| YouTube Channel

दीपान्वित (dIpAnvita)

 
वाचस्पत्यम्
Sanskrit
दीपान्वित
त्रि०
त० दीपयुक्ते गृहादौ श्मशानचत्व-रादिषु देयदीपयुक्तायां मुख्याश्विनस्व गौणकार्त्तिकस्य२ अमावास्यायाम् स्त्री तत्कर्त्तव्यादि यथाभविष्यपुराणे “येयं दीपान्विता राजन् ख्याता पञ्च-दशी भुवि तस्यां दद्यान्न चेद्दत्तं पितॄणां वै महा-लये प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् ।दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि चतुष्पथेश्मशानेषु नदीपर्वतसानुषु वृक्षमूलेषु गोष्ठेषु हत्वरेषुगृहेषु वस्त्रैः पुष्पैः शोभितव्याः क्रयविक्रय-भूमयः दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम ।ब्राह्मणान् भोजयित्वादौ विभज्य बुभुक्षितान् ।अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना स्निग्धैर्मुग्धै-र्विदग्धैश्च बान्धवैर्भृतकैः सह” तिथित० ।निर्णयसिन्धौ तत्र विशेष उक्तो यथाकालादर्शे “प्रत्यूष अश्वयुग्दर्शे कृताभ्यङ्गादिमङ्गलः ।भक्त्या प्रपूजयेद्देवीमलक्ष्मीविनिवृत्तये” अस्य व्याख्यानेआदिशब्दात्पञ्चत्वगुदकस्नानादेरुपसंग्रहः तदुक्तं पद्मपु-राणे “स्वातिस्थिते रवाविन्दुर्यदि स्वातिगतो भवेत् पञ्च-त्वगुदकस्नायी कृताभ्यङ्गविधिर्नरः नीराजितो महाल-क्ष्मीमर्चयन् श्रियमश्नुते अश्वयुग्दर्श इति दर्शशब्दःप्रत्यूषे स्वातियुक्ततिथिपरः तदुक्तं व्राह्मे “ऊर्जेशुक्लद्वितीयायां तिथिषु स्वातिऋक्षगे मानवो मङ्गल-स्नायी नैव लक्ष्म्या वियुज्यते” तत्रैव “इषेभूते दर्शेच कार्त्तिकपथमे दिने यदा स्वाती तदाभ्यङ्गम्नानंकुर्याद्दिनोदये” कश्यपमंहितायां तु दीपाबलिदर्शं प्रकम्य“इन्दुक्षयेऽपि संक्रान्तौ रवौ पाते दिनक्षये तत्राभ्यङ्गोन टोषाय पातः पापापनुत्तये” इति स्वातियोगं विना-प्यभ्यङ्ग उक्तः मात्स्ये “दीपैर्नाराजनादत्र सैषा दी-पाबली स्मृता” अत्र विशेषो हेमाद्रौ भविष्ये “दिवातत्र भोक्तव्यमुते वालातुराज्जनात् प्रदोषसमयेलक्ष्मीं पूजयित्वा ततः क्रमात् दीपवृक्षाश्च दातव्याःशक्त्या देवगृहेषु च” तत्रैवाभ्यङ्गमभिधाय “एवं प्रभा-तसमये त्वमावास्यां नराधिप! कृत्वा तु पार्वणश्राद्धंदधिचोरघृतादिभिः दीपान् दत्त्वा प्रदोषे तु लक्ष्मींपूज्य यथाविधि स्वलङ्कृतेन भोक्तव्यं सितवस्त्रोपशो-भिना” अयं प्रदोषव्यापी ग्राह्यः “तुलासंस्थे सह-स्रांशौ प्रदीषे भूतदर्शयोः उल्काहस्ता नराः कुर्युःपितॄणां मार्गदर्शनम्” इति ज्योतिषोक्तेः “दिनद्वयेतस्य सत्त्वे परः “दण्डैकरजनीयोगे दर्शः स्यात्तु परे-ऽहनि तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका”इति तिथतत्त्वे ज्योतिर्वचनात् दिवोदासीये तु प्रदोषस्यकर्मकालत्वात् “अर्द्धरात्रे भवत्येव लक्ष्मीराश्रयितुंगृहान् अतः स्वलङ्कृता लिप्ता दीपैर्जाग्रज्जनोत्सवाः ।सुधाघवलिताः कार्याः पुष्पमालोपशोभिताः” इति ब्राह्मो-क्तेश्व प्रदोषार्द्धरात्रव्यापिनी मुख्या, एकैकव्याप्तौ परैव ।प्रदोषस्य मुख्यत्वादर्धरात्रेऽनुष्ठेयाभावाच्च यत्तु “अप-राह्णे प्रकर्त्तव्यं श्राद्धं पितृपरायणैः प्रदोषसमयेराजन्! कर्त्तव्या दीपमालिका” इति क्रमः सम्पूर्णति-थावेव प्राप्तेरनुवादो विधिः तत्तत्कर्मकालव्याप्तेर्बलसत्त्वात् सम्पूर्ण्णितिथौ प्राप्त्या खण्डतिथावप्राप्त्या विध्य-नुवादविरोधाच्चेत्युक्तम् अत्रैव दर्शेऽपररात्रेऽलक्ष्मीनिःसारणमुक्तं मदनरत्ने भविष्ये “एवं गते निशीथेतु जने निद्रार्द्रलोचने तावन्नगरनारीभिः शूर्पडि-ण्डिमवादनैः निष्काश्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहा-ङ्गणात्” दीपाबली (देओयार्ला) इति ख्याता तत्रार्थे