| YouTube Channel

दीक्ष (dIkSa)

 
शब्दसागरः
English
दीक्ष r. 1st cl. (दीक्षते)
1. To be shaved.
2. To perform a sacrifice.
3.
To initiate.
4. To teach religious observances.
5. To be selfres-
trained भ्वा० आ० सक० सेट्
Wilson
English
दीक्ष r. 1st cl. (दीक्षति)
1 To be shaved.
2 To perform a sacrifice.
3 To initiate.
4 To teach religious observances.
4 To be self-restrained.
Shabdartha Kaustubha
Kannada
दीक्ष - मौण्ड्येज्योपनयनियमव्रतादेषु) दीक्षते
पदविभागः - > धातुः
कन्नडार्थः - > ಮುಂಡನ ಮಾಡು /ಕ್ಷೌರ ಮಾಡು
दीक्ष - मौण्ड्येज्योपनयनियमव्रतादेषु) दीक्षते
पदविभागः - > धातुः
कन्नडार्थः - > ಯಾಗ ಮಾಡು
दीक्ष - मौण्ड्येज्योपनयनियमव्रतादेषु) दीक्षते
पदविभागः - > धातुः
कन्नडार्थः - > ವೇದಾಧ್ಯಯನಕ್ಕಾಗಿ ಬಾಲಕನಿಗೆ ಉಪನಯನ ಸಂಸ್ಕಾರಮಾಡಿ ಗುರುವಿನಲ್ಲಿ ಕಳುಹಿಸು
दीक्ष - मौण्ड्येज्योपनयनियमव्रतादेषु) दीक्षते
पदविभागः - > धातुः
कन्नडार्थः - > ನಿಯಮದಲ್ಲಿರು /ಕಟ್ಟುಪಾಡಿನಲ್ಲಿರು /ನಿರ್ಬಂಧದಲ್ಲಿರು
दीक्ष - मौण्ड्येज्योपनयनियमव्रतादेषु) दीक्षते
पदविभागः - > धातुः
कन्नडार्थः - > ಪವಿತ್ರವಾದ ಕಾರ್ಯಕ್ಕಾಗಿ ಪ್ರಾರಂಭದಲ್ಲಿ ಸಂಸ್ಕಾರಹೊಂದು /ಮಂತ್ರಗ್ರಹಣ ಮೊದಲಾದುದಕ್ಕಾಗಿ ಉಪದೇಶ ಹೊಂದು
दीक्ष - मौण्ड्येज्योपनयनियमव्रतादेषु) दीक्षते
पदविभागः - > धातुः
कन्नडार्थः - > ಆಜ್ಞೆಯಂತೆ ನಡೆ /ಅಪ್ಪಣೆಯ ಮೇರೆಗೆ ನಡೆ
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दीक्ष्
मूलधातुः:
दीक्ष
धात्वर्थः:
मौण्ड्य-इज्य-उपनयन-व्रत-आदेशेषु
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
दीक्षते
धातुप्रदीपः
Sanskrit
दीक्षँ दीक्ष मौण्ड्ये, इज्या, उपनयन, नियम, व्रतादेशेषु
- दीक्षते दीक्षा ।दीक्षितः।। 609 ।।
शब्दकल्पद्रुमः
Sanskrit
दीक्ष, मौण्ड्ये इज्यायाम् ह्योऽर्थे इति कवि-कल्पद्रुमः
(भ्वां-आत्मं-अकं-ह्योऽर्थे अकं-सकंच-सेट् ।) मौण्ड्यं मुण्डितमस्तकीभावः इज्यायजनम् ह्योऽर्थो नियमव्रतादेशोपनीतयः ।ङ, दीक्षते वटुर्मुण्डितमस्तकः स्यादित्यर्थः ।दीक्षते जनो यजतीत्यर्थः दीक्षते याज्ञिकोनियमी स्यादित्यर्थः दीक्षते पण्डितो जनंव्रतमुपदिशतीत्यर्थः दीक्षते पुत्त्रं विप्रः उप-नयतीत्यर्थः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
दीक्ष मौण्ड्ये यागे उपनयने नियमब्रतयोरादेशे
भ्वा०
आ०
सक०
सेट् दीक्षते अदीक्षिष्ट दिदीक्षे दीक्षि-ष्यते “दीक्षस्व सह रामेण त्वरितं तुरगाध्वरे” भट्टिः“यज्ञादुह वा एष पुनर्जायते यो दीक्षते” ऐत० व्रा० २२“कथं नोमध्येऽदीक्षिष्ट” ऐत० ब्रा० १९ “ब्रह्मसत्रेणदीक्षिष्यमाणः” भाग० क्वचित् वेदे पदत्ययः“ते देवयजनं दिदीक्षुः पञ्चमी० ब्रा० २४ १८ णिच् ।दीक्षयति “राजानं दीक्षयामासुः सर्पसत्रात्यये तदा” भा०आ० २०१७ श्लो०
क्षीरतरङ्गिणी
Sanskrit
दीक्षँ दीक्ष मौण्ड्यं, इज्या, उपनयन, नियम, व्रतादेशेषु
-(अर्थविवरणम्) मौण्ड्यं वपनम्
(अर्थविवरणम्) इज्या यमनम्
(अर्थविवरणम्) उपनयनम् मौर्वीबन्धः
(अर्थविवरणम्) नियमः संयमः
(अर्थविवरणम्) व्रतादेशः संस्कारादेशकथनम्
दीक्षते दीक्षित्वा दीक्षा सूददीपदीक्षश्च (32153) इति युच् - नास्ति- दीक्षिता अन्ये दीक्ष मौण्ड्येज्योपनयनादौ चेत्याहुः ज्यवते जीनः 603
धातुवृत्तिः
Sanskrit
दीक्षँ दीक्ष (अर्थः) मौण्ड्ये, इज्या, उपनयन, नियम, व्रतादेशेषु
(दीक्षतेइत्यादि) "अनुदात्ततेश्च''इति युच् "सूददीपदीक्षश्च'' इति निषेधाद्दीक्षितेति सामग्न्यस्तु भवति 601
कृदन्तरूपमाला
Sanskrit
1 {@“दीक्ष मौण्ड्य-इज्या-उपनयन-नियम व्रतादेशेषु”@} 2 3 मौण्ड्यम् = वपनम्।
इज्या = यजनम्।
उपनयनम् = मौर्वीबन्धः।
नियमः = संयमः।
व्रतादेशः = संस्कारादेशकथनम्।
इति क्षीरस्वामी।
यथासंभवं सकर्मकाकर्मकत्वे ज्ञेये।
“अस्यार्थो व्रतसम्प्राप्तिः, तद्भेदाः कथिता इमे।
सा मौण्ड्यात् क्वचित्, क्वापि दीक्षणीयादिकेज्यया।।
उपनीत्या क्वचित्, क्वापि नियमग्रहमात्रतः।
क्वचिद् गुर्वादिनन्दे ते 4 व्रतमस्त्विति शासनात्।।
…दीक्षते वाग्मी यजमानस्तु माणवः।
तपसे महानाम्न्यै 5 तत्र ह्यादेशना व्रतम्।।” इति धा।
का।
व्याख्याने 6 प्रोक्तम्।
दीक्षकः-क्षिका, दीक्षकः-क्षिका, दिदीक्षिषकः-षिका, देदीक्षकः-क्षिका
इत्यादीनि सर्वाण्यपि रूपाणि तक्षतिवत् 7 ज्ञेयानि।
अस्य धातोः आत्मने- पदित्वात् शानचि दीक्षमाणः इति रूपमिति विशेषः।
दीक्षिता 8।
9 दीक्षितः।
प्रासङ्गिक्यः
01
=>
(८४३)
02
=>
(१-भ्वादिः-६०९। सक। सेट्। आत्म।)
03
=>
[पृष्ठम्०७४९+ ३१]
04
=>
(?)
05
=>
(?)
06
=>
(१-७७)
07
=>
(६९२)
08
=>
[[१। तच्छीलादिषु कर्तृषु ‘सूददीपदीक्षश्च’ (३-२-१५३) इति युच्प्रतिषेधात् तृन्नेव।]]
09
=>
[[आ। ‘संक्लेशितस्वकथदक्षणदीक्षितं तं प्रेक्ष्यैष जन्मफलमीषितवान् महात्मा।।’ धा। का। १। ७७।]]