दीक्षा (dIkSA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishदीक्षा (-क्षा)
1. Sacrificing, offering oblations.
2. Worshipping in
general.
3. Engaging in a course of austerities.
4. Certain cere-
monies preliminary to a cacrifice.
5. Receiving the initiatory Man-
tra or incantation.
दा to give, (knowledge, ) and क्षि to destroy,
(sin
) . or दीक्ष् to initiate, &c. affixes अ and टाप् ।
Capeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishदीक्षा - dIkSA - - preparation or consecration for a religious ceremony
दीक्षा - dIkSA - - complete resignation or restriction to
दीक्षा - dIkSA - - self-devotion to a person or god
दीक्षा - dIkSA - - dedication
दीक्षा - dIkSA - - undertaking religious observances for a particular purpose and the observances themselves
दीक्षा - dIkSA - - exclusive occupation with
दीक्षा - dIkSA - - initiator
दीक्षा - dIkSA - - initiation
दीक्षा - dIkSA - - any serious preparation
दीक्षा dIkSA self-devotion to a person or god
दीक्षा dIkSA initiator
अन्वारम्भणीया anvArambhaNIyA initiatory ceremony
तप्तव्रत taptavrata hot milk for the initiatory rite
उपदेश upadeza communication of the initiatory mantra or formula
Wilson
Englishदीक्षा
(-क्षा)
1 Sacrificing, offering oblations.
2 Worshipping in general.
3 Engaging in a course of austerities.
4 Certain ceremonies preliminary to a sacrifice.
5 Receiving the initiatory Mantra or incantation.
दा to give, (knowledge, ) and क्षि to destroy, (sin
) . or
दीक्ष to initiate, &c. affix अङ् and टाप्.
Apte
Englishदीक्षा [dīkṣā], [दीक्ष्-भावे-अ]
(a) Consecration for a religious ceremony, initiation in general
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे 3.44, 65. (b) Receiving the initiatory mantra.
A ceremony preliminary to a sacrifice
3.13.37.
A ceremony or religious rite in general
विवाहदीक्षाम्, 3.33
7.1, 8, 24.
Investiture with the sacred thread.
Dedicating oneself to a particular object, self-devotion
विश्व- त्राणैकदीक्षाः
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् 33. -अन्तः a supplementary sacrifice made to atone for the defects in a preceding one. -आश्रमः (अवभृथ) (वैखानसः) the third stage of life (वानप्रस्थाश्रम)
* 12.66.8.-पतिः the Soma. -यूपः A sacrificial post.
Apte 1890
Englishदीक्षा [दीक्ष्-भावे अ] 1 (a) Consecration for a religious ceremony, initiation in general
R. 3. 44, 65. (b) Receiving the initiatory mantra.
2 A ceremony preliminary to a sacrifice.
3 A ceremony or religious rite in general
विवाहदीक्षां R. 3. 33
Ku. 7. 1, 8, 24.
4 Investiture with the sacred thread.
5 Dedicating oneself to a particular object, selfdevotion.
Comp.
अंतः a supplementary sacrifice made to atone for the defects in a preceding one.
पतिः the Soma.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishदीक्षा, f. preparation or consecration for a reli-
gious ceremony
a ceremony preliminary to a sacrifice,
initiation, dedication
receiving the initiatory Mantra
undertaking religious observances for the attainment
of a certain object, religious rites for a special purpose
sacrificing, offering oblations, dedicating one's self to
a particular object (as to battle) or to a person (as to
a god), self-devotion
Initiation personified as the
wife of Soma or of Rudra Ugra (one of the eight
manifestations of Rudra) or of Rudra Vāma-deva.
—दीक्षा-क्रम-रत्न, अम्, n. ‘the jewel of the
regular order of initiation, ’ N. of a work treating of
initiation.
—दीक्षा-तत्त्व, अम्, n. ‘the essence of
initiation, ’ N. of another work on consecration or
initiation.
—दीक्षान्त (°षा-अन्°), अस्, m. ‘the end
of a Dīkṣā, ’ = अव-भृथ, a supplementary sacri-
fice made to atone for any defects in a preceding
one.
—दीक्षा-पति, इस्, m., Ved. ‘the lord of
consecration, ’ i. e. the Soma.
—दीक्षा-पाल, अस्,
m., Ved. ‘guardian of initiation, ’ epithet of Agni
and Viṣṇu.
—दीक्षा-फल, अम्, n. ‘the fruit of
initiation, ’ N. of a chapter of the Purāṇa-sarva-sva.
—दीक्षा-मय, अस्, ई, अम्, consisting in initiation.
Macdonell
EnglishBenfey
EnglishApte Hindi
Hindiदीक्षा
- दीक्ष् + अ + टाप्
"किसी धर्म-संस्कार के लिए समर्पण, पवित्रीकरण"
दीक्षा
- दीक्ष् + अ + टाप्
यज्ञ से पूर्व किया जाने वाला प्रारम्भिक संस्कार
दीक्षा
- दीक्ष् + अ + टाप्
धर्म-संस्कार-विवाह दीक्षा
दीक्षा
- दीक्ष् + अ + टाप्
"यज्ञोपवीत संस्कार करना, किसी विशेष उद्देश्य के लिए अपने आपको समर्पण करना"
Shabdartha Kaustubha
Kannadaदीक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನಿಯಮವನ್ನು ಹಿಡಿಯುವುದು /ವ್ರತಧಾರಣೆ ಮಾಡುವುದು
दीक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಒಂದು ಪವಿತ್ರ ಕಾರ್ಯಕ್ಕಾಗಿ ಪ್ರಾರಂಭದಲ್ಲಿ ನಡೆಸುವ ಸಂಸ್ಕಾರ
निष्पत्तिः - > दीक्ष (मौण्ड्येज्यादिषु) - "अः" (३-३-१०२)
प्रयोगाः - > "अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम्"
उल्लेखाः - > रघु० ३-६५
दीक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಉಪನಯನ ಸಂಸ್ಕಾರ
दीक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮಂತ್ರ ಸ್ವೀಕಾರ /ಉಪದೇಶ
दीक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಯಾಗಕ್ಕೆ ಮೊದಲು ಆಚರಿಸಲ್ಪಡುವ ಒಂದು ಕಾರ್ಯ /ಯಜ್ಞದೀಕ್ಷೆ /ದೇವತಾಪ್ರತಿಷ್ಠಾನಾದಿ ಕಾರ್ಯ
दीक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪ್ರತಿಜ್ಞೆ /ದೃಢ ಸಂಕಲ್ಪ
दीक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಶುಭಕಾರ್ಯ /ವಿವಾಹ ಸಂಸ್ಕಾರ
प्रयोगाः - > "समेतबन्धुर्हिमवान् सुताया विवाहदीक्षाविधिमन्वतिष्ठत्"
उल्लेखाः - > कुमा० ७-१
L R Vaidya
EnglishBopp
LatinAufrecht Catalogus Catalogorum
EnglishIndian Epigraphical Glossary
EnglishWordnet
Sanskrit दीक्षा, गुरूमन्त्रः
गुरूमुखात् स्वेष्टदेवमन्त्रग्रहणम्
"यतेर्दीक्षा पितुर्दीक्षा दीक्षा च वनवासिनः।विविक्ताश्रमिणां दीक्षा न सा कल्याणदायिना"
दीक्षा
विधीविशेषः., उपनयनसंस्कारे गायत्रीमन्त्रस्य उपदेशः
"उपनयनविधौ दीक्षां गृहीत्वा बटुः ब्रह्मचर्याश्रमस्य पालनं करोति"
दीक्षा
गुरुणा नियमपूर्वकं मन्त्रोपदेशस्य क्रिया।
"मञ्चस्थः महात्मा शिष्यान् दीक्षया अनुगृह्णाति।"
यज्ञः, यागः, मेधः, क्रतुः, अध्वरः, मखः, इज्या, सवः, इष्टिः, यज्ञकर्म, यजनम्, याजनम्, आहवः, सवनम्, हवः, अभिषवः, होमः, हवनम्, याज्ञिक्यम्, इष्टम्, वितानम्, मन्युः, महः, सप्ततन्तुः, दीक्षा
वैदिकः विधिविशेषः यस्मिन् देवताम् उद्दिश्य वैदिकैः मन्त्रैः सह हविः प्रदीयते।
वैदिककाले यज्ञाः महत्त्वपूर्णाः आसन्। /"अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो य इज्यते। यष्टव्यम् एवेति मनः समाधाय स सात्विकः॥ [भ.गी. १७।११]"
अभिधानचिन्तामणिः
Sanskritसौमिकी दीक्षणीयेष्टिर्दीक्षा तु व्रतसंग्रहः ॥ ८२३ ॥
सौमिकी (स्त्री), दीक्षणीयेष्टि (स्त्री), दीक्षा (क्ली), व्रतसङ्ग्रह (पुं)
Tamil
Tamilதீ3க்ஷா : சுத்தி செய்துகொள்ளல், மதச் சடங்குக்காக அர்ப்பணித்தல்.
पुराणम्
Englishदीक्षा / DĪKṢĀ. dīkṣā is the vrata that expels sin and increases Jñāna (wisdom). Those who are to be blessed fall into three categories. The person who belongs to the first category is called Vijñānakala
the second is Pralayakala
and the third is Sakala. Vijñānakala is free from sin alone. Pralayakala is free from sins and Karmans. Sakala has everything from kalā to the earth. The Dīkṣās to be practised by the three classes of persons are of different kinds. dīkṣā is classified into two: “Nirādhāra and Sādhāra.
Nirādhāra dīkṣā is performed for the sake of Vijñānakala and Pralayakala. Sādhāra dīkṣā is prescribed for the third class of people, the Sakalas.
शब्दकल्पद्रुमः
Sanskritदीक्षा, (दीक्ष + भावे अ । स्त्रियां टाप् ।)यजनम् । पूजनम् । इत्यजयपालः ॥
व्रतसंग्रहः ।इति हेमचन्द्रः । ३ । ४८७ ॥
गुरुमुखात् स्वेष्टदेव-मन्त्रग्रहणम् । (एतन्निरुक्तिर्यथा, गौतमीय-तन्त्रे । ७ । २ ।“ददाति दिव्यतां तावत् क्षिणुयात् पापसन्ततिः ।तेन दीक्षेति विख्याता मुनिभिस्तन्त्रपारगैः ॥
”)यथाच, --“दीयते ज्ञानमत्यन्तं क्षीयते पापसञ्चयः ।तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥
दिव्यं ज्ञानं यतो दद्यात् कुर्य्यात् पापस्य संक्षयम् ।तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ॥
उच्यते प्रथमं तत्र लक्षणं गुरुशिष्ययोः ॥
”इत्यत्र गुरुशिष्ययोर्लक्षणं तत्तच्छब्दे द्रष्टव्यम् ॥
योगिनीतन्त्रे ।“पितुर्म्मन्त्रं न गृह्णीयात् तथा मातामहस्य च ।सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ॥
”रुद्रयामले ।“न पत्नीं दीक्षयेद्भर्त्ता न पिता दीक्षयेत् सुताम् ।न पुत्त्रञ्च तथा भ्राता भ्रातरं न च दीक्षयेत् ॥
सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् ।शक्तित्वेन वरारोहे ! न च सा कन्यका भवेत् ॥
”तथा गणेशविमर्षिण्याम् ।“यतेर्दीक्षा पितुर्दीक्षा दीक्षा च वनवासिनः ।विविक्त्राश्रमिणां दीक्षा न सा कल्याणदायिका ॥
”इत्यादिनिषेधवचनादेभ्यो मन्त्रं न गृह्णीयादि-त्यर्थः । इति तु सिद्धेतरविषयम् । सिद्धमन्त्रो नदुष्यतीति वचनात् ॥
* ॥
शक्तियामले ।“तीर्थाचारव्रतो मन्त्री ज्ञानवान् सुसमाहितः ।नित्यनिष्ठो यतिः ख्यातो गुरुः स्याद्भौतिको-ऽपि च ॥
”सिद्धयामले ।“यदि भाग्यवशेनैव सिद्धविद्यां लभेत् प्रिये ! ।तदेव तान्तु दीक्षेत त्यक्त्वा गुरुविचारणम् ॥
”गणेशविमर्षिण्याम् ।“प्रमादाच्च तथाज्ञानात् पितुर्द्दीक्षां समाचरन् ।प्रायःश्चित्तं ततः कृत्वा पुनर्द्दीक्षां समाचरेत् ॥
”पितुरित्युपलक्षणम् । मातामहादीनामपि ।प्रायश्चित्तन्तु अयुतसावित्रीजपः । सर्व्वत्र तथादर्शनात् । तथा च शङ्खः ।“दशसाहस्रजप्तेन सर्व्वकल्मषनाशिनी ।”श्रीक्रमेऽपि ।“मनुर्विमृष्य दातव्यो ज्येष्ठपुत्त्राय धीमते ॥
”मत्स्यसूक्ते ।निर्वीर्य्यञ्च पितुर्म्मन्त्रं शैवे शाक्ते न दुष्यति ॥
”इति कौलिकमन्त्रदीक्षापरम् । योगिनीतन्त्रेशक्त्यादिविद्यामधिकृत्य दीक्षानिषेधात् । यद्बाशाक्ते तारादिविद्यायां मत्स्यसूक्ते तथा प्रति-पादनात् । तथा च ।“कृतसुकृतसहस्रानेकजन्मप्रभावै-र्भवति यदि मनुष्यो गुर्व्वधीनश्चिराय ।कथमपि मनुमेनं प्राप्य शिष्यः परस्मैनिजकुलतिलकाय ज्येष्ठपुत्त्राय दद्यात् ॥
” इति ॥
महातीर्थे उपरागे सति सर्व्वत्र न दोषः । तथाच विष्णुमन्त्रमधिकृत्य ।“साधु पृष्टं त्वया ब्रह्मन् ! वक्ष्यामि सकलं तव ।ब्रह्मणा कथितं पूर्व्वं वशिष्ठाय महात्मने ॥
वशिष्ठोऽपि स्वपौत्त्राय मत्पित्रे दत्तवान् स्वयम् ।प्रसन्नहृदयः स्वच्छः पिता मे करुणानिधिः ॥
कुरुक्षेत्रे महातीर्थे सूर्य्यपर्व्वणि दत्तवान् ॥
”इत्यादि वैशम्पायनसंहितायां शौनकं प्रतिव्यासवाक्यम् ॥
* ॥
योगिनीतन्त्रे ।“निर्वीर्य्यञ्च पितुर्म्मन्त्रं तथा मातामहस्य च ।स्वप्नलब्धं स्त्रिया दत्तं संस्कारेणैव शुध्यति ॥
”यत्तु ।“साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया ।सर्व्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजने रता ॥
गुरुयोग्या भवेत् सा हि विधवापरिवर्ज्जिता ।स्त्रिया दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणास्मृता ॥
”इदन्तु गुरोरुपासितमन्त्रपरम् । तथा च भैरवी-तन्त्रे ।“स्वीयमन्त्रोपदेशे तु न कुर्य्याद्गुरुचिन्तनम् ।”मातुरित्युपासितेऽष्टगुणं अनुपासिते शुभफलद-मित्यर्थः । सिद्धमन्त्रविषयं वा । वस्तुतस्तु योगिनी-तन्त्रे स्त्रीपदं विधवापरम् । एकवाक्यताबलात् ॥
दीक्षायां विधवादीनामधिकारं विशेषयतिकुलार्णवे ।“विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया ।नाधिकारः स्वतो नार्य्या भार्य्याया भर्त्तुराज्ञया ॥
”योगिनीतन्त्रे ।“स्वप्नलब्धे तु कलसे गुरोः प्राणं निवेशयेत् ।वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं शुभम् ॥
ततः शुद्बिमवाप्नोति चान्यथा विफलं भवेत् ॥
”इदन्तु सद्गुरोरभावे तत्सत्ते तस्मादेव गृह्णीयात्स्वप्ने तु नियमो न हीति नारदवचनात् ॥
* ॥
तथा विद्याधराचार्य्यधृतजावालवचनम् ।“मध्यदेशकुरुक्षेत्रनाटकोङ्कणसम्भवाः ।अन्तर्व्वेदिप्रतिष्ठाना आवान्त्याश्च गुरूत्तमाः ॥
गौडाः शाल्वोद्भवाः सौरा मागधाः केरला-स्तथा ।कोषलाश्च दशार्णाश्च गुरवः सप्त मध्यमाः ॥
कर्णाटनर्म्मदारेवाकच्छातीरोद्भवास्तथा ।कालिङ्गाश्च कलम्बाश्च काम्बोजाश्चाधमामताः ॥
” * ॥
तथा ।“वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च शाक्तिके ।शैवः शाक्तोऽपि सर्व्वत्र दीक्षास्वामी न संशयः ॥
”दीक्षां विना जपस्य दुष्टत्वात् प्रथमं सानिरूप्यते ।“दिव्यं ज्ञानं यतो दद्यात् कुर्य्यात् पापस्य सङ्-क्षयम् ।तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ॥
”मन्त्रलक्षणमाह । पिङ्गलामते ।“मननं विश्वविज्ञानं त्राणं संसारबन्धनात् ।यतः करोति संसिद्ध्यै मन्त्र इत्यच्यते ततः ॥
”अन्यच्च ।“मननात्त्रायते यस्मात्तस्मान्मन्त्रः प्रकीर्त्तितः ॥
”सर्व्वाश्रमेषु दीक्षाया आवश्यकत्वम् । तथा च ।“दीक्षामूलं जपं सर्व्वं दीक्षामूलं परं तपः ।दीक्षामाश्रित्य निवसेत् यत्र कुत्राश्रमे वसन् ॥
अदीक्षिता ये कुर्व्वन्ति जपपूजादिकाः क्रियाः ।न भवन्ति प्रिये ! तेषां शिलायामुप्तबीजवत् ॥
देवि ! दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः ।तस्मात् सर्व्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ॥
अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत् ।तस्माद्दीक्षां प्रयत्नेन सदा कुर्य्याच्च तान्त्रिकात् ॥
ग्रन्थे दृष्ट्वा तु मन्त्रं वै यो गृह्णाति नराधमः ।मन्वन्तरसहसेषु निष्कृतिर्नैव जायते ॥
नादीक्षितस्य कार्य्यं स्यात्तपोभिर्नियमव्रतैः ।न तीर्थगमनेनापि न च शारीरयन्त्रणैः ॥
”मत्स्यसूक्ते ।“अदीक्षितानां मर्त्यानां दोषं शृणु वरानने ! ।अन्नं विष्ठासमं तस्य जलं मूत्रसमं स्मृतम् ॥
तत्कृतं तस्य वा श्राद्धं सर्व्वं याति ह्यधोगतिम् ॥
”शूद्रस्य मन्त्रविशेषनिषेधमाह ।“प्रणवाद्यं न दातव्यं मन्त्रं शूद्राय सर्व्वथा ।आत्ममन्त्रं गुरोर्म्मन्त्रं मन्त्रं चाजपसंज्ञकम् ॥
स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्द्विजः ।शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधोगतिम् ॥
”श्रुतिरपि । “सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रोयदि जानीयात् स मृतोऽधो गच्छति ।” इति ॥
* ॥
विशेषमाह वाराहीये ।“गोपालस्य मनुर्देयो महेशस्यापि पादजे ।तत्पत्न्याश्चापि सूर्य्यस्य गणेशस्य मनुस्तथा ॥
एषां दीक्षाधिकारी स्यादन्यथा पापभाग्भवेत् ॥
”इति ॥
* ॥
गोविन्दवृन्दावने ।“अदीक्षितस्य मरणे प्रेतत्वं न च मुञ्चति ॥
”नवरत्नेश्वरे ।“सर्व्वासामपि दीक्षाणां मुक्तिः फलमखण्डितम् ।अविरोधात् भवन्त्येव प्रासङ्गिक्यस्तु भक्तयः ॥
”तथा ।“उपपातकलक्षाणि महापातककोटयः ।क्षणात् दहति देवेशि दीक्षा हि विधिना कृता ॥
”यामले ।“आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः ।न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः ॥
”अतः सद्गुरोराहितदीक्षः सर्व्वकर्म्माणिसाधयेत् । * । तत्राप्यनुकूलमन्त्रं दीक्षेत । तथा चसारदायाम् ।“स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून् ॥
”तथा वाराहीये ।“ताराचक्रं राशिचक्रं नामचक्रं तथैव च ।अत्र चेत् सगुणो मन्त्रो नान्यच्चक्रं विचारयेत् ॥
”इति तु प्रघानतया बोद्धव्यम् । तथा च ।“धनिमन्त्रं न गृह्णीयात् अकुलञ्च तथैव च ।”इत्यादिदर्शनात् तत्तच्चक्रविचारस्य आवश्यक-त्वात् प्रथमं तन्निरूप्यते ॥
* ॥
तत्र सिद्धसार-स्वते ।“नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।संपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् ॥
स्वप्नलब्धे स्त्रिया दत्ते मालामन्त्रे च त्र्यक्षरे ।वैदिकेषु च मन्त्रेषु सिद्धादीन्नैव शोधयेत् ॥
” * ॥
मालामन्त्रस्तु वाराहीये ।“विंशत्यर्णाधिका मन्त्रा मालामन्त्राः प्रकीर्त्तिताः ।नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥
हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च ।एकद्वित्र्यादिबीजस्य सिद्धादीन्नैव शोधयेत् ॥
तथा एकाक्षरस्य मन्त्रस्य मालामन्त्रस्य पार्व्वति ! ।वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥
” * ॥
तथा मुण्डमालातन्त्रे ।“काली तारा महाविद्या षोडशी भुवनेश्वरी ।भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥
वगला सिद्धविद्या च मातङ्गी कमलात्मिका ।एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥
”मालिनीविजये ।“अथ वक्ष्याम्यहं या या महाविद्या महीतले ।दोषजालैरसंस्पृष्टास्ताः सर्व्वा हि फलैः सह ॥
काली नीला महादुर्गा त्वरिता छिन्नमस्तका ।वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः ॥
कामाख्यावासिनी बाला मातङ्गी शैलवासिनी ।इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः ॥
सिद्धमन्त्रतया नात्र युगसेवापरिश्रमः ।तथा चैता महाविद्याः कलिदोषान्न वाधिताः ॥
”चामुण्डातन्त्रे ।“कलौ काली तथा तारा भैरवी छिन्नमस्तका ।त्रिकूटा त्रिपुटा दुर्गा तथा महिषमर्द्दिनी ॥
कात्यायनी च चामुण्डा महाविद्याः प्रकी-र्त्तिताः ।नात्र सिद्धाद्यपेक्षास्ति न नक्षत्रविचारणा ॥
कालादिशोधनं नास्ति न चामित्रादिदूषणम् ।सिद्धविद्यातया नात्र युगसेवापरिश्रमः ॥
नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कथञ्चन ॥
”इत्यादिवचनादेषु विचारो नास्ति । वस्तुतस्तुइदं प्रशंसापरम् । सर्व्वत्र विचारस्यावश्यक-त्वम् । दुरदृष्टवशात् कदाचिद्वैरिमन्त्रस्य स्वप्नादौप्राप्त्या तत्तद्दोषस्य दृष्टत्वात् ।” इति तु साम्प्र-दायिकाः ॥
* ॥
अत्र कुलाकुलचक्रम् । राशि-चक्रम् । नक्षत्रचक्रम् । अकथहचक्रम् । अक-डमचक्रम् । ऋणिधनिचक्रम् । एतानि चक्रशब्देतत्तच्छब्दे च द्रष्टव्यानि ॥
* ॥
अथ दीक्षाकालनियमः ।“मन्त्रारम्भस्तु चैत्रे स्यात् समस्तपुरुषार्थदः ।वैशाखे रत्नलाभः स्यात् ज्यैष्ठे तु मरणं भवेत् ।आषाढे बन्धुनाशः स्यात् पूर्णार्थः श्रावणे भवेत् ।प्रजानाशो भवेद्भाद्रे आश्विने रत्नसञ्चयः ॥
कार्त्तिके मन्त्रसिद्धिः स्यात् मार्गशीर्षे तु तद्भवेत् ।पौषे तु शत्रुपीडा स्यात् माघे मेधाविवर्द्धनम् ॥
फाल्गुने सर्व्वकामाः स्युर्म्मलमासं विवर्ज्जयेत् ॥
”चैत्र इति गोपालविषयम् । गौतम्युक्तत्वात् ।मधुमासे भवेद्दीक्षा दुःखाय मरणाय चेति-वचनान्नान्यत्र । तथा, --“ज्यैष्ठे मृत्युप्रदा विद्या आषाढे सुखसम्पदः ।”इति योगिनीहृदयादाषाढे श्रीविद्यायां न दोषः ।अत्र च मासः सौर एव । सौरे मासि शुभादीक्षा न चान्द्रे न च तारके । इति गौत-मीयात् ५ अध्यायात् ॥
वैशम्पायनसंहितायाम् ।“मन्त्रस्यारम्भणं मेषे धनधान्यप्रदं भवेत् ।वृषे मरणमाप्नोति मिथुनेऽपत्यनाशनम् ॥
कर्क्कटे सर्व्वसिद्धिः स्यात् सिंहे मेधाविनाशनम् ।कन्यालक्ष्मीप्रदा नित्यं तुलायां सर्व्वसिद्धयः ॥
वृश्चिके स्वर्णलाभः स्यात् धनुर्मानविनाशनम् ।मकरः पुण्यदः प्रोक्तः कुम्भो धनसमृद्धिदः ॥
मीनो दुःखप्रदो नित्यं एवं मासविधिक्रमः ॥
”प्रतिप्रसवमाह । रुद्रयामले ।“कार्त्तिकाश्विनवैशाखमाघेऽथ मार्गशीर्षके ।फाल्गुने श्रावणे दीक्षा पुरश्चर्य्या प्रशस्यते ॥
”अथ वारनियमः ।“रविवारे भवेद्वित्तं सोमे शान्तिर्भवेत् किल ।आयुरङ्गारके हन्ति तत्र दीक्षां विवर्ज्जयेत् ॥
बुधे सौन्दर्य्यमाप्नोति ज्ञानं स्यात्तु बृहस्पतौ ।शुक्रे सौभाग्यमाप्नोति यशोहानिः शनैश्चरे ॥
”अथ तिथिनिर्णयः ।आगमकल्पद्रुमे ।“प्रतिपदि कृता दीक्षा ज्ञाननाशकरी मता ।द्बितीयायां भवेज्ज्ञानं तृतीयायां शुचिर्भवेत् ॥
चतुर्थ्यां वित्तनाशः स्यात् पञ्चम्यां बुद्धिवर्द्धनम् ॥
षष्ठ्यां ज्ञानक्षयं सौख्यं लभते सप्तमीदिने ॥
अष्टम्यां बुद्धिनाशः स्यात् नवम्यां वपुषः क्षयः ।दशम्यां राजसौभाग्यमेकादश्यां शुचिर्भवेत् ॥
द्वादश्यां सर्व्वसिद्धिः स्यात् त्रयोदश्यां दरिद्रता ।तिर्य्यग्योनिश्चतुर्द्दश्यां हानिर्मासावसानके ॥
पक्षान्ते धर्म्मवृद्धिः स्यात् अस्वाध्यायं विव-र्ज्जयेत् ।सन्ध्यागर्ज्जितनिर्घोषभूकम्पोल्कानिपातने ॥
एतान्यन्यांश्च दिवसान् श्रुत्युक्तान् परिवर्ज्जयेत् ।द्वितीया पञ्चमी चैव षष्टी चैव विशेषतः ॥
द्वादश्यामपि कर्त्तव्यं त्रयोदश्यामथापि वा ॥
”इति यत् त्रयोदशी विधानं तद्बिष्णुविषयंरामार्च्चनचन्द्रिकाधृतत्वात् ।“पञ्चमी सप्तमी षष्ठी द्बितीया पूर्णिमा सिता ।त्रयोदशी तु दशमी प्रशस्ता सर्व्वकामदा ॥
”इति सनत्कुमारवचनाच्च ॥
* ॥
शिवविषये सप्तम्योर्निषेधमाह ।“शुक्लपक्षस्य दशमी सप्तमी च विशेषतः ।निन्द्या सदैव षष्ठी स्यादिति शैवागमान्तरे ॥
”अथ नक्षत्रनिर्णयः ।“अश्विन्यां सुखमाप्नोति भरण्यां मरणं ध्रुवम् ।कृत्तिकायां भवेद्दुःखी रोहिण्यां वाक्पति-र्भवेत् ॥
मृगशीर्षे सुखावाप्तिरार्द्रायां बन्धुनाशनम् ।पुनर्व्वसौ धनाढ्यः स्यात् पुष्ये शत्रुविनाशनम् ॥
अश्लेषायां भवेन्मृत्युर्मघायां दुःखमोचनम् ।सौन्दर्य्यं पूर्व्वफल्गुन्यां प्राप्नोति च न संशयः ॥
ज्ञानञ्चोत्तरफल्गुन्यां हस्तायाञ्च धनी भवेत् ।चित्रायां ज्ञानसिद्धिः स्यात् स्वात्यां शत्रुविना-शनम् ॥
विशाखायां सुखञ्चानुराधायां बन्धुवर्द्धनम् ।ज्येष्ठायां सुतहानिः स्यात् मूलायां कीर्त्तिवद्धनम् ॥
पूर्व्वाषाढोत्तराषाढे भवेतां कीर्त्तिदायिके ।श्रवणायां भवेद्दुःखी धनिष्ठायां दरिद्रता ॥
बुद्धिः शतभिषायां स्यात् पूर्व्वभाद्रे सुखी भवेत् ।सौख्यं चोत्तरभाद्रे च रेवत्यां कीर्त्तिवर्द्धनम् ॥
”आर्द्राकृत्तिकयोर्निषेधस्तु शिववह्नीतरविषये ।तथा च ।“आर्द्रायां कृत्तिकायाञ्च मन्त्रारम्भः प्रशस्यते ।यदीशस्य कृशानोर्वा मन्त्रारम्भो यथाक्रमम् ॥
”तन्त्रान्तरे ।“अश्विनीभरणीस्वातीविशाखाहस्तभेषु च ।ज्येष्ठोत्तरात्रयेष्वेवं कुर्य्यान्मन्त्राभिषेचनम् ॥
”इति ज्येष्ठाभरण्योर्यद्बिधानं तद्रामविषयंअगस्त्यसंहितोक्तत्वात् ॥
* ॥
अथ योगादिनिर्णयो विश्वसारे ।“शुभः सिद्धस्तथायुष्मान् ध्रुवयोगस्ततः परम् ।प्रीतिः सौभाग्ययोगश्च वृद्धियोगस्ततः परम् ॥
हर्षणश्च तथा योगः सर्व्वमन्त्रशुभावहः ॥
”रत्नावल्याम् ।“योगश्च प्रीतिरायुष्मान् सौभाग्यः शोभनो धृतिः ।वृद्धिर्ध्रुवः सुकर्म्मा च साध्यः शुक्रश्च हर्षणः ॥
वरीयांश्च शिषः सिद्धो ब्रह्म इन्द्रश्च षोडश ॥
”अथ करणनिर्णयः ।“वववालवकौलवतैतिलगरबणिजस्तदनन्तरम् ।करणानि शुभान्येव सर्व्वतन्त्रेषु भाविनि ! ॥
”अथ लग्ननिर्णयः ।“वृषे सिंहे च कन्यायां धनुर्मीनाख्यलग्नके ।चन्द्रतारानुकूले च कुर्य्याद्दीक्षाप्रवर्त्तनम् ॥
”तथा, --“स्थिरलग्नं विष्णुमन्त्रे शिवमन्त्रे चरं शुभम् ।द्विःस्वभावगतं लग्नं शक्तिमन्त्रे प्रशस्यते ॥
”अगस्त्यसंहितायाम् ।“त्रिषष्ठायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ।दीक्षायान्तु शुभाः सर्व्वे बन्धुस्थाः सर्व्वनाशकाः ॥
”अथ पक्षनियमः ।“शुक्लपक्षे भवेद्दीक्षा कृष्णेऽप्यापञ्चमाद्दिनात् ।निषिद्धेष्वपि मासेषु विशेषो मुनिभेदतः ॥
”रत्नावल्याम् ।“षष्ठी भाद्रपदे इषे तथा कृष्णचतुर्द्दशी ।कार्त्तिके नवमी शुक्ला मार्गे शुक्ला तृतीयिका ॥
पौषे तु नवमी शुक्ला माघे शुक्ला चतुर्थिका ।फाल्गुने नवमी शुक्ला चैत्रे कामचतुर्द्दशी ॥
वैशाखे चाक्षया चैव ज्यैष्ठे दशहरा तिथिः ।आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी ॥
एतानि देवपर्व्वाणि तीथकोटिफलं लभेत् ।अत्र दीक्षा प्रकर्त्तव्या न मासञ्च परीक्षयेत् ॥
न वारं न च नक्षत्रं न तिथ्यादिकटूषणम् ।न योगकरणञ्चैव शङ्करेण च भाषितम् ॥
”अन्यच्च मतम् ।“चैत्रे त्रयोदशी शुक्ला वैशाखैकादशी सिता ।ज्यैष्ठे चतुर्द्दशी कृष्णा आषाढे नागपञ्चमी ॥
श्रावणैकादशी भाद्रे रोहिणीसहिताष्टमी ।आश्विने च महापुण्या महाष्टम्यप्यभीष्टदा ॥
कार्त्तिके नवमी शुक्ला मार्गशीर्षे सिते तथा ।षष्ठी चतुर्द्दशी पौषे माघेऽप्येकादशी सिता ॥
फाल्गुने च सिता षष्ठी चेति कालविनिर्णयः ॥
”योमिनीतन्त्रे ।“अयने विषुवे चैव ग्रहणे चन्द्रसूर्य्ययाः ।रविसंक्रान्तिदिवसे युगाद्यायां सुरेश्वरि ! ॥
मन्वन्तरासु सर्व्वासु महापूजादिने तथा ।चतुर्थी पञ्चमी चैव चतुर्दश्यष्टमी तथा ॥
तिथयः शुभदाः प्रोक्ता दीक्षाग्रहणकर्म्मणि ॥
”इत्यादिवचनात् चतुर्द्दश्यष्टमीति शक्तिविषयम् ।चतुर्थीति गणेशविषयम् । तत्तत्कल्पोक्तत्वात् ।“निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा ।सूर्य्यग्रहणकालस्य समानो नास्ति भूतले ॥
विशेषतो महादेवि ! दीक्षाग्रहणकर्म्मणि ।तत्र यद्यत् कृतं सर्व्वमनन्तफलदं भवेत् ॥
रविसंक्रमणे चैव सूर्य्यस्य ग्रहणे तथा ।तत्र लग्नादिकं किञ्चिन्न विचार्य्यं कथञ्चन ॥
रविसंक्रमणे चैव नान्यदन्वेषितं भवेत् ।न वारतिथिमासादिशोधनं सूर्य्यपर्व्वणि ॥
”एवं चन्द्रग्रहणेऽपि । तथा रुद्रयामले ।“न कुर्य्याच्छाक्तिकीं दीक्षामुपरक्ते विभावसौ ।न कुर्य्याद्वैष्णवीं तान्तु यदि चन्द्रमसो ग्रहः ॥
”एतच्च गोपालश्रीविद्येतरविषयम् ।“अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्य्ययोः ।”इति गोतमीयात् ।“सूर्य्यग्रहणकाले च नान्यदन्येपितं भवेत् ।”इति योगिनीहृदयाच्च ॥
* ॥
तारादौ तु विशेषो यथा, --“दीक्षाकालं प्रवक्ष्यामि नीलतन्त्रानुसारतः ।कृष्णपक्षस्य चाष्टम्यां शुभे लग्ने शुभे क्षणे ॥
पूर्व्वभाद्रपदा युक्ते मित्रतारादिसंयुते ।अथवा अनुराधायां रेवत्यां वा प्रशस्यते ॥
जानीयाच्छोभनङ्कालं मन्त्रस्य ग्रहणं प्रति ।इषे चैव विशेषेण कार्त्तिके च विशेषतः ॥
”यामले ।“श्रीपरा कालीबीजानि लोपो दौर्गश्च यो मनुः ।सूर्य्यस्योपग्रहे लब्धो नृणां मुक्तिफलप्रदः ॥
अमावास्या सोमवारे भौमवारे चतुर्द्दशी ।सप्तमी रविवारे च सूर्य्यपर्व्वशतैः समा ॥
”कुलार्णवे ।“सप्तमी रविवारे च सोमे दर्शस्तथैव च ।चतुर्थी कुजवारे च अष्टमी च बृहस्पतौ ॥
देवपर्व्वसमा ज्ञेयास्तासु दीक्षां समाचरेत् ॥
”यामले ।“पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये ।प्रयागे श्रीगिरौ काश्यां कालाकालं न शोधयेत् ॥
”विष्णुयामले ।“देवीबोधं समारभ्य यावत् स्यान्नवमी तिथिः ।कृता तासु बुधैर्द्दीक्षा सर्व्वाभीष्टफलप्रदा ॥
शुक्लपक्षे विशेषेण तत्रापि तिथिरष्टमी ।तत्रापि शारदी दुर्गा यत्र देवी गृहे गृहे ॥
तत्र दीक्षा प्रकर्त्तव्या मासर्क्षादीन्न शोधयेत् ॥
”तथा ।“बोधने चैव दुर्गायाः कालाकालं न शोधयेत् ॥
अशोकाख्याष्टमी यत्र रामाख्या नवमी तथा ।लग्ने वाप्यथवालग्ने यत्र स्यात्तिथिरष्टमी ॥
गुरोराज्ञानुरूपेण दीक्षा कार्य्या विशेषतः ॥
”समयाचारतन्त्रे ।“युगाद्यायां जन्मदिने विवाहदिवसे तथा ।विषुवायनयोर्द्वन्द्बे नैव किञ्चिद्बिचारयेत् ॥
”तथा, --“शिष्यानाहूय गुरुणा कृपया दीयते यदा ।तदा लग्नादिकं किञ्चिन्न विचार्य्यं कथञ्चन ॥
सर्व्वे वारा ग्रहाः सर्व्वे नक्षत्राणि च राशयः ।यस्मिन्नहनि सन्तुष्टो गुरुः सर्व्वे शुभावहाः ॥
”सारसंग्रहे योगिनीतन्त्रे च ।“ग्रहणे च महातीर्थे नास्ति कालस्य निर्णयः ।गयायां भास्करक्षेत्रे विरजे चन्द्रपर्व्वते ॥
चट्टले च मतङ्गे च तथा कन्याश्रमेषु च ।न गृह्णीयात्ततो दीक्षां तीर्थेष्वेतेषु पार्व्वति ! ॥
”वाराहीतन्त्रे ।“शुक्रोऽस्तो यदि वा वृद्धो गुर्व्वादित्या भवेद्यदि ।मेषवृश्चिकसिंहेषु तदा दोषो न विद्यते ॥
” * ॥
महाविद्यासु सर्व्वासु कालादिविचारो नास्ति ।तदुक्तं मुण्डमालातन्त्रे ।“कालादिशोधनं नास्ति न चामित्रादिदूषणम् ।”अत्र मालानिर्णयो मालाशब्दे द्रष्टव्यः । पुर-श्चरणं तच्छब्देद्रष्टव्यम् । कलावतीदीक्षा कला-वतीशब्दे द्रष्टव्या ।अथ पञ्चायतनीदीक्षा । यामले ।“भवानीन्तु यदा मध्ये ऐशान्यामच्युतं यजेत् ।आग्नेय्यां पार्व्वतीनाथं नैरृत्यां गणनायकम् ॥
वायव्यां तपनञ्चैव पूजाक्रम उदाहृतः ।यदा तु मध्ये गोविन्दं ऐशान्यां शङ्करं यजेत् ॥
आग्नेय्यां गणनाथञ्च नैरृत्यां तपनं तथा ।वायव्यामम्बिकाञ्चैव भोगमोक्षैकभूमिकाम् ॥
शङ्करञ्च यदा मध्ये ऐशान्यामच्युतं यजेत् ।आग्नेय्यां तपनञ्चैव नैरृत्यां गणनायकम् ॥
वायव्यां पार्व्वतीञ्चैव स्वर्गमोक्षप्रदायिनीम् ।आदित्यञ्च यदा मध्ये ऐशान्यां शङ्करं यजेत् ।आग्नेय्यां गणनाथञ्च नैरृत्यां केशवं यजेत् ॥
वायव्यामम्बिकां देवीं स्वर्गसाधनभूमिकाम् ॥
गणनाथं यदा मध्ये ऐशान्यां केशवं यजेत् ।आग्नेय्यामीश्वरञ्चैव नैरृत्यां तपनं तथा ॥
वायव्यामीश्वरीञ्चैव पूजयेन्मोक्षसाधनीम् ।स्वस्थानवर्ज्जिता देवा दुःखशोकभयप्रदाः ॥
”तथा च गणेशविमर्षिण्याम् ।“शम्मौ मध्यगते हरीनहरभूदेव्यो हरौ शङ्करेभास्ये नागसुता रवौ हरगणेशाजाम्बिकाःस्थापिताः ।देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वरेनार्य्याः शङ्करभागतोऽतिसुखदा व्यस्तास्तु तेहानिदाः ॥
”रामार्च्चनचन्द्रिकायां गौतमीये च ।“यदा तु मध्ये गोविन्दं आग्नेय्यां गणनायकम् ।नैरृत्यां हंसमभ्यर्च्य वायव्यामर्च्चयेच्छिवाम् ॥
ऐशान्यां शङ्करं चैव भोगमोक्षफलाप्तये ॥
” इति ।यदङ्गदेवतायाः पूजने आग्नेय्यादौ गणेशादि-पूजनमुक्तं तद्रामगोपालविषयमिति केचित् ।वस्तुतो वैकल्पिकमिति सम्प्रदायः ॥
एतेषांपूजनन्तु गौतमीये ।“गन्धादिभिरथाभ्यर्च्च्य षडङ्गार्च्चनमेव च ।विंशकृत्वो जपेन्मन्त्रं नमस्कृत्य समापयेत् ॥
” * ॥
अङ्गदेवतापूजाकालस्तु पीठपूजानन्तरम् ।तथा च सनत्कुमारतन्त्रे ।“पीठस्यार्च्चनमङ्गदेवयजनं प्राणप्रतिष्ठा तथाआह्वानं निजमुद्रिकाविरचनं ध्यानं प्रभोःपूजनम् ।”यत्तु देवे पुष्पाञ्जलिं दत्त्वा अङ्गदेवान् समर्च्चयेत् ।तत्तु प्रतिष्ठितयन्त्रादिविषयम् ॥
* ॥
यन्त्रातिरिक्ताधारे पूजने तु कुलाबल्याम् ।“एकपीठे पृथक्पूजां विना यन्त्रं करोति यः ।अङ्गाङ्गित्वं परित्यज्य देवताशापमाप्नुयात् ॥
”एवञ्च ।“आवाह्य देवतामन्यामर्च्चयंस्त्वन्यदेवताम् ।उभाभ्यां लभते शापं मन्त्री तरलदुर्म्मतिः ॥
”तदेतदतिरिक्तविषयम् ॥
* ॥
सर्व्वेषामङ्गमन्त्राणां सिद्धादिविचारो नास्ति ।तथा च, “सिद्धादिशोधनं नैषां अङ्गत्ये सति राजवत् ॥
”श्यामादौ तु पञ्चायतनाभावः ।तथा च रुद्रयामले ।“श्यामायां भैरवीताराच्छिन्नमस्तासु भैरवे ।मञ्जघोषे तथा रौद्रे पञ्चाङ्गं नेष्यते बुधैः ॥
उपविद्यासु सर्व्वासु षट्कर्म्मादिषु साधने ।नात्र दीक्षाद्यपेक्षास्ति नात्राङ्गादिप्रपूजनम् ॥
”तत्त्वसारे ।“उपविद्यासु सर्व्वासु तथा प्रयोगसाधने ।दीक्षां विनैव कर्त्तव्य उपदेशः सदैव हि ॥
” * ॥
अथ सङ्क्षेपदीक्षा ।“मुहूर्त्ते सर्व्वतोभद्रे नवं कुम्भं निधाय च ।सोदकं गन्धपुष्पाभ्यामर्च्चितं वस्त्रसंयुतम् ॥
सर्व्वौषधिनवरत्नपञ्चपल्लवसंयुतम् ।ततो देवार्च्चनं कृत्वा हुनेदष्टोत्तरं शतम् ॥
”पञ्चपल्लवमिति । पनसाम्राश्वत्थवटवकुलानि ।तथा च वाशिष्ठे ।“पनसाम्रं तथाश्वत्थं वटं वकुलमेव च ।पञ्चपल्लवमित्युक्तं सुनिभिस्तन्त्रवेदिभिः ॥
” * ॥
नवरत्नमिति ।“मुक्तामाणिक्यवैदूर्य्यं गोमेदान् वज्रविद्रुमौ ।पद्मरागं मरकतं नीलञ्चेति यथाक्रमात् ॥
” * ॥
निबन्धे ।“शिष्यं स्वलङ्कृतं वेद्यामुपाग्निमुपवेशयेत् ।मन्त्रितं प्रोक्षणीतोयैः शान्तिकुम्भजलैस्तथा ॥
मूलमन्त्रेणाष्टशतं मन्त्रितैरभिषेचयेत् ॥
”अष्टशतम् अष्टोत्तरशतम् ।“अथ सम्पादयेन्मन्त्रं हस्तं शिरसि घारयन् ।समोऽस्त्वित्यक्षतान् दद्यात् ततः शिष्योऽर्च्चयेद्-गुरुम् ॥
”यद्वा दीक्षान्तरम् । शङ्खमभ्यर्च्च्य साक्षतं तदम्बु-नादष्टवारं मूलेन शिरसि करं निधाय अष्टौवारान् कर्णे जपेत् । तथा च ।“तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्च्य साक्षतम् ।तदम्बुनाभिषिच्याष्टवारं मूलेन केवलम् ॥
निधायाष्टौ जपेत् कर्णे उपदेशे त्वयं विधिः ॥
”इति सङ्क्षेपदीक्षा ॥
उपदेशान्तरमाह । विश्वसारे ।“चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये ।मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥
”विश्वसारे ।“महादीक्षा तथा दीक्षा उपदेशस्ततः परम् ।पुगे युगे च कर्त्तव्या उपदेशः कलौ युगे ॥
”इति कृष्णानन्दकृततन्त्रसारः ।
वाचस्पत्यम्
Sanskritदीक्षा स्त्री दीक्ष--भावे अ । १ नियमे २ उपनयनसंस्कारे“दीयते विमलं ज्ञानं क्षीयते कर्मवासना । तेन दीक्षेतिसा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः” इति तन्त्रोक्ते ३ अभीष्ट-देवभन्त्रग्रहणे ४ तदुपदेशे । यागाङ्गदीक्षा च द्वादशसंख्याअपरिमिता वा यथाह कात्या० श्रौ० ७ । १ । २९ सू० “द्वादशदीक्षाः” “अत्राग्निष्टोमे भवन्ति” कर्कः । “अपरमितावा” द्वादशसंख्यातोऽतिशयेनाधिकसंख्या वा दीक्षाभवन्ति “अपरिमितं प्रमाणाद्भूय इति” परिशिष्टकारःअतश्चत्वारो दीक्षापक्षाः, “एका दीक्षा, तिस्रो दीक्षा, द्वादशदीक्षा अपरिमिता वा दीक्षेति” शाखान्तरादेतेदीक्षापक्षाः । आपस्तम्बः “दशाहमवरार्ध्यं दीक्षितोभवति मासं सवत्सरं वा यदा कृश स्यादित्यपरं विज्ञा-यते च यद्रा वै दीक्षितः कृशो भवत्यथ मेध्यो मवतियदास्मिन्नन्तर्न किं चन भवत्यथ मेध्यो भवति यदास्यकृष्णं चक्षुषोर्नश्यत्यथ मेध्यो भवति यदास्य त्वचास्थिसंधीयतेऽथ मेध्यो भवति पीवा दीक्षेत कृशो यजेत यद-स्याङ्गानां हीयते जुहोत्येव तदिति विज्ञायते” इति ।कर्कः “पुण्याहे दीक्षा क्रयः प्रसव उत्थानम्” ३१ सू०“तान्यत्र दीक्षा सोमक्रयः प्रसवः सुत्या उत्थानं समाप्तिःपुण्याहे विष्ठिव्यतीपातादिज्योतिःशास्त्रनिषेधवर्जितेसुदिने भवन्ति यतएवं स्मरन्ति “आभ्युदयिकः पदार्थःपुण्येऽहनि कर्त्तव्यः एतानि चाभ्युदयिकानीति” कर्कः ।तान्त्रिकमन्त्रदीक्षाकालादि मल० त० उक्त यथा“अथ दीक्षाकालः सा च मलमामे न कार्य्या यथा-ऽगस्त्यसंहितायाम् “यदा ददाति सन्तुष्टः प्रसन्नवदनीमनुम् । अयमेव तथा चैवमिति कर्त्तव्यताक्रमः । वि-शुद्धदेशकालेषु शुद्धात्मा नियतो गुरुः । सङ्कल्प्योपोष्य कर्त्तव्यमङ्कुरारोपणं मुने! । कुर्य्यान्नान्दीमुखंन्नाद्धमादौ च स्वस्तिवाचनम् । स्वगृह्योक्तप्रकारेणतदेतद्विदधीत वै । मधुमासे भवेद्दुःखं माधवे रत्न-सञ्चयः । मरणं भवति ज्यैष्ठे आषाढे बन्धुनाशनम् ।समृद्धिः श्रावणे नूनं भवेद्भाद्रपदे क्षयः । प्रजानामा-श्विने मासि सर्वतः शुभमेव हि । ज्ञानं स्यात् कार्त्तिकेसौख्यं मार्गशीर्षे भवत्यपि । पौवे ज्ञानक्षयो माघेभवेन्मेधाविवर्द्धनम् । फालगुनेऽपि विवृद्धिः स्यान्मलमासंविवर्जयेत् । गुरौ रवौ दिने शुके कर्त्तव्यं बुधसो-मयोः । अश्विनी भरणी स्वातिविशाखाहस्तभेषु च ।ज्येष्ठोत्तरत्रयेष्वेवं कुर्य्यान्मन्त्राभिषेचनम् । शुक्लपक्षे चकृष्णे वा दीक्षा सर्वसुखावहा । पूर्णिमा पञ्चमी चैवद्वितीया सप्तमी तथा । त्रयोदशी च दशमी प्रशस्तासर्वकामदा । पञ्चाङ्गशुद्धदिवसे सोदये शशितारयोः ।गुरुशुक्रोदये शुद्धे लग्ने द्वादशशोधिते । चन्द्रतारानु-कूले च शस्यते सर्वकर्मसु । सूर्य्यग्रहणकालेन समानोनास्ति कश्चन । तत्र यद्यत् कृतं सर्वमनन्तफलदं भवेत् ।न मासतिथिवारादिशोधनं सूर्य्यपर्वणि । ददातीष्टंगृहीतं यत्तस्मिन् काले गुरोर्नृषु । सिद्धिर्भवति मन्त्रस्यविनायामेन सेव्यतः” । मनुं मन्त्रम् । अङ्कुरारोपणमा-गमप्रमिद्धम् । शुद्धकालत्वं दर्शयति मधुमासे इत्यादि ।पञ्चाङ्गशुद्धदिवसे तिथिवारनक्षत्रकरणयोगशुद्धदिवसे ।तथाच महाकपिलपञ्चरात्रम् “एवं नक्षत्रतिथ्यादौकरणे योगवासरे । मन्त्रोपदेशा गुरुणा साधकस्य शुभा-वहःँ । सोदये शशितारयोरिति जन्मचन्द्राद्यतारयोरानु-कूल्यसहिते गुरुशुक्रोदये गुरुशुक्रानस्तमये । एतत्तुसमयशुद्ध्यन्तरोपलक्षणम् । (अकालशब्दीक्ते “गुरीर्भृ-गोरस्तवाल्ये” इत्यादिके वचने “परीक्षारामकूपांश्च पुर-श्चरणदीक्षणे” इत्यादिना अशुद्धकाले तस्यावर्ज्यत्व-मुक्तम्) । द्वादशशोधिते द्वादशांशशोधिते । ज्ञानमा-लायाम् “रविसंक्रमणे चैव सूय्यस्य ग्रहणे तथा” ।तथा “तत्र लग्नादिकं किञ्चिन्न विचार्य्यं कथञ्चन” ।दीक्षातत्त्वे “यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः ।न तिथिर्न व्रतं होमो न स्नानं न जपः क्रिया ।दीक्षायाः कारणं किञ्चित् स्वेच्छयाप्ते तु सद्गुरौ” ।सदुगुरौ सिद्धमन्त्रगुरौ । दीपिकायाम् “ध्रुवमृदु-नक्षत्रगणे रविशुमवासरेपु सत्तिथौ सद्गुरौ दीक्षा ।स्यिरलग्ने शुभचन्द्रे केन्द्रे कोणे शुभे गुरौ धर्मे” ।ध्रुवाणि त्रीण्युत्तरप्रणि रोहिणी च । मृदनि चित्रा-नुराधामृगशिरोरेवत्यः । केन्द्रं लग्नचतुर्यसप्तदशकम् ।कोणं नवपञ्चकम् । धर्म्मो नवमः । वीरतन्त्रे “रोहिणीअवणार्द्रा च धनिष्ठा चोत्तरात्रयम् । पुष्यः शत-भिषगकौ च दीक्षामक्षत्रमिष्यते” । अर्को हस्तः ।रत्नावल्याम् “योगाश्च प्रीतिरायुष्मान् सौभाग्यः शोभनोधृतिः । वृद्धिर्ध्रुवः सुकर्म्मा च साध्यः शुक्रश्च हर्षणः ।वरीयांश्च शिवः सिद्धो ब्रह्मा इन्द्रश्च षोडश” । तथा ।शुभानि करणानि स्युर्दीक्षायाञ्च विशेषतः । शकुन्यादीनिषिष्टिञ्च विशेषेण विवर्जयेत्” । शकुन्यादीनि शकुनिनागचतुष्पदकिन्तुध्नानि । कृष्णेऽष्टम्यां चतुर्दश्यां पूर्वप-ञ्चदिने तथा” । कृष्णे कृष्णपक्षे । कालोत्तरे “भूतिकामैःसिते सदा” म० त० दीक्षायां प्रतिप्रसवः “राघवभट्टधृतसारसंग्रहे शिष्यस्त्रिजन्मदिवसे संक्रान्तौ विषुवायने ।सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः । भन्त्रदीक्षां प्रकु-र्वाणो मासर्क्षादीन् न शोधयेत्” । तन्तुपर्व परमेश्वरोपवीतदानतिथिः श्रावणी पूर्णिमा । दामनपर्व दमनभञ्जनति-थिश्चैत्रशुक्लचतुर्दशी । कूर्म्मपुराणे हिमालयं प्रति देवी-वाक्यम् “यानि शास्त्राणि द्वश्यन्ते लोकेऽस्मिन् विवि-धानि च । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि ताममी ।करालभैरवञ्चापि यासलं वाममाश्रितम् । एवंविधानिचान्यानि मोहनार्थानि तानि तु । मया सृष्टानि चा-न्यानि मोहायैषां भवार्णवे” । तस्मात् सद्भिः श्रुतिस्मृति-विरुद्धे वर्त्मनि न कदाचित् पदं न्यस्तव्यम् । अर्य्यादि-दुष्टमन्त्रप्रतीकारस्तु “एषु दोषेषु सर्वत्र मायां काम-मथापि वा । क्षिप्त्या चादौ श्रिथं दद्यात् तद्दूषण-विमुक्तये । तारसंपुटिती वापि दुष्टमन्त्रो विशुध्यति ।यस्य यत्र भवेद्भक्तिः सोऽपि मन्त्रोऽस्य सिद्ध्यति । भुवने-श्वरीपारिजातेऽपिं “मायावीजसमायुक्तः क्षिप्रं सिद्धि-प्रदो भवेत् । पिण्डस्तु केवलो मन्त्रो मायावीजोज्ज्वली-कतः । मायावीजात् भवेत् प्राणीवीजञ्चैतन्यवीर्य्यवत्” ।नारदीये “यदृच्छया श्रुतं मन्त्रं छद्मनापि हठेन वा ।पत्रेक्षितं वा गायाञ्च तसुपेत्य त्वनर्थकृत् । प्रविश्यविधिवद्दीक्षामभिवेकावसानिकाम्” । अधिकं तत्त्रासा-रोक्तं देशाद्यनुपदं वत्यतेतन्त्रसारे दीक्षाशब्दस्य व्युत्पत्तिप्रदर्शनपूर्वं कलावावशप्रकता दर्शिता यथा“दीक्षां विना जपस्य दुष्टत्रात पथमं सा निन्मप्यते “दिव्यं ज्ञानं यतो दद्यात् कुर्य्यात् पापस्व संक्ष-यम् । तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ।दीयते ज्ञानसंभारः क्षालनात् पापसन्ततेः । ततो दी-क्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः” । सर्वाश्रमेषु दी-क्षाया आवश्यकत्वम् तथा च “दीक्षामूलं जपं सर्वंदीक्षामूलं परन्तपः । दीक्षामाश्रित्य निवसेत् यत्र कुत्रा-श्रमे वसन्” । शूद्रस्य निषेधमाह तन्त्रान्तरे “प्रणवाद्यंन दातव्यं मन्त्रं शूद्राय सर्वथा । आत्ममन्त्रं गुरोर्मन्त्रंमन्त्रञ्चाजपसंज्ञकम् । स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रंददद्विजः । शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधीग-तिम्” । नृसिंहतापनीये “सावित्रीं प्रणवं यजुर्लक्ष्मींसत्री शूद्रो यद्विजानीयात् स मृतोऽधोगच्छति” । लक्ष्मींलक्ष्मीमन्त्रम् । विशेषमाह वाराहीतन्त्रे “गोपालस्य मनु-र्देयो महेशस्यापि पादजे । तत् पत्न्याश्चापि सूर्यस्यगणेशस्य मनुस्तथा” ।अदीक्षितस्य निन्दामाह तन्त्रसारे“अदीक्षिताये कुर्वन्ति जपपूजादिकाः क्रियाः । न भ-वन्ति श्रियै तेषां शिलायामुप्तवीजवत् । देवि! दीक्षावि-हीनस्य न सिद्धिर्न च सद्गतिः । तस्मात् सर्वप्रयत्नेन गु-रुणा दीक्षितो भवेत् । अदीक्षितोऽपि मरणे रौरवं नरकंव्रजेत् । तस्माद्दीक्षां प्रयत्नेन सदा कुर्य्याच्च तान्त्रिकात् ।कल्पे दृष्ट्वा तु मन्त्रं वै यो गृह्णाति नराधमः । मन्वन्तरसहस्रेषु निष्कृतिर्नैव जायते । नादीक्षितस्य कार्य्यंस्यात् तपोभिर्नियमव्रतैः । न तीर्थगमनेनापि न चशारीरयन्त्रणैः” । अतः सद्गुरोराहितदीक्षः सर्वक-र्माणि साधयेत् । गोविन्दवृन्दावने “अदीक्षितस्यमरणे प्रेतत्वं न विमुञ्चति” । नवरत्नेश्वरः “सर्वासामपिदीक्षाणां मुक्तिः फलमखण्डितम् । अविरोधाद्भवन्त्येवप्रासङ्गिक्यस्तु भुक्तयः” । दीक्षा काम्या च यथा कुलार्णवे“उपपातकलक्षाणि महापातककोटयः । क्षणाद्दहतिदेवेशि! दीक्षा हि विधिना कृता । दीक्षाह्यागमोक्ता-गमपदार्थमाह गामले “आगतः शिववक्त्रेभ्यो गतश्चगिरिजानने । मग्नस्तस्या हृदम्भोजे तस्मादागम उच्यते ।आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः । नहि देवाः प्रसीदन्ति कलौ चान्यविधानतः । पञ्चवर्णैर्भ-वेद्दीक्षा ह्यागमोक्तैः शृणु प्रिये! । यां कृत्वा कलिकालेच सर्वाभीष्टं नभेन्नरः” तन्त्रसा०दीक्षाप्रकारश्च कलावतीशब्दे १७९२ पृ० दृश्यःअन्यत्र च दीक्षाशब्दव्युत्पत्त्यादिकमुक्तं यथारुद्रजामले “ददाति शिवतादात्म्यं क्षिणोति चमलत्रयम् । अतो दीक्षेति संप्रोक्ता दीक्षातन्त्रार्थवे-दिभिः” । लघुकल्पसूत्रे च “दीयते परमं ज्ञानं क्षीयतेपापपद्धतिः । तेन दीक्षोच्यते तन्त्रे स्वागमार्थबलाव-लात्” । योगीनीतन्त्रे तृतीयभागे षष्ठपटलेऽपि “दीयतेज्ञानमत्यर्थं क्षीयते पाशबन्धनम् । अतो दीक्षेतिदेवेशि! कथिता तत्त्वचिन्तकैः । मनसा कर्मणा वाचायत् पापं समुपार्जितम् । तेषां विश्लेषकरणी परमज्ञान-दा यतः । तस्माद्दीक्षेति लोकेऽस्मिन् गीयते शास्त्रवेदकैः ।विज्ञानफलदा सैव द्वितीया लयकारिणी । तृतीयामुक्तिदा चैव तस्माद्दीक्षेति गीयते” । विश्वसारतन्त्रेद्वितीयपटले च “अथ दीक्षां प्रवक्ष्यामि शृणुष्व कम-लानने! । यस्य विज्ञानमात्रेण देवत्वं लभते नरः ।दिव्यज्ञानं यतो दद्यात् कुर्यात्पापक्षयं यतः । तस्माद्दी-क्षेति सा प्रोक्ता सर्वतन्त्रस्य सम्मता” । अथ दीक्षामा-हात्म्यम् सद्रजामले पूर्वखण्डे तृतीयपटले “देवि!दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः । तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् । अदीक्षितोऽपि मरणेरौरवं नरकं व्रजेत् । तस्माद्दीक्षां प्रयत्नेन सदा कुर्याच्चतान्त्रिकीम्” पञ्चदशपटले “अदीक्षिता ये कुर्वन्ति जप-पूजादिकाः क्रियाः । न भवन्ति प्रिये! तेषां शिलायामुप्तवीजवत्” कल्पसूत्रटीकाधृतकुलार्णवतन्त्रे “रसेन्द्रेण यथाविद्धमयः सुवर्णतां व्रजेत् । दीक्षाविद्धस्तथैवात्मा शिवत्वंलभते प्रिये! दीक्षाग्निदग्धकर्मासौ पाशाद्विच्छिन्नबन्धनः ।गतस्तस्य कर्मबन्धो निर्जीवश्च शिवो भवेत् । गतं शूद्रस्यशूद्रत्वं विप्रस्यापि च विप्रता । दीक्षासंस्कारसंमिन्नेजातिभेदो न विद्यते । शिवलिङ्गे शिलाबुद्धिं कुर्वन्यत् पापमाप्नुयात् । दीक्षितस्यापि पूर्वत्वं स्मरन् तत्पापमाप्नुयात् । दार्वश्मलौहमृद्रत्नजाति “लङ्गं प्रति-ष्ठितम् । यथोच्यते तथा शुद्धाः सर्वे वर्णाश्च दीक्षिताः ।येन पूजितमात्रेण चाब्रह्मभुवनान्तकम् । पूजितंतेन सर्वं स्याद्दीक्षितेन न संशयः । नादी क्षतस्य कार्यंस्यात्तपोभिर्नियमव्रतैः । न तीर्थगमनेनापि न चशारीरयन्त्रणैः” पञ्चमखण्डे षष्ढोल्लासेऽपि “गवांसर्पिः शरीरस्थं न करोत्यात्मपोषणम् । स्वकर्म चरितंदत्त पुनस्तामेव पोषयेत् । एवं सर्वशरीरस्थं सर्पिर्वत्परमेश्वरी । विना चोपासनाद्देवि! न ददाति फलंनृणाम” । पुरश्चरणरसोल्लासे प्रथमपटले “न च दीक्षा-परं ज्ञानं न च दीक्षापरं तपः । न च दीक्षापरंकालं तस्माद्दीक्षा गीरयसी”तत्र देशकालादि तन्त्रसारे निर्णीतं यथा“वृषे सिंहे च कन्यायां धनुर्मीनाख्यलग्नके । चन्द्र-तारानुकूले च कुर्य्याद्दीक्षाप्रवर्त्तनम् । स्थिरलग्नंविष्णुमन्त्रे शिवमन्त्रे चरः शुभः । द्विःस्वभावगतंलग्नं शक्तिमन्त्रे प्रशस्यते । त्रिषडायगताः पापाःशुभाः केन्द्रा त्रिकोणगाः । दीक्षायान्तु शुभाः सर्वेरन्ध्रस्थाः सर्वनाशकाः” । शुक्लपक्षे भवेद्दीक्षा कृष्णे-ऽप्या पञ्चमाद्दिनात्” । निषिद्धमासेऽपि तत्तद्विशेषो मुनि-भिरुदितः रत्नावल्याम् “षष्ठी भाद्रपदे मासि तथाकृष्णा चतुर्दशी । कार्त्तिकं नवभी शुक्ला मार्गे शुक्लतृतीयिका । पौषे च नवमी शुक्ला माघे शुक्लचतुर्थिका ।फाल्गुने नवमी शुक्ला चैत्रे कामचतुर्दशी” । त्रयोदशीतिकेचित् । “वैशाखे साऽक्षया चैव ज्यैष्ठे दशहरा तिथिः ।आषाढे नवमी शुक्ला श्रावणे कृष्णपञ्चमी । एतानिदेवपर्वाणि तीर्थकोटिफलं लभेत् । अत्र दीक्षाप्रकर्त्तव्या न मासञ्च परीक्षयेत् । न वारं न च नक्षत्रंन तिय्यादिकदूषणम् । न योगकरणञ्चैव शङ्करेणच भाषितम्” । अन्यच्च । “चैत्रे त्रयोदशी शुक्लावैशाखैकादशी सिता । ज्यैष्ठे चतुर्दशी कृष्णा आषाढेनागपञ्चमी । श्रावणैकादशी भाद्रे रोहिणीसंयुता-ष्टमी । आश्विने च महापुण्या महाष्टम्यप्यभीष्टदा ।कार्त्तिके नवमी शुक्ला मार्गशीर्षे तथा सिता । षष्ठीचतुर्दशी पौषे माघेऽप्येकादशी सिता । फाल्गुने चसिता षष्ठी चेति कालविनिर्णयः” । योगिनीतन्त्रे“अयने विषुवे चैव ग्रहणे चन्द्रसूर्य्ययोः । रवि-संक्रान्तिदिवसे युगाद्यायां सुरेश्वरि! । मन्वन्तरासु सर्वासुमहापूजादिमे तथा । चतुर्थी पञ्चमी चैव चतुर्दश्यष्टमीतथा । तिथयः शुभदाः प्रोक्ताः” इत्यादिवचनात् चतु-र्दश्यष्टमीति शक्तिविषयम् चतुर्थीति गणेशविषयम्तत्तत्कल्पोक्तत्वात् “निन्दितेष्वपि कालेषु दीक्षोक्ता ग्रहणेशुभा । सूर्य्यग्रहणकालस्य समानो नास्ति भूतले ।विशेषतो महादेवि! दीक्षाग्रहणकर्मणि । तत्र यद्यत्-कृतं सर्वमनन्तफलदं भवेत् । रविसंक्रमणे चैव सूर्य्यस्यग्रहणे तथा । तत्र लग्नादिकं किञ्चिन्न विचार्य्यंकथञ्चन । रविसंक्रमणे चैव नान्यदन्वेषितं भवेत् ।न वारतिथिमासादिशोधनं सूर्य्यपर्वणि” । एवं चन्द्रग्रहणे-ऽपि तथा च रुद्रयामले “न कुर्य्याच्छाक्तिकी दीक्षामुप-रक्ते विभावसौ । न कुर्य्याद्वैष्णवीं तान्तु यदि चन्द्र-मसो ग्रहः” । एतच्च गोपालश्रीविद्येतरविषयम ।“अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्य्ययोरिति” गौतमी-यात् । सूर्य्यग्रहणकाले तु नान्यदन्वेषितं भवेत्”इति योगिनीहृदयाच्च । वस्तुतस्तु “श्रीपराकालीवी-जानि लोपादौर्गश्च यो मनुः । सूर्य्यस्योपग्रहे लब्धेनृणां शीघ्रफलप्रदः” उक्तवचनानुरोधात् पूर्ववचनेशक्तिमन्त्रपदं श्रीविद्याद्यतिरिक्तशक्तिमन्त्रपरमितिसाम्प्रदायिकाः । “अमावास्या सोमवारे भौमवारे चतु-र्थिका । सप्तमी रविवारे च सूर्यग्रहशतैः समा । शिष्या-नाहूय गुरुणा कृपया दीयते यदि । तदा लग्नादिकंकिञ्चिन्न विचार्यं कथञ्चन । तथा “सर्वे वारा ग्रहाः सर्वेनक्षत्राणि च राशयः । यस्मिन्नहनि सन्तुष्टो गुरुः सर्वेशुभावहाः” । योगिनीतन्त्रे “ग्रहणे च महातीर्थेनास्ति कालस्य निर्णयः” । अथ वक्ष्यामि दीक्षायाःस्थानं तन्त्रानुसारतः । गोशालायां गुरोर्गेहे देवागारेच कानने । पुण्यक्षेत्रे तथोद्याने नदीतीरे च मन्त्र-वित् । धात्रीविल्वसमीपे च पर्वताग्रगुहासु च । गङ्गायास्तु तटे वापि कोटिकोटिगुणं भवेत्” । दीक्षायां नि-षिद्धदेशमाह “गयायां भास्करक्षेत्रे विरजे चन्द्रपर्वते ।चण्डाले च मतङ्गे च तथा कन्याश्रमेषु च । न गृ-ह्णीयात्ततो दीक्षां तीर्थेष्वेतेषु पार्वति!” । वाराहीतन्त्रे“शुक्रोऽस्तो यदि वा वृद्धो गुर्वादित्यो भवेद्यदि । मेष-वृश्चिकसिंहेषु तदा दोषो न विद्यते” । महाविद्यासुसर्वासु कालादिविचारो नास्ति तदुक्तं मुण्डमालातन्त्रे“कालादिशोधनं नास्ति न चामित्रादि दूषणम्” ।५ कर्मणि च “विवाहदीक्षां निरवर्त्तयत् गुरुः” “विवाह-दीक्षातिलकं चकार” रघुः नियमे “एताश्चान्याश्चरेदेवदीक्षा विप्रो वने वसन्” मनुः ।
Burnouf
FrenchStchoupak
Frenchदीक्षा-
ensemble de cérémonies et d'observances préliminaires
par lesquelles on se prépare à un acte religieux, à un sacrifice
consécration, initiation
investiture du cordon brahmanique
cérémonie
religieuse en général
préparatif en vue d'un acte important.
°प्रवेश- commencement de l'initiation préliminaire.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
