| YouTube Channel

दीपकं (dIpakaM)

 
शब्दकल्पद्रुमः
Sanskrit
दीपकं,
क्ली,
(दीपयतीति दीप् + णिच् + ण्वुल् ।)वाक्यालङ्कारः दीप्तिकारके, त्रि इति मेदिनी ।के, १०४
कुङ्कुमम् इति शब्दरत्नावली
*
वाक्यालङ्कारस्य लक्षणं यथा, --“पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ।एकधर्म्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता
अप्रस्तुतप्रस्तुतयोर्दीपकन्तु निगद्यते ।अथ कारकमेकं स्यादनेकासु क्रियासु चेत्
यथा, माघे ।बलावलेपादधुनापि पूर्व्ववत्प्रसाध्यते तेन जगज्जिगीषुणा ।सती योषित् प्रकृतिश्च निश्चलापुमांसमभ्येति भवान्तरेष्वपि
”इति साहित्यदर्पणे १० ६७
अपि काव्यचन्द्रिकायाम् ।“जातिक्रियागुणद्रव्यवाचकेन पदेन तु ।एकत्र वर्त्तिना सर्व्ववाक्यार्थो दीपकम्भवेत्
”यथा, --भ्रमद्भ्रमरझङ्कारपुंस्कोकिलकलध्वनिः ।मन्दचन्दनवातोऽपि हरन्ति हृदयं नृणाम्