| YouTube Channel

दीङ् (dIG)

 
Shabdartha Kaustubha
Kannada
दीङ् - क्षये (दिवा० आत्म० अक० अनि०) दीयते
पदविभागः - > धातुः
कन्नडार्थः - > ಕ್ಷಯ ಹೊಂದು /ನಾಶ ಹೊಂದು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दी
मूलधातुः:
दीङ्
धात्वर्थः:
क्षये
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
दीयते
अनुबन्धादिविशेषः:
ओदित्
धातुप्रदीपः
Sanskrit
दीङ् क्षये
- दीयते उपदिदीये उपदाता दास्यते अदास्त दीनः दिदीषत इति दाधाघ्वदाप् (1120) इत्यत्र भाष्ये उदाहृतम् कालापास्तु दीङः सनीत्यात्त्वमिच्छन्तो दिदासत इत्युदाहरन्ति (8) देदीयते दीत्वा उपदाय 28
क्षीरतरङ्गिणी
Sanskrit
दीङ् क्षये
- इतो दोपर्यन्तास् (438) त्रयोदशानिटः दीयते दीनः दीङो युडचि क्ङिति (6463)-उपदिदीये, उददिदीयाते मीनातिमिनोतिदीङां ल्यपि 6150) इत्यात्त्वम्-उपदाता, उपदाय उपदेश एवात्त्वात् (द्र0 6150 भाष्य) श्याद्व्यध (31141) इति णः-उपदायः स्थाघ्वोरिच्च (1220) इत्यत्र दीङः प्रतिषेधः (1220 वा0) उपादास्त स्वरः शिक्षकस्य उपदेदीयते, उपदिदीषते, उपदिदासत इत्यपीष्यते
धातुवृत्तिः
Sanskrit
दीङ् (अर्थः) क्षये
एतदादयोऽनुदात्ता आत्मनेपदिनः पीङ्पर्यन्तः डीङ् तु सेट् (दीयते, दीयेते दिदीये, दिदीयाते, दिदीयिरे, दिदीयिषे, दिदीयिढ्वे, दिदीये, दिदीयिवहे ) क्रादिनियमादिट् "दीङो युडचि क्ङिति'' इत्यजादावाधधातुके क्ङिति युडागमः "एरनेकाच'' इति यणि कर्तव्ये "असिद्धवदत्र'' इति नासिद्धः, [ वुग्युटावुवङ्यणोः सिद्धौ, वक्तव्यौ] इत्युक्तत्वादत्र ध्वमि "विभाषेटः'' इति मूर्धन्यविकल्पो भवति कृते युटि प्रतत्ययभक्तेनानेनइणन्तादङ्गात्परत्वमिटो विहितमिति "इणष्षीध्वम्'' इति नित्यमेव भवतीत्येके अपरे तु अद्गादिति नानुवर्तते इति युट एव यणः परत्वान्मूर्धन्यविकल्पमाहुः उक्तं चैतत्पक्षद्वयं वृत्तौ ( दाता दास्यते ) "मिनातिमिनोतिदीङां ल्यपि च'' इति एज्विषये ल्यपि आत्वम् (दीयताम्, दीयेतां , दीयस्व, दीयै अदीयत, अदीयेताम्, अदयिथाः, अदीये दीयेत, दीयेथाः, दीयेय ) आशिषि (दासीष्ट) इत्यादि एज्विषयत्वादात्वम् ( अदास्त, अदासाताम्, अदास्थाः, अदासि ) अत्रात्वे कृते दारूपत्वेऽपि [ दीडः प्रतिषेधः स्थाध्वोरित्वे ] इति इत्वकित्त्वयोर्घुसंज्ञा निषिध्यते अत एव विषयविषेशे घुत्वनिषेधादन्यत्र कृतात्वस्य घुसंज्ञायां प्रणिदातेत्यादि भवतीत्येके अन्ये तु यावतामुपदेशस्थानामनुकरणं दाधारूपं भवति, तेषामेव घुत्वम् दोदेङ्धेटामप्यनुकरणवशेन दारूपमेव, दीङस्तु नेति नैवैतस्य क्वापि घुसंज्ञाप्रसङ्ग इति उक्तमिदं पक्षद्वयं कैयटपदमञ्जरीवाक्यमञ्जर्यादिष्वपि ( उपदिदीषते ) "इको झल्'' इति सनः कित्त्वादेज्विषयत्वाभावान्नत्वम् कातन्त्रे (दिदासते) इत्यात्वमुक्तम् अत्र शाकटायनः, आत्वप्रकरणे "अम्यपगुरो वा दीङस्सनि'' इत्यात्वविकल्पमाह अमिति णमुलुच्यते स्वामी तु ( उपदिदीषते दपदिदासते ) इत्यपीष्यते इति काश्यपस्तु आत्वपक्षे दिदासते इत्येकइत्युक्त्वा संग्रह इत्वव्यतिरिक्तस्य घुकार्यस्योक्तत्वाद् इस्भावे उपदित्सतइत्याह इदमात्वं सूत्रवार्तिकभाष्येषु दृश्यते ( देदीयते, देदेति, दिदीतः, देद्यति दापयति ) एज्विषयत्वाभावादात्वे पुक् ) दीत्वा, दीनः, दीनवान् ) "स्वादय ओदित'' इति निष्ठानत्वम् ( उपदाय ) "मीनातिमिनोतिदीङां ल्यपि च'' इत्यात्वम् 26
कृदन्तरूपमाला
Sanskrit
1 {@“दीङ् क्षये”@} 2 स्वादिः।
3 दायकः-यिका, 4 दापकः-पिका, 5 दिदीषकः-दिदासकः-दित्सकः-त्सिका, 6 7 देदीयकः-यिका
दाता-त्री, दापयिता-त्री, दिदीषिता-त्री, देदीयिता-त्री
-- दापयन्-न्ती, दिदीषन्-न्ती
-- -- दापयिष्यन्-न्ती-ती, दिदीषिष्यन्-न्ती-ती
-- दीयमानः, दापयमानः, दिदीषमाणः, देदीय्यमानः
दास्यमानः, दापयिष्यमाणः, दिदीषिष्यमाणः, देदीयिष्यमाणः
प्रदाः-प्रदौ-प्रदाः
-- -- -- 8 दीनः-दीनम्-दीनवान्, दापितः, दिदीषितः, देदीयितः-तवान्
9 उपदायः, 10 प्रदः, दापः, दिदीषुः, देद्यः
दातव्यम्, दापयितव्यम्, दिदीषितव्यम्, देदीयितव्यम्
11 प्रणिदानीयम्-प्रनिदानीयम्, दापनीयम्, दिदीषणीयम्, देदीयनीयम्
देयम्, दाप्यम्, दिदीष्यम्, देदीय्यम्
12 ईषद्दानम्-दुर्दानम्-सुदानम्
-- -- दीयमानः, दाप्यमानः, दिदीष्यमाणः, देदीय्यमानः
दायः, दापः, दिदीषः, देदीयः
दातुम्, दापयितुम्, दिदीषितुम्, देदीयितुम्
दातिः, दापना, दिदीषा, देदीया
दानम्, दापनम्, दिदीषणम्, देदीयनम्
दात्वा, दापयित्वा, दिदीषित्वा, देदीयित्वा
13 14 प्रदाय, प्रदाप्य, प्रदिदीष्य, प्रदेदीय्य
दायम् २, दात्वा २, दापम् २, दापयित्वा २, दिदीषम् २, दिदीषित्वा २, देदीयम्
देदीयित्वा २।
प्रासङ्गिक्यः
01
=>
(८४४)
02
=>
(४-दिवादिः-११३४। अक। अनि। आत्म।)
03
=>
[[२। ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यात्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञादिष्वपि ज्ञेयम्। आत्वं तु शतरं वर्जयित्वा सर्वत्र ज्ञेयम्।]]
04
=>
[[३। प्रत्ययोत्पत्तेः प्रागनैमित्तिक आत्वे, आदन्तलक्षणे पुगागमे रूपम्। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[४। सन्नन्ते, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, दीर्घे, षत्वे रूपम्। ‘मीनाति मिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यत्र ल्यब्ग्रहणात्, ‘दीङः। प्रतिषेधः स्थाघ्वोरित्त्वे’ (वा। १-१-२०) इति वार्तिकारम्भसामर्थ्याच्च, अस्यापि धातोर्घुसंज्ञाऽस्तीति कैयटपदमञ्जर्यादिषु व्यक्तम्। तन्मते, काश्यपादि मतेऽपि आत्वे, दिदासकः इति रूपम्। आत्वाभावपक्षे ‘सनि मीमाघु--’ (७-४-५४) इत्यादिना इसाऽऽदेशे, द्वित्वे, ‘अत्र लोपः--’ (७-४-५८) इत्यभ्यासलोपे, ‘सः स्यार्धधातुके’ (७-४-४९) इति सकारस्य तकारे दित्सकः इत्यादीनि रूपाणि तृजादिष्वपि यथायथमूह्यानि। परं तु ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति सङ्केतात्, सन्निपातपरिभाषामाश्रित्य दीङः घुसंज्ञानिषेधादेतदप्रामाणिकमिति ज्ञायते। शाकटायनादयः घुसंज्ञामेवाशिश्रियुरात्वविकल्पं च।]]
06
=>
[पृष्ठम्०७५०+ २५]
07
=>
[[१। ‘यङन्तान्ण्वुलि, घुसंज्ञाप्रतिषेधात् ईत्वाभावे, द्वित्वे, अभ्यासस्य गुणे रूपम्। एवं यङन्ते सर्वत्र ज्ञेयम्।’]]
08
=>
[[२। ‘स्वादय ओदितः’ (ग। सू। दिवादौ) इति ओदित्त्वातिदेशात् ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वे रूपम्।]]
09
=>
[[३। ‘मीनातिमिनोतिदीङाम्--’ (६-१-५०) इत्यनेनान्तरङ्गत्वेनात्वे, ‘श्याऽऽद्--’ (३-१-१४१) इत्यनेन कर्तरि णप्रत्यये, युगागमः।]]
10
=>
[[४। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्यये रूपम्। प्रदर्शनार्थं कर्तरि प्रत्ययेषु द्वावत्रोपात्तौ। ‘डु दाञ्--’ धातौ (८३०) यानि रूपाणि कत्रर्थे प्रदर्शितानि, तानि सर्वाण्यपि, अत्रापि प्रायशो ज्ञेयानि।]]
11
=>
[[५। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
12
=>
[[६। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच् प्रत्ययः।]]
13
=>
[पृष्ठम्०७५१+ २५]
14
=>
[[१। ल्यपि ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यनेनात्वे रूपमेवम्।]]