| YouTube Channel

दिव्यचक्षुः (divyacakSuH)

 
शब्दकल्पद्रुमः
Sanskrit
दिव्यचक्षुः, [स्] त्रि, (दिव्यमलौकिकं चक्षुर्यस्य ।)ज्ञानचक्षुः यथा, नीलकण्ठस्तोत्रे ।“नमस्तुभ्यं विरूपाक्ष ! नमस्ते दिव्यचक्षुषे ।”क्ली, ज्ञानात्मकचक्षुः यथा, --“न तु मां शक्यते द्रष्टुमनेनैव स्वचक्षुषा ।दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्
”इति श्रीभगवद्गीतायाम् ११
“अतोदिव्यमलौकिकं ज्ञानात्मकं चक्षुस्तुभ्यं ददामि ।”इति तट्टीकायां श्रीधरस्वामी
*
(दिव्यंस्वर्गीयं मनोज्ञं वा चक्षुः ।) स्वर्गीयचक्षुः ।सुन्दरलोचनम् उपचक्षुः चस्मा इतिभाषा इति लोकप्रसिद्धम्
(पुं, दिव्यं मनोज्ञंचक्षुर्यस्य यद्बा, दिव्यं चक्षुर्ज्ञाननेत्रं यस्मात् ।ऊर्णनाभस्य सूत्रसर्ज्जनग्रहणमवलोक्येश्वरस्यसर्ज्जनसं हरणपरिज्ञानात् तथात्वम् ।) मर्कटः ।इति शब्दमाला
सुगन्धभेदः त्रि, (दिव्येआकाशभूते चक्षुषा यस्य ।) अन्धः (दिव्येसुन्दर चक्षुषी यस्य ।) सुलोचनः इतिमेदिनी से, ६८