| YouTube Channel

दीर्घायुः (dIrghAyuH)

 
Wordnet
Sanskrit
Synonyms:
शाल्मली, पिच्छिला, पूरणी, मोचा, स्थिरायुः, शाल्मलः, शाल्मलिनी, तुलिनी, कुक्कुटी, रक्तपुष्पा, कण्टकारी, मोचिनी, चिरजीवी, पिच्छिलः, रक्तपुष्पकः, तूलवृक्षः, मोचाख्यः, कण्टकद्रुमः, रक्तोत्पलः, रम्यपुष्पः, बहुवीर्यः, यमद्रुमः, दीर्घद्रुमः, स्थूलफलः, दीर्घायुः, कण्टकाष्ठः
noun
एकः बृहत् वृक्षः यस्मिन् रक्तपुष्पाणि भवन्ति।
"शाल्मल्याः फलस्य अधोभागे कार्पासः भवति।"
शब्दकल्पद्रुमः
Sanskrit
दीर्घायुः, [स्]
पुं,
(दीर्घं आयुर्यस्य ।) शाल्मलि-वृक्षः काकः जीवकवृक्षः मार्कण्डेयः ।चिरजीविनि, त्रि इति मेदिनी से, ५५
(यथा, महाभारते ५७ १४ ।“दीर्घायुषः प्रजाः सर्व्वा युवा म्रियते तदा
”)“तत्र महापाणि-पाद-पार्श्वपृष्ठस्तनाग्रदशन-वदनस्कन्धललाटं दीर्घाङ्गुलिपर्व्वोच्छ्वासप्रेक्षण-बाहुं विस्तीर्णभ्रूस्तनान्तरोष्कं ह्रस्वजङ्घामेढ्रग्रीवंगम्भीरसत्त्वस्वरनाभिमनुच्चैर्बद्धस्तनमुपचितमहा-रोमशकर्णं पश्चान्मस्तिष्कं स्नातानुलिप्तं मूर्द्धानु-पूर्व्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाण-हृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति ।”“गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः ।उत्तरोत्तरसुक्षेत्रो यः दीर्घायुरुच्यते
गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते ।शरीरज्ञानविज्ञानैः दीर्घायुः समासतः
”इति सुश्रुते सूत्रस्थाने ३५ अध्याये
)