| YouTube Channel

दीपनः (dIpanaH)

 
Wordnet
Sanskrit
Synonyms:
पलाण्डुः, सुकन्दकः, लोहितकन्दः, तीक्ष्णकन्दः, उष्णः, मुखदूषणः, शूद्रप्रियः, कृमिघ्नः, दीपनः, मुखगन्धकः, बहुपत्रः, विश्वगन्धः, रोचनः, पलाणडूः, सुकन्दुकः
noun
मूलविशेषः अस्य गुणाः कटुत्व-कफपित्तवान्तिदोषनाशित्वादयः।
"पलाण्डुः शीतलत्वगुणयुक्तः।"
Synonyms:
दीपनः , मयूरशिखः
noun
क्षुपविशेषः
"दीपनस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
दीपनः,
पुं,
(दीप्यते इति दीप + ल्युः ।) मयूर-शिखा (दीप + णिच् + ल्युः ।) शालिञ्चशाकः ।इति शब्दचन्द्रिका
कासमर्द्दः पलाण्डुः ।इति राजनिर्घण्टः
दीपयितरि, त्रि
(यथा, ऋतुसंहारे ।“सुवासितं हर्म्यतलं मनोरमंप्रियामुखोच्छासविकल्पितं मघु ।सुतन्त्रिगीतं मदनस्य दीपनंशुचौ निशीथेऽनुभवन्ति कामिनः
”)