| YouTube Channel

दीदांसुः (dIdAMsuH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“दान खण्डने”@} 2 3 दीदांसकः-सिका, 4 दीदांसकः-सिका, 5 दीदांसिषकः-षिका, 6 दानकः-निका
दीदांसिता-त्री, दीदांसयिता-त्री, दानिता-त्री
दीदांसन्-न्ती, दीदांसयन्-न्ती, दानयन्-न्ती
दीदांसिष्यन्-न्ती-ती, दीदांसयिष्यन्-न्ती-ती, दानयिष्यन्-न्ती-ती
दीदांसमानः, दीदांसयमानः, दानयमानः
दीदांसिष्यमाणः, दीदांसयिष्यमाणः, दानयिष्यमाणः
दीदान्-दीदांसौ दीदांसः
-- -- दीदांसितः, दीदांसयितः-तवान्, दानितः-तवान्
7 दीदांसुः, दीदांसयिषुः, दानः
दीदांसितव्यम्, दीदांसयितव्यम्, दानयितव्यम्
दीदांसनीयम्, दीदांसनीयम्, दानीयम्
8 दीदांस्यम्, दीदांस्यम्, दान्यम्
ईषद्दीदांसः-दुर्दीदांसः-सुदीदांसः
-- -- दीदांस्यमानः, दीदांस्यमानः, दान्यमानः
दीदांसः, दीदांसः, दानः
दीदांसितुम्, दीदांसयितुम्, दानयितुम्
दीदांसा, दीदांसना, दानना
दीदांसनम्, दीदांसनम्, दाननम्
दीदांसित्वा, दीदांसयित्वा, दानयित्वा
प्रदीदांस्य, प्रदीदांस्य, प्रदान्य
दीदांसम् २, दीदांसित्वा २, दीदांसम् २, दीदांसयित्वा २, दानम्
दानयित्वा २।
प्रासङ्गिक्यः
01
=>
(८३२)
02
=>
(१-भ्वादिः-९९४। सक। सेट्। उभ।)
03
=>
[[१। ‘मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य’ (३-१-६) इत्यनेन धातोः स्वार्थे सन्, अभ्यासस्य दीर्घश्च विधीयते। दानेरस्यार्जवे सन्। अस्य सनः ‘धातोः’ (३-१-९१) इति विहितत्वाभावेनानार्धधातुकत्वादिडागमो भवति। एवं स्वार्थसन्नन्तात् सर्वत्र प्रक्रिया ज्ञेया।]]
04
=>
[[२। नित्यसन्नन्ताण्णिचि रूपमेवम्। एवमेव सर्वत्र ण्यन्ते ज्ञेयम्।]]
05
=>
[[३। ‘सरूपः प्रत्ययो नेष्टः, सन्नन्तान् सनिष्यते।।’ (भाष्यम् ३-१-७) इत्युक्त्या, स्वार्थसन्नन्तादस्मात् इच्छासन् तु भवत्येव। इच्छासन्नन्ते सर्वत्र तृजादावपि दीदांसिषिता-त्री इत्यादीनि रूपाणि यथासम्भवमेवमेवोह्यानि। अत्र कितधातौ (१९२) तृतीयरूपाणीव सर्वाणि प्रायो ज्ञेयानि।]]
06
=>
[[४। ‘अर्थान्तरेऽननुबन्धकाश्चुरादयः’ (सिद्धान्तकौमुद्याम्) इत्युक्त्या खण्डनाद्यर्थे तु चौरादिकत्वात् शुद्धण्यन्ताद्रूपाणीमानि प्रदर्शितानि।]]
07
=>
[[आ। ‘मोहं चिकित्सन् वचसाऽस्य कृष्णो दीदांसुचित्तस्य सुविस्मितस्य।’ धा। का। २। ४१।]]
08
=>
[पृष्ठम्०७३८+ २७]