इति शब्दचन्द्रिका
) अस्या गुणाः सार-दत्वम् ज्वरच्छर्द्दिश्लेष्मपित्तविसर्पवेदनानाशि-त्वञ्च इति राजवल्लभः
कटुत्वम् तिक्तत्वम् ।उष्णत्वम् क्षारत्वम् अम्लत्वम् मधुरत्वम् ।वातगुल्मप्रमेहनाशित्वञ्च इति राजनिर्घण्टः
“यवासस्य गुणैस्तुल्या बुधैरुक्ता दुरालभा
”इति भावप्रकाशः
(गङ्गा यथा, काशीखण्डे २९ ८८ ।“दीर्घव्रता र्दीर्घदृष्टिर्दीप्ततोया दुरालभा
”)दुरालभनीये, त्रि
वाचस्पत्यम्
Sanskrit
दुरालभा(म्भा) स्त्री दुःखेनालभ्यते स्पृश्यते असौ दुर् + +लभ--खल् आगमविधेरनित्यात्वात् वा मुम् (आलकुशी)१ लतायाम् राजनि० “दुरालभा कटुस्तिक्ता क्षारोष्णामधुराम्लिका वातगुल्मप्रमेहाणां नाशिनी परिकी-र्तिता” राजनि० “यवासस्य गुणैस्तुत्या बुधैरुक्तादुरालभा” भावप्र० दुःस्पर्शनीयमात्रे
त्रि०
“चूर्णंश्यामा त्रिवृन्नीली कट्वी मुस्ता दुरालभा” सुश्रु० “तीक्ष्ण-वीर्य्यास्तु भूतानां दुरालम्भाः सकण्टकाः” भा० अनु०९८ अ०