| YouTube Channel

दीधीङ् (dIdhIG)

 
Shabdartha Kaustubha
Kannada
दीधीङ् - दीप्तिदेवनयोः (अदा० आत्म० अक० से०) दीधीते
पदविभागः - > धातुः
कन्नडार्थः - > ಪ್ರಕಾಶಿಸು /ಹೊಳೆ
दीधीङ् - दीप्तिदेवनयोः (अदा० आत्म० अक० से०) दीधीते
पदविभागः - > धातुः
कन्नडार्थः - > ಆಟವಾಡು /ಕ್ರೀಡಿಸು
दीधीङ् - दीप्तिदेवनयोः (अदा० आत्म० अक० से०) दीधीते
पदविभागः - > धातुः
कन्नडार्थः - > ವ್ಯವಹರಿಸು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दीधी
मूलधातुः:
दीधीङ्
धात्वर्थः:
दीप्ति-देवनयोः
गणः:
अदादिः
कर्मकत्वं:
दीप्तौ सकर्मकः, देवने अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
दीधीते
अनुबन्धादिविशेषः:
अनेकाच्, ईकारान्तः, छान्दसः
धातुप्रदीपः
Sanskrit
दीधीङ् दीप्ति, देवनयोः
- दीधीते दीधीः दीधीतिः दीधिता दीधितम् ।। 67 ।।
क्षीरतरङ्गिणी
Sanskrit
दीधीङ् दीप्ति, देवनयोः
- (अर्थविवरणम्) देवनं क्रीडा
आदीधीते यीवर्णयोर्दीधीवेव्योः (7453) लोपः-आदीध्यते, आदीधिता दीधीवेवीटाम् (116) इति गुणवृद्धी स्तः-आदीध्यनम्, आदीध्यकः दीधितिः-अग्रहादीनाम् (729 वा0) इति पर्युदासात् तितुत्र (729) इतीण्निषेधो नास्ति 63
धातुवृत्तिः
Sanskrit
दीधीङ् (अर्थः) दीप्ति, देवनयोः
(दीधीते, दीध्याते, दीध्यते, दीधीषे, दीधीध्वे, दीध्ये, दीधीवहे)अजादौ "एरनेकाच'' इति यण् "यीवर्णयोर्दीधीवेव्योः'' इति यकारादाविकारौ विधीयमानयीकारलोप इति भवति नित्यत्वेन टेरेत्वे इवर्णाभावात् (दीध्यांचक्रे, ) "दीधीवेवीटाम्'' इति गुणे निषिद्धे यणादेशः (दीधिता दीधिष्यते) इटि "यीवर्णयोः'' इतीकारलोपः (दीधीतां, दीध्यातां, दीधीष्व, दीध्यै, दीध्यावहै, ) आटि वा ऽगुणत्वम्(अदीधीत, अदीध्याताम्, अदीधीथाः, अदीधि, ) "यीवर्णयोः'' इति लोपः (दीधीत दीधीयातां ) लिङस्सलोपे "यीवर्णयोः'' इति लोपः आशिषि, ( दीधीषीष्ट, अदीधिष्ट, अदीधिष्ठाः, अदीधिषि, दिदीधिषते दीधयति, ) "दीधीवेव्योः'' इति वृद्धिनिषेधे, "यीवर्णयोः'' इति लोपे शपि णेर्गुणायौ ( दीधितिः ) संज्ञायां क्तिचि "तितुत्र'' इतीण्णिषेधो भवति, "अग्रहादीनाम्'' इति तत्रोक्तत्वात् 66
कृदन्तरूपमाला
Sanskrit
1 {@“दीधीङ् दीप्तिदेवनयोः”@} 2 छान्दसः।
देवनम् = क्रीडाविजिगीषादिकम्।
जक्षित्यादिः।
3 “दरिद्राजागृदीधीङाम् एकाचां चिरेर्जिरेः।
अदन्तोर्णोतिवेवीङां स्मर्यते नेत् तथा लडेः।।” इति वचनात् अस्य धातोरनेकाच्त्वम्
तु ईदित्त्वम्।
तेन यङ् न।]] 4 दीध्यकः-ध्यिका, 5 दीध्यकः-ध्यिका, 6 दिदीधिषकः-षिका
7 दीधिता-त्री, 8 दीधयिता-त्री, दिदीधिषिता-त्री
-- दीधयन्-न्ती, दीधयिष्यन्-न्ती-ती
-- 9 दीध्यानः, दीधयमानः, दिदीधिषमाणः
दीधिष्यमाणः, दीधयिष्यमाणः, दिदीधिषिष्यमाणः
दीधिः-दीध्यौ-दीध्यः
-- -- दीधितम्-तः-तवान्, दीधितः, दिदीधिषितः-तवान्
10 दीध्यः, दीध्यः, दिदीधिषुः
दीधितव्यम्, दीधयितव्यम्, दिदीधिषितव्यम्
दीध्यनीयम्, दीध्यनीयम्, दिदीधिषणीयम्
11 दीध्यम्, दीध्यम्, दिदीधिष्यम्
ईषद्दीध्यः-दुर्दींध्यः-सुदीध्यः
-- -- दीध्यमानः, दीध्यमानः, दिदीधिष्यमाणः
दीध्यः, दीध्यः, दिदीधिषः
दीधितुम्, दीधयितुम्, दिदीधिषितुम्
12 दीधितिः 13, दीध्यना, दिदीधिषा
दीध्यनम्, दीध्यनम्, दिदीधिषणम्
दीधित्वा, दीधयित्वा, दिदीधिषित्वा
आदीध्य, आदीध्य, प्रदिदीधिष्य
14 दीध्यम् २, दीधित्वा २, दीध्यम् २, दीधयित्वा २, दिदीधिषम्
दिदीधिषित्वा २।
प्रासङ्गिक्यः
01
=>
(८४५)
02
=>
(२-अदादिः-१०७६- सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
[[२। ण्वुलि, अकादेशे, ‘दीधीवेवीटाम्’ (१-१-६) इति गुणवृद्धिनिषेधात् वृद्ध्य- भावे, ‘एरनेकाचोऽसंयोगपूर्वस्य’ (६-४-८२) इति यण्। एवं अनीयर्, घञ्, ल्युट्प्रभृतिष्वपि यथासम्भवं गुणवृद्धिनिषेधो ज्ञेयः।]]
05
=>
[[३। ण्यन्तान्ण्वुलि, ‘णेरनिटि’ (६-४-५१) इति णिलोपे, गुणवृद्ध्योर्निषेधे, यणि रूपम्। एवं अनीयर्ल्युडादिष्वपि प्रक्रिया ज्ञेया।]]
06
=>
[[४। सन्नन्तान्ण्वुलि, सन इडागमे, द्वित्वादिकेषु कृतेषु, ‘यीवर्णयोर्दीधीवेव्योः’ (७-४-५३) इति उत्तरखण्डे धातोरीकारस्य लोपे, षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
07
=>
[[५। धातोरस्य सेट्त्वात्, तृचि, ‘यीवर्णयोर्दीधीवेव्योः’ (७-४-५३) इतीकारलोपे रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
08
=>
[[६। ण्यन्तात् तृचि, इडागमे, ‘यीवर्णयोः--’ (७-४-५३) इति ईकारलोपे, णिचो गुणे, अयादेशे रूपमेवम्। एवं शानजन्तादिष्वपि प्रक्रिया बोध्या।]]
09
=>
[[७। शानचि, शपो लुकि, प्रकृतेर्गुणवृद्धिनिषेधात् यणादेशे रूपमेवम्।]]
10
=>
[पृष्ठम्०७५२+ २६]
11
=>
[[१। ‘अचो यत्’ (३-१-९७) इति यति, यकारादिप्रत्ययत्वात् ‘यीवर्णयोः--’ (७-४-५३) इति ईकारलोपे, रूपमेवम्।]]
12
=>
[[२। क्तिनि, संज्ञायां क्तिचि वा, ‘तितुत्रेष्वग्रहादीनाम्--’ (वा। ७-२-९) इति पर्युदा- सात् फणितिरित्यत्रेव इडागमे, ईकारलोपे, रूपम्।]]
13
=>
[[आ। ‘देवं स्फुरद्दीधितिमम्बुजाक्ष्यो वेव्यानमालोक्य विमोहमापुः।।’ धा। का। २। ५२।]]
14
=>
[[३। णमुलि, ‘दीधीवेवीटाम्’ (१-१-६) इति वृद्धिनिषेधे, यणि, दीध्यकः इत्यत्रेव दीध्यम् इत्येव रूपमिति बोध्यम्। धातुरूपप्रकाशिकायां तु दीधायम् इति वृद्धिप्राप्तियुक्तं रूपं णमुलि प्रदर्शितम्। तत्र वृद्धिविधायकं शास्त्रं पश्यामः।]]