| YouTube Channel

दिष्टं (diSTaM)

 
शब्दकल्पद्रुमः
Sanskrit
दिष्टं,
क्ली,
(दिशति इष्टानिष्टफलं ददातीति ।दिश + “क्तिच्क्तौ संज्ञायाम् ।” १७४ ।इति क्तः ।) भाग्यम् इत्यमरः २८
(यथा, महाभारते १४ ५३ १६ ।“ततस्ते निघनं प्राप्ताः सर्व्वे ससुतबान्धवाः ।न दिष्टमत्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा
”दिश + कर्म्मणि क्तः ।) उपदिष्टे, त्रि इतित्रिकाण्डशेषः
(कथिते यथा, भट्टौ ३२ ।“गाधेयदिष्टं विरसं रसन्तंरामोऽपि मायाचनमस्त्रचुञ्चुः
”)