| YouTube Channel

दिश (diza)

 
शब्दसागरः
English
दिश (औ) दिशौ r. 6th cl. (दिशति-ते)
1. To show, to exhibit, to explain or
make intelligible.
2. To order, to command, to direct or send.
3. To
say, to speak.
4. To give. With अप prefixed, To change, to dis-
guise. With आङ्, 1. To order or command.
2. To show.
3. To
summon. With उद्, 1. To proclaim, to make known or public.
2. To show. With उप, To point out (literally or metaphorically),
to show, to advise. With निर्, 1. To speak aloud.
2. To specify,
to show. With प्र, To appoint, to order. With प्रति and सम्, To
command, to return, to send back. With वि and अप, To plead in
excuse, to state as a plea or pretext. With वि and निर्, To declare.
With सम्, 1. To exhibit, to show, &c.
2. To communicate as
news or information, With सम् and आङ्, To approve, to permit.
With सम्, To point out at a distance, as with the finger. तु० उभ०
सक० अनिट्
Wilson
English
दिश (औ) दिशौ r. 6th cl. (दिशति-ते)
1 To show, to exhibit, to explain or make intelligible.
2 To order, to command, to direct or send.
3 To say, to speak.
4 To give.
With अप prefixed, To change, to disguise.
With आङ्,
1 To order or command.
2 To show.
3 To summons.
With उद्,
1 To proclaim, to make known or public.
2 To show.
With उप, To point out (literally or metaphorically), to show, to advise.
With निर्,
1 To speak aloud.
2 To specify, to show.
With प्र, To appoint, to order.
With प्रति and सम्, To command, to return, to send back.
With वि and अप, To plead in excuse, to state as a plea or pretext.
With वि and निर्, To declare.
With सम्,
1 To exhibit, to show, &c.
2 To communicate as news or information.
With सम् and आङ्, To approve, to permit.
With सम and उप, To point out at a distance, as with the finger.
Monier Williams 1872
English
दिश, अम्, ind. = 2. दिश्, at the end of adv. comp.
(Pāṇ. V. 4, 107).
Benfey
English
ऽदिश -दिश् + अ, a substitute for दिश्
when latter part of comp. adv.
see
यथादिशम्, यथाभीष्टदिशम्।
Shabdartha Kaustubha
Kannada
दिश - अतिसर्जने (तुदा० उभ० सक० अनि०) दिशति
पदविभागः - > धातुः
कन्नडार्थः - > ದಾನಮಾಡು /ಕೊಡು
प्रयोगाः - > "दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥"
उल्लेखाः - > रघु० ५-३०
दिश - अतिसर्जने (तुदा० उभ० सक० अनि०) दिशति
पदविभागः - > धातुः
कन्नडार्थः - > ತೋರಿಸು /ಒಪ್ಪಿಸು
प्रयोगाः - > "साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः "
उल्लेखाः - > मनु० ८-५७
दिश - अतिसर्जने (तुदा० उभ० सक० अनि०) दिशति
पदविभागः - > धातुः
कन्नडार्थः - > ಒಪ್ಪಿಗೆ ಕೊಡು /ಸಮ್ಮತಿಸು
प्रयोगाः - > "भृत्यभावि दुहितुः परिग्रहात् दिश्यतां कुलमिदं निमेरिति"
उल्लेखाः - > रघु० ११-४९
दिश - अतिसर्जने (तुदा० उभ० सक० अनि०) दिशति
पदविभागः - > धातुः
कन्नडार्थः - > ಆಜ್ಞೆಕೊಡು /ಅಪ್ಪಣೆ ಮಾಡು
प्रयोगाः - > "महोत्सवाय प्रथमप्रमुख्यान् पृथून् गणान् शम्भुरथादिदेश"
उल्लेखाः - > कुमा० ११-३०
दिश - अतिसर्जने (तुदा० उभ० सक० अनि०) दिशति
पदविभागः - > धातुः
कन्नडार्थः - > ಅನುಮತಿಸು /ಎಡೆಮಾಡಿಕೊಡು
प्रयोगाः - > "अस्मिन् रतिश्रमनुदश्च सरोजवाताः स्मर्तुं दिशन्ति दिवः सुरसुन्दरीभ्यः"
उल्लेखाः - > किरा० ५-२८
दिश - अतिसर्जने (तुदा० उभ० सक० अनि०) दिशति
पदविभागः - > धातुः
कन्नडार्थः - > ತೋರಿಸು /ಸೂಚಿಸು
दिश
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿಷ್ಣು /ಪರಮಾತ್ಮ
निष्पत्तिः - > दिश (अतिसर्जने) - "कः" (३-१-१३५)
व्युत्पत्तिः - > गजेन्द्रमोक्षणदृष्ट्वा विस्मितान् ब्रह्मादीन् वन्दमानान् नान्तरङ्गीकरोति गजेन्द्रवत् किन्तु दिशति आज्ञापयति
प्रयोगाः - > "चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः"
उल्लेखाः - > वि० स०
विस्तारः - > "धात्रादीन् सर्वकृत्येषु स्वाज्ञापायति यः सदा दिशः तुन् समाख्यातः षडर्णो मनुरुत्तमः ॥" - निरुक्तिः
दिश
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಕೊಡುವವನು
दिश
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಆಜ್ಞೆ ಮಾಡುವವನು
Edgerton Buddhist Hybrid
English
[diśa
m.-nt. forms occur from stem diś(ā), as from other f. ā-stems, 〔§ 9.4〕
ex. daśa-diśebhir LV 〔416.2〕.]
Indian Epigraphical Glossary
English
diśaḥ (EI 2), the nymphs of the quarters.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दिश्
मूलधातुः:
दिश
धात्वर्थः:
अतिसर्जने (दानं)
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
दिशति
धातुप्रदीपः
Sanskrit
दिशँ दिश अतिसर्जने
- दिशति दिशते दिशतु दिशताम् अदिशत् अदिशत दिश्यात् दिक्षीष्ट अदिक्षत् अदिक्षत आदिशन् आदिशमानः दिक् देशः 3
Mahabharata
English
*diśaḥ (“the quarters, personif.): IX, 2514
XII, 11613, 11707, 12606.
Diśaḥ^1 = Skanda: III, 14639. Do.^2 = Vishṇu (1000 names).
शब्दकल्पद्रुमः
Sanskrit
दिश, ओचे इति कविकल्पद्रुमः
(तुदां-उभं-सकं-अनिट् ।) औ, अदिक्षत् ।ञ श, दिशति दिशते ओच इति उचिर्य्यसमवायने इत्यस्य अलि रूपम् धातूनाम-नेकार्थत्वादोच इह दानमाज्ञापनं वा दिदेशकौत्साय समस्तमेवेति रघुः कथनेऽप्ययम् ।धर्म्मं दिशति देशिकः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
दिश दाने आज्ञापने कथने तु०
उभ०
सक०
अनिट् दिशतिते अदिक्षत् दिदेश देष्टा दिष्टः दिष्टिः दिष्ट्वा आदिश्य“साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः”मनुः दाने “इष्टां गतिं तस्य सुरा दिशन्ति” भा०आनु० १८४३ श्लो० आज्ञापने “महादेवेन दिष्टं ते पुत्रजन्मनराधिप!” भा० व० १०६ अ० “दिदेश तस्मै प्रयतांतनूजाम्” कुमा० ।अति + स्वविषयमुल्लङ्घ्यान्यविषये उपदेशे
सक०
अतिदेशशब्दे१०० पृ० दृश्यम् “यथाकालोपपाते तद्दैवते तद्दैवतंहुत्वा तद्वातिदिश्यानेन जुहुयात्” कात्या० श्रौ० २५ ।२ उपदेशे “इत्यर्चितः भगवानतिदिश्यात्मनःपदम्” भाग० २८ ।अनु + पश्चात्कथने “यज्ञं देवेभ्योऽनुदिशति” तैत्ति० स०-१ “रामश्चाप्यनुदिश्यताम्” रामा० लङ्का० ८९ स०अप + छलने यथार्थाह्नवे अपदेशशब्दे दृश्यम् “पश्चिम-क्रतुविदा पुरोधमा रोगशान्तिमपदिश्य मन्त्रिणः ।सम्भृते शिखिनि गूढमादधुः” “तस्य निर्दयरतिश्रमा-लसाः मित्रकृत्यमपदिश्य पार्श्वगाः” रघुः ।वि + अप + संज्ञाभेदे “भ्रातरं राजराजानं महेश्वरसखंप्रभुम् धनेश्वरं व्यपदिशन्” भा० व० २८० अ० “मित्रं चमां व्यपदिशस्यपरं यासि” मृच्छक० “ईश्वर इतिव्यपदिश्यते” वेदा० सा० “निमित्तसद्भावाद्विशिष्टोऽपदे-शोऽमुख्यव्यवहारोव्यपदेशः” परिभाषेन्दुशेखरोक्तेऽर्थे ।अभि + अभिमुखीकृत्योपदेशे “यां यामभ्यदिशत् सैनमकाम-यत” पञ्चभीष्मब्रा० १२ ११ ।आ + आज्ञायाम् उपदेशे “अथात आदेशो नेति” वृ० उ०“आदिक्षदादीप्तकृशानुकल्पम्” भट्टिः आदेशशब्दे२१९ पृ० उक्ते अर्थे “धातोः स्थाने इवादेशम्”रघुः ।अनु + + पश्चादादेशे उपदेशे अन्वादेशशब्दे २१९ पृ०उक्ते अर्थे ।प्रति + + निराकरणे “प्रत्यादेशो निराकृतिः” अमरः “ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा” “अन्तःशरीरेष्वपिंयः प्रजानां प्रंत्यादिदेशाविनयं विनेता”रघुः “किमहमेतं जलधरममयं प्रत्यादिशामि” विक्र०वि + + विशेषेणादेशे “समीरणः प्रेरयिता भवेतिव्यादिश्यते केन हुताशनस्य” कुमा०सम् + + सम्यगादेशे “समादिदेशैकवधूर्भवित्री” कुमा० ।उद् + स्वरूपकथने “उद्देशीलक्षणं विभागः परीक्षा चेति”न्यायसमयः उद्देशशब्दे ११७० उक्तेऽर्थे तच्छब्देउदा० प्रश्ने उद्देशकशब्दे दृश्यम् ।उप + अनुशासने उपदेशशब्दे १२१० पृ० उक्तेऽर्थे “उप-दिशति कामिनीनां यौवनमद एव ललितानि” सा० द०“उपदिष्टमिहेच्छामि तापस्यं वीतकलमषाः” भा० उ० १७४ अ०प्रति--उप + उपदेशस्य प्रतिरूपोपदेशे “व्याघिं प्रति प्रत्युपदे-क्ष्यामः” सुश्रु० “यद्यत्प्रयोगविषये भाविकमुपदिश्यतेमया तस्यै तत्तद्विशेषकरणात् प्रत्युपदिशतीव मेवाला” माला० मिनिर् + निर्णयेन देशने कथने “अतुषत् पीठमासन्ने निर-दिक्षच्च काञ्चनम्” भट्टिः उच्चांरणे “निर्दिश्यमान-स्यादेशा भवन्ति” व्या० परिभाषा “षष्ठ्यन्तं निर्दिश्यमा-नमुच्चार्यमाणम्” नागेशभट्टः ।प्रति + निर् + प्रकृतानुरूपनिर्देशे “तदिति प्रकृतं भावलक्षणंप्रतिनिर्दिश्यते” येन पदेन उद्देशस्तेनैव पदेन पनः-कथने उद्देश्यप्रतिनिर्द्देश्ययोरेकपटप्रतिपाद्यत्वेऽपि नकथितपदत्वदोषः अन्यपदेन निर्द्देशे तु प्रत्युत भग्नप्रक्रम-तादोषः यथाह सा० द० “एवमुक्तो मन्त्रिमुख्यैरावणःप्रत्यभाषत” अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैववक्तुमुचितं तेन रावणः प्रत्यवोचतेति पाठो युक्तः ।एवञ्च सति कथितपदत्वदोषः तस्योद्देश्यप्रति-निर्देश्यव्यतिरिक्तविषयत्वात् इह हि वचनप्रति-वचनयोरुद्देश्यप्रतिनिर्देश्यत्वं यथा“उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यत्र ।यदि पदान्तरेण एवार्थः प्रतिपाद्यते तदान्योऽर्थ इवप्रतिभासमानः प्रतीतं स्थगयति यथा वा“ते हिमालयमामन्त्र्य पुनःप्रेक्ष्य शृलिनम् सिद्ध-ञ्चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः” अत्र अश्मै-इति इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःश-ब्दाभ्यां वा परामर्शो युक्तो तच्छब्देन यथा वा“उद्वन्वच्छिन्ना भूः पतिरपां योजनशतम्” अत्र“मिता भूः पत्यापां पतिरपामिति” युक्तः पाठः ।प्रति + प्रतिरूपदेशने “भुजगगतिप्रतिदेशितात्मकृत्यः” भा०शा० ३६७ अ०सम् + सम्यक्कथने सम्यक्तयादेशे वाचा कथने “अभिदूतिकाचिदिति संदिदिशे” माथः “ननु सन्दिशेति सुदृशो-दितया त्रपया किञ्चन किलाभिदधे” माघः “ददौस दयितां भ्रात्रे मालाञ्चाग्र्यां हिरण्मयीम् राज्यंसन्दिश्य भोगांश्च ममार व्रणपीडितः” भट्टिः “अथविश्वात्मने गौरी सन्दिदेश मिथः सखीम्” कुमा०
दिश
त्रि०
दिशति दिश--क देशके विष्णौ
पु०
“चतुरस्वीगभीरात्मा विदिशो व्यादिशो दिशः” विष्णुस०
क्षीरतरङ्गिणी
Sanskrit
दिशँ दिश अतिसर्जने
- (अर्थविवरणम्) अतिसर्जनं त्यागः
दिशति, दिशते क्तिन् (द्र0 3394)-दिष्टिर्वितास्तिः ऋत्विग्दधृग् (3259) इति क्विन्-दिक् नाम्न्यादिशिग्रहोः (3458) णमुल्-नामादेशमामन्त्रयते दिष्टं दैवम् 3
धातुवृत्तिः
Sanskrit
दिशँ दिश (अर्थः) अतिसर्जने
( दिशति दिशते दिदेश दिदेशिथ दिदिशिव दिदिशे दिदिशिरे दिदिशिषे दिदिशिवहे देष्टा देक्ष्यति देक्ष्यते ) "व्रश्च'' इत्यादिना षत्त्वे "षढोः कस्सि'' इति कत्त्वं, (दिशतु दिशताम् अदिशत् अदिशत दिशेत् दिशेत ) आशिषि ( दिश्यात् दिक्षीष्ट अदिक्षत् अदिक्षताम् अदिक्षन् अदिक्षः अदिक्षत अदिक्षाताम् अदिक्षथाः अदिक्षि अदिक्षावहि ) "शल इगुपधात्'' इति क्सः, "क्सस्याचि'' इत्यल्लोपः ( दिदिक्षति दिदिक्षते ) "हलन्ताच्च '' इति कित्त्वम् ( देदिश्यते देदिशीति देदेष्टि देशयति अदीदिशत् दिक् दिशौ दिशः ) "ऋत्विक्'' इत्यादिना क्विनि "क्किन्प्रत्ययस्य कुः'' इति कुत्वं द्वितीयः, पदान्ते तस्य जश्त्वं गकारः, "वावसाने'' इति चर्त्त्वं ककारः कुत्वं जश्त्वे पूर्वत्रासिद्धं, "दिगादिभ्यो यत्'' इति निर्देशात् नापि कुत्वं व्रश्चादिषत्त्वे ऽसिद्धम् षत्वापवादत्वात्तस्य (प्रतिदिशम्) वीप्सायामव्ययीभावः "अव्ययीभावे शरत्प्रभृतिभ्यः'' इति टच् समासान्तः (दिशा) "आपं चापि हलन्तानाम्' इति भागुरिवचनाद् टाप् दिशि भवं (दिश्यम्) "दिगादिभ्यो यत्'' इति यत्, नांमादेशं युध्यते "नाम्न्यादिशिग्रहोः'' इति द्वितीयान्ते नाम्न्युपपदे आदिशेर्धातुसम्बन्धे णमुल् वाक्यं समासो वास्तु, "तृतीयाप्रभृतीनि'' इति समासो विकल्प्यते नामादिश्य युध्यत इति क्त्वापि भवति उक्तं हि--"तृतीयाप्रभृतीनि'' इत्यत्र वृत्तौ सर्वत्रैवास्मिन् णमुल्प्रकरणे क्रियाभेदे सति वासरूपविधिना क्त्वापि (दिष्टं) क्तः ( देष्टिकः) "अस्तिनास्तिदिष्टंमतिः'' इत्यस्त्यादिभ्यो मत्युपादिभ्यो ऽस्येत्यर्थे ठक्, प्रमाणानुपातिनी यस्य मतिरस्ति दैष्टिक इति वृत्तिः, एतच्चाभिधानस्वभावाल्लब्धम् ( दिष्टिः ) संज्ञायां क्तिच् दिशति तमिति ( देशः ) "अकर्तरि कारके'' इति कर्मणि घञ् ( प्रादेशः ) "हलश्च'' इति संज्ञायां करणे घञ् "उपसर्गस्य घञि'' इति दीर्घः (प्रादेशिनी) णिनिः 3
कृदन्तरूपमाला
Sanskrit
1 {@“दिश अतिसर्जने”@} 2 अतिसर्जनम् = त्यागः, दानं च।
देशकः-शिका, देशकः-शिका, 3 दिदिक्षकः-क्षिका, देदिशकः-शिका
4 उपदेष्टा-ष्ट्री, देशयिता-त्री, दिदिक्षिता-त्री, देदिशिता-त्री
5 दिशन्-ती, देशयन्-न्ती, दिदिक्षन्-न्ती
-- देक्ष्यन्-न्ती-ती, देशयिष्यन्-न्ती-ती, दिदिक्षिष्यन्-न्ती-ती
-- दिशमानः, देशयमानः, दिदिक्षमाणः, देदिश्यमानः
देक्ष्यमाणः, देशयिष्यमाणः, दिदिक्षिष्यमाणः, देदिशिष्यमाणः
6 दिक्-दिग्-दिशौ-दिशः, दिशा
-- -- -- 7 दिष्टम्-दिष्टः-दिष्टवान्, देशितः, दिदिक्षितः, देदिशितः-तवान्
8 दिशः, 9 उपदेशी, प्रादेशिनी, देशः, दिदिक्षुः, देदिशः
देष्टव्यम्, देशयितव्यम्, दिदिक्षितव्यम्, देदिशितव्यम्
देशनीयम्, देशनीयम्, दिदिक्षणीयम्, देदिशनीयम्
देश्यम्, देश्यम्, दिदिक्ष्यम्, देदिश्यम्
10 ईषद्देशः-दुर्देशः-सुदेशः
-- -- -- दिश्यमानः, देश्यमानः, दिदिक्ष्यमाणः, देदिश्यमानः
11 देशः, 12 प्रादेशः, सन्देशः, उपदेशः, देशः, दिदिक्षः, देदिशः
देष्टुम्, देशयितुम्, दिदिक्षितुम्, देदिशितुम्
दिष्टिः, 13 दिष्टिः, देशना, दिदिक्षा, देदिशा
देशनम्, देशनम्, दिदिक्षणम्, देदिशनम्
दिष्ट्वा, देशयित्वा, दिदिक्षित्वा, देदिशित्वा
अतिदिश्य, उपदेश्य, प्रदिदिक्ष्य, प्रदेदिश्य
14 नाम्न्यादेशं नामादिश्य वा युध्यन्ते।
देशम् देष्ट्वा देशम् देशयित्वा दिदिक्षम् दिदिक्षित्वा देदिशम्
देदिशित्वा २।
प्रासङ्गिक्यः
01
=>
(८४१)
02
=>
(६-तुदादिः-१२८३। सक। अनि। उभ।)
03
=>
[[१। सन्नन्तात् ण्वुलि, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, ‘व्रश्च--’ (८-२-३६) इत्यादिना षत्वे, ‘षढोः कः सि’ (८-२-४१) इति तकारस्य ककारे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[२। तृचि, ‘व्रश्च--’ (८-२-३६) इत्यादिना शकारस्य षकारे, तकारस्य, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन टकारे रूपम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
05
=>
[[३। शतरि, ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। तस्य शित्त्वेन सार्वधातुकत्वाद् ङिद्वद्भावातिदेशाच्चाङ्गस्य गुणो न। एवं शानजन्तेऽपि ज्ञेयम्।]]
06
=>
[[४। ‘ऋत्विग्दधृक्स्रग्दिगुष्णिग्--’ (३-२-५९) इत्यादिना क्विन्नन्तो निपातितः। तेन, ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति शकारस्य कुत्वम्। व्रश्चादिषत्वस्यापवादोऽयम्। चर्त्वविकल्पः। ‘आपं चैव हलन्तानां यथा वाचा निशा दिशा।।’ इति भागुरिवचनात् स्त्रियां टाब् भवति।]]
07
=>
[[५। दिष्टं = दैवम्। ‘दैवं दिष्टं भागधेयं भाग्यं--’ इत्यमरः। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः।]]
08
=>
[[६। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
09
=>
[[७। ताच्छील्ये, साधुकारिणि वा णिनिप्रत्ययान्तोऽयम्।]]
10
=>
[पृष्ठम्०७४७+ २४]
11
=>
[[१। दिश्यतेऽनेनेति देशः = स्थलम्। ‘अकर्तरि कारके संज्ञायाम्’ (३-३-१९) इति कर्मणि घञ्।]]
12
=>
[[२। प्रदिश्यत इति प्रदेशः = अग्रभागः। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति दीर्घः। तत्र ‘बहुलम्’ इत्युक्तेः प्रादेशः इत्यपि साधुः।]]
13
=>
[[३। दिष्टिः = दैवम्। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्।]]
14
=>
[[४। द्वितीयान्ते नामनि उपपदे, आङ्पूर्वकादस्मात् णमुल् भवति ‘नाम्न्यादिशि- ग्रहोः’ (३-४-५८) इत्यनेन। ‘तृतीयाप्रभृतीन्यन्यतरस्याम्’ (२-२-२१) इति समासविकल्पः।]]