| YouTube Channel

दुदोहिषकः-दुदुहिषकः-षिका (dudohiSakaH-duduhiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“दुहिर् अर्दने”@} 2 ‘प्रपूरणे दोग्धि दुग्धे, दोहतीत्यर्दने दुहेः।।’ 3 इति देवः।
दोहकः-हिका, दोहकः-हिका, 4 दुदोहिषकः-दुदुहिषकः-षिका, दोदुहकः- 5 हिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतोहतिवत् 6 ज्ञेयानि।
7 जगद्दोही 8।
प्रासङ्गिक्यः
01
=>
(८५४)
02
=>
(१-भ्वादिः-७३८। सक। सेट्। पर।)
03
=>
(श्लो। १९३)
04
=>
[[९। ‘दिहिर्दुहिर्मेहतिरोहती--’ (व्याघ्रभूतिकारिका ७-२-१०) इत्यत्र नास्य धातोर्ग्रहणम्
\n\n अपि तु, आदादिकस्यैवेति, अत्र इड् भवत्येव। सन्नन्ते ण्वुलि, ‘रलोव्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पे, रूपद्वयं बोध्यम्।]]
05
=>
[पृष्ठम्०७६०+ २६]
06
=>
(७६०)
07
=>
[[१। कर्मण्युपपदे, ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
08
=>
[[आ। ‘गोविन्दस्तुहिनांशुरम्यवदनः कंसं जगद्दोहिनं…।।’ धा। का। १। ९२।]]