| YouTube Channel

दीर्घसूक्ष्म (dIrghasUkSma)

 
वाचस्पत्यम्
Sanskrit
दीर्घसूक्ष्म
पु०
कर्म० पात० सू० भाष्योक्ते प्राणायामभेदेतत्स्वरूपादि तत्रोक्तं यथा“तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणा-यामः” सू० “सत्यासनजये बाह्यस्य वायोराचमनंश्वामः कोष्ठ्यस्य वायोर्निःसारणं प्रश्वासः तयोर्गति-विच्छेद उभयाभावः प्राणायामः” भा० “बाह्या-भ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टोदीर्घसूक्ष्मः”सू० “यत्र प्रश्वासपूर्वको गत्यभावः वाह्यः यत्र श्वास-पूर्ष्वको गत्यभावः आभ्यन्तरः तृतीयस्तम्भवृत्तिर्यत्रोभ-याभावः सकृत्प्रयत्नाद् भवति यथा तप्ते न्यस्तमुपले जलंसर्वतः सङ्कोचमापद्यते तथा द्वयोर्युगपद्गत्यभावैति ।त्रयोऽप्येते देशेन परिदृष्टाः, इयानस्य विषयो देशैति ।कालेन परिदृष्टाः क्षणानामियत्ताबधारणेनावच्छिन्नाइत्यर्थः सङ्ख्याभिः परिदृष्टाः एतावद्भिः श्वासप्रश्वासैःप्रथम उद्घातस्तद्वत् विगृहीतस्यैतावद्भिः द्वितीय उद्घातःएवं तृतीयः एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्या-परिदृष्टः खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः” भा० ।“बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” सू० “देशकाल-सङ्ख्यामिर्बाह्यविषयः परिदृष्ट आक्षिप्तः तथाभ्यन्तरविषयःपरिदृष्ट आक्षिप्तः उभयथा दीर्घसूक्ष्मः तत्पूर्वको भूमि-जयात् क्रमेणाभयोर्गत्यभावश्चतुर्थः प्राणायामः तृती-यस्तु विषयानालोचितो गत्यभावः सकृदारब्धएव देश-कालसङ्ख्याभिः परिदृष्टोदीर्घसूक्ष्मश्चतुर्थस्तु श्वासप्रश्वासयो-र्विषयावधारणात् क्रमेण भूमिजयादुभयाक्षेपपूर्बकोगत्यभावश्चतुर्थः प्राणायामः इत्ययं विशेषः” भा०