| YouTube Channel

दुराधर्षः (durAdharSaH)

 
शब्दकल्पद्रुमः
Sanskrit
दुराधर्षः,
पुं,
(दुष्टान् यज्ञविघ्नकारिराक्षसादीन्आधर्षति दूरीकरोतीति धृष् + अच् ।) गौर-सर्षपः इति राजनिर्घण्टः
(विष्णुः यथा, महाभारते १३ १४९ २२ ।“अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ।”“दैत्यादिभिर्धर्षयितुं शक्यते इति दुराधर्षः ।”इति तद्भाष्ये शङ्करः
दुःखेन ईषदपिधर्षयितुमशक्यः इति धृष् + “ईषद्दुःसु-ष्विति १२६ इति खल् ।) अधर्ष-णीये, त्रि
(यथा, महाभारते १९ ।३२ ।“भीमसेनो गदां भीमां प्रवार्षन् परिघोपमाम् ।प्रचकर्ष महासैन्यं दुराधर्षो महामनाः
”)