| YouTube Channel

दीर्घरोहिषकं (dIrgharohiSakaM)

 
शब्दकल्पद्रुमः
Sanskrit
दीर्घरोहिषकं,
क्ली,
(दीर्घं रोहिषम् ततः स्वार्थेसंज्ञायां वा कन् ।) कत्तृणभेदः सुगन्धितृण-विशेषः वड रोहिष इति भाषा तत्पर्य्यायः ।दृढकाण्डम् दृढच्छदम् यज्ञेष्टम् दीर्घ-नालम् तिक्तसारम् अस्य गुणाः तिक्त-त्वम् कटुत्वम् उष्णत्वम् कफवातभूतग्रह-विषनाशित्वम् व्रणक्षतविरोपणत्वञ्च इतिराजनिर्घण्टः