दुःशकुन (duHzakuna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaदुःशकुन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಪಶಕುನ /ಕೆಟ್ಟ ಸೂಚನೆ
व्युत्पत्तिः - > दुष्टं शकुनम्
वाचस्पत्यम्
Sanskritदुःशकुन दुष्टं शकुनं वा रोः शः । अशुभसूचके निमि-त्तभेदे “बन्ध्याचर्मतुषास्थि सर्पलबणाङ्गारेन्धनक्लीवविट्-तैलोन्मत्तवसौषधारिजटिलप्रव्राट्तृणव्याधिताः नग्नाभ्य-क्तविमुक्तकेशपतित व्यङ्गक्षुधार्त्ता असृक् स्त्रीपुष्पं शर-टः स्वगेहदहनं मार्जारयुद्धं क्षुतम् । काषायी गुड-तक्रपङ्कविधवाः कुब्जाः कुटुम्बे कलिर्वस्त्रादेः स्खलनंलुलापसमरं कृष्णानि धान्यानि च । कार्पासं वमनञ्चगर्दभरवो दक्षेऽतिरुट् गर्भिणी मुण्डार्द्राम्बरदुर्वचीन्धवधिरोदक्या न दृष्टाः शुभाः । कृष्णाम्बरा कृष्णविलेपनाट्याकृष्णस्रजं मूर्द्धनि घारयन्ती । दृष्टा प्रकीपा यदि कृष्ण-वर्णा नारी नरैस्तद्विपदो भवन्तीति” शब्दार्थचि० धृतवाक्यम्दिग्भेदादिभिः शकुनभेदे फलभेदः वृ० सं० ८६ अ० उक्ते यथा“अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् । यत्तस्यशकुनः पाकं निवेदयति गच्छताम् । ग्रामारण्याम्बुभू-व्योमद्युनिशोभयचारिणः । रुतयातेक्षितोक्तेषु ग्राह्याःस्त्रीपुन्नपुंसकाः । पृथग्जात्यनवस्थानादेषां व्यक्तिर्नलक्ष्यते । सामान्यलक्षणोद्देशे श्लोकावृषिकृताविमौ ।पीनोन्नतविपुष्टांसाः पृथुग्रीवाः सुवक्षसः । स्वल्पगम्भीर-विरुताः पुमांसः स्थिरविक्रमाः । तनूरस्कशिरोग्रीवाःसूक्ष्मास्यपदविक्रमाः । प्रसक्तमृदुभाषिण्यः स्त्रियोऽतो-ऽन्यन्नपुंसकम् । ग्रामारण्यप्रचाराद्यं लोकादेवोषलक्षयेत् । सञ्चिक्षिप्सुरहं वच्मि यात्रामात्रप्रयोजनम् ।पथ्यात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम् । स्वार्थेप्रधानं साम्यं स्याज्जातिविद्यावयोऽधिकम् । मुक्तप्राप्तैष्य-दर्कासु फलं दिक्षु तथाविधम् । अङ्गारिदीप्तधूमिन्यस्ताश्चशान्तास्ततोऽपराः । तत्पञ्चमदिशां तुल्यं शुभं त्रैकाल्य-मादिशेत् । परिशेषयोर्दिशोर्वाच्यं यथासन्नं शुभा-शुभम् । शीघ्रमासन्ननिम्नस्थिश्चिरादुन्नतदूरगैः । स्थान-वृद्ध्युपघाताच्च तद्वद्व्रूयात्फलं पुनः । क्षणतिथ्युडुवाता-र्कैर्दैवदीप्तो यथोत्तरम् । क्रियादीप्तो गतिस्थानभावस्वर-विचेष्टितैः । दशधैवं प्रशान्तोऽपि सौम्यस्तृणफलाशनः ।मांसामेध्याशनो रौद्रो विमिश्रोऽन्नाशनः स्मृतः । हर्म्य-प्रासादमङ्गल्यमनोज्ञस्थानसंस्थिताः । श्रेष्ठा मधुरसक्षीर-फलपुष्पद्रुमेषु च । स्वकाले गिरितीयस्था बलिनो द्यु-निशाचराः । क्लीवस्त्रीपुरुषाश्चैषां बलिनः स्युर्यथोत्तरम् ।जवजातिबलस्थानहर्षसत्त्वस्वरान्विताः । स्वभूमावनुली-माश्च तदूनाः स्युर्विवर्जिताः । कुक्कुटेभपिरिल्यश्च शिखि-वञ्जुलछिक्कराः । बलिनः सिंहनादश्च कूटपूरी च पूर्वतः ।क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः । कपोतरुदि-ताक्रन्दक्रूरशब्दाश्च याम्यतः । गोशशक्रौञ्चलोमाश-हंसोत्क्रोशकपिञ्जलाः । विडालीत्सववादित्रगीतहासाश्चवारुणाः । शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः । चार्षशल्यकपुण्याहथण्टाशङ्खरवा उदक् । न ग्राम्योऽरण्यगोग्राह्यो नारण्यो ग्रामसंस्थितः । दिवाचरो न शर्वर्यांन च नक्तञ्चरो दिवा । द्वन्द्वरोगान्वितत्रस्ताः कलहा-मिषकाङ्क्षिणः । आपगान्तरिता मत्ता न ग्राह्याः श-कुनाः क्वचित् । रोहिताश्वाजवालेयकुरङ्गोष्ट्रमृगाःशशः । निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ ।नंतु भाद्रपदे ग्राह्याः सूकरश्ववृकादयः । शरद्यब्जा-दगोक्रौञ्चाः श्रावणे हस्तिचातकौ । व्याघर्क्षवानर-द्वीपिमहिषाः सबिलेशयाः । हेमन्ते निष्फला ज्ञेयाषालाः सर्वे विमानुषाः । ऐन्द्रानलदिशोर्मध्ये त्रिभागेषुव्यवस्थिताः । कोशाध्यक्षानलाजीवितपोयुक्ताः प्रद-क्षिणम् । शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तरे ।परतश्चापि मातङ्गगोपधर्मसमाश्रयाः । नैरृतीवारुणी-मध्ये प्रमदासूतितस्कराः । शौण्डिकः शाकुनी हिंस्रीवायव्यपश्चिमान्तरे । विषघातकगोस्वामिकुहकज्ञास्ततःपरम् । धनवानीक्षणिकश्च मालाकारः परं ततः ।वैष्णवश्चरकश्चैव वाजिनां रक्षणे रतः । एवं द्वात्रिं-शतो भेदाः पूर्वदिग्भिः सहोदिताः । राजा कुमारोनेता च दूतः श्रेष्ठी चरो द्विजः । गजाध्यक्षश्च पूर्वाद्याःक्षत्रियाद्याश्चतुर्दिशम् । गच्छतस्तिष्ठतो वापि दिशियस्यां व्यवस्थितः । विरौति शकुनो वाच्यस्तद्दिग्जेनसमागमः । भिन्नभैरवदीनार्तपरुषक्षामजर्जराः । स्वरानेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूरिताः । शिवा श्यामारला छुच्छुः पिङ्गला गृहगोधिका । सूकरी परपुष्टाच पुन्नामानश्च वामतः । स्त्रीसञ्ज्ञा भासभषककपि-श्रीकर्णचिक्कराः । शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्चदक्षिणाः । क्ष्वेडास्पोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः ।सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः । ग्रामौमध्यमषड्जौ तु गान्धारश्चेति शोभनाः । षड्जामध्यम-गान्धारा ऋषभश्च स्वरा हिताः । रुतकीर्तनदृष्टेषु भार-द्वाजाजबर्हिणः । धन्या नकुलचाषौ च सरटः पापदो-ऽग्रतः । जाहकाहिशशक्रोडगोधानां कीर्त्तनं शुभम् ।रुतसन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः । ओजाः प्रदक्षिणंशस्ता मृगाः सनकुलाण्डजाः । चाषः सनकुलो वामोभृगुराहापराह्णतः । छिक्करः कूटपूरी च पिरिलीचाह्नि दक्षिणा । अपसव्याः सदा शस्ता दंष्ट्रिणः सबि-लेशयाः । श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे ।कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः । जालश्वचरणौनेष्टौ प्राग्याम्यौ शस्त्रघातकौ । पश्चादा सवषण्ढौ चखलासनहलान्युदक् । कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गणे ।यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यते । दिवा प्रस्थान-वद्ग्राह्याः कुरङ्गरुरुवानराः । अह्नश्च प्रथमे भागेचाषवञ्जुलकुक्कुटाः । पश्चिमे शर्वरीभागे नप्तृकोलूक-पिङ्गलाः । सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषि-ताम् । नृपसन्दर्शने ग्राह्याः प्रवेशेऽपि प्रयाणवत् ।गिर्यरण्यप्रवेशे च नदीनां चावगाहने । वामदक्षिणगौशस्तौ यौ तु तावग्रपृष्ठगौ । क्रियादीप्तौ विनाशाययातुः परिघसञ्ज्ञितौ । तावेव तु यथाभागं प्रशान्त-छतचेष्टितौ । शकुनौ शकुनद्वारसञ्ज्ञितावर्थसिद्धये ।केचित्तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः । शकुनैरेक-जातोयैः शान्तचेष्टाविराविभिः । विसर्जयति यद्येकएकश्च प्रतिषेधति । स विरोधोऽशुभो यातुर्ग्राह्योवा बलवत्तरः । पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिकोभवेत् । सुखेन सिद्धिमाचष्टे प्रवेशे तद्विपर्ययः । वि-सर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत् । प्राह यातु-ररेर्मृत्युं डमरं रीगमेव वा । अपसव्यास्तु शकुनादीप्ता भयनिवेदिनः । आरम्भे शकुनो दीप्तो वर्षान्त-स्तद्भयङ्करः । तिथिवाय्वर्कमस्थानचेष्टादीप्ता यथाक्रमम् ।धनसैन्यबलाङ्गेष्टकर्मणां स्युर्भयङ्कराः । जीमूतध्वनि-दीप्तेषु भयं भवति मारुतात् । उभयोः सन्ध्ययोर्दीप्ताःशस्त्रोद्भवभयङ्कराः । चितिकेशकपालेषु मृत्युबन्धबध-प्रदाः । कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः ।अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः । कुर्वन्तिशकुना दीप्ताः शान्ता याप्यफलास्तु ते । असिद्धिसिद्धिदौज्ञेयौ निर्हादाहारकारिणौ । स्थानाद्रुवन् व्रजेद्-यात्रां शंसते त्वन्यथागमम् । कलहः स्वरदीप्तेषु स्थान-दीप्तेषु विग्रहः । उच्चमादौ स्वरं कृत्वा नीचं पश्चाच्चघोषकृत् । एकस्थाने रुवन्दीप्तः सप्ताहाद्ग्रामघातकृत् ।पुरदेशनरेन्द्राणामृत्वर्द्धायनवत्सरात् । सर्वे दुर्भिक्षकर्तारःस्वजातिपिशिताशनाः । सर्पमूषिकमार्जारपृथुरोमविव-र्जिताः । परयोनिषु गच्छन्तो मैथुनं देशनाशनाः ।अन्यत्र वेसरोत्पत्तेर्नृणां चाजातिमैथुनात् । बन्धघात-भयानि स्युः पादोरुमस्तकान्तिगैः । अगष्पपिशितान्ना-दैर्वर्षमोषक्षतग्रहाः । क्रूरीग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः ।चिरकालैश्च दीप्ताद्यास्वागमो दिक्षु तन्नृणाम् । सद्रव्योवलवांश्च स्यात्सद्रव्यस्यागमो भवेत् । द्युतिमान् विनतप्रेक्षीसौम्यी दारुणवृत्तकृत् । विदिक्स्थः शकुनो दीप्तो वाम-स्थेनानुवाशितः । स्त्रियाः संग्रहणं प्राह तद्दिगाख्यात-योनितः । शान्तः पञ्चमदीप्तेन विरुतो विजयावहः ।दिग्नरागमकारी वा दोषकृत्तद्विपर्यये । वामसव्यरुतोमध्यः प्राह स्वपरयोर्भयम् । मरणं कथयन्त्येते सर्वेसमविराविणः । वृक्षाग्रमध्यमूलेषु गजाश्वरथिकागमः ।दीर्घाब्जमुषिताग्रेषु नरनौशिविकागमः । शकटेनोन्नत-स्थे च छायास्थे छत्रसंयुतः । एकत्रिपञ्चसप्ताहात्पूर्वाद्यास्वन्तरासु च । सुरपतिहुतवहयमनिरृति-वरुणपवनेन्दुशङ्कराः । प्राच्यादीनां पतयो दिशः पुमांसो-ऽङ्गना विदिशः । तरुतालीविदलाम्बरसलिलजशरचर्म-पट्टलेखाः स्युः । द्वात्रिंशत् विभक्ते दिक्चक्रे तेषुकार्याणि । व्यायामशिखिनिकूजितकलहाम्भोनिगड-मन्त्रगोशब्दाः । वर्णाश्च रक्तपीतककृष्णसिताः कोणगामिश्राः । चिह्नं ध्वजो दग्धमथ श्मशानं दरी जलंपर्वतयज्ञघोषाः । एतेषु संयोगभयानि विन्द्यात् अन्यानिवा स्थानविकल्पितानि । स्त्रीणां विकल्पे वृहतीकुमारी व्यङ्गा विगन्धा त्वथ नीलवस्त्रा । कुस्त्री प्रदीर्घाविधवा च ताश्च संयोगचिन्तापरिवेदिकाः स्युः ।पृच्छासु रूप्यकनकातुरभामिनीनां मेषाव्ययानमखगोकुल-संश्रयासु । न्यग्रीधरक्ततरुलोध्रककीचकाख्याश्चूतद्रुमाःखदिरबिल्वनगार्जुनाश्च” ।अन्यानि शुभाशुभशकुनानि तत्रोक्तानि तत्तच्छब्दे उक्तानि
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
