| YouTube Channel

दिव्यकुण्डं (divyakuNDaM)

 
शब्दकल्पद्रुमः
Sanskrit
दिव्यकुण्डं,
क्ली,
(दिव्यं पुण्यप्रदत्वादत्युत्कृष्टं कुण्ड-मिति कर्म्मधारयः ।) कामरूपे क्षोभकशैल-पूर्व्वभागस्थपुष्करिणीविशेषः यथा, --“तद्दक्षिणे महाशैलः क्षोभको नाम नामतः ।तस्मिन् गिरौ शिलापृष्ठे वक्त्रे देवी व्यवस्थिता
पञ्चपुष्करिणी नाम्ना पञ्चयोनिस्वरूपिणी ।एकत्र पञ्चभिर्दुर्गायोनिभिः पञ्चवक्त्रकम्
स्थिता रमयितुं तत्र नित्यमेव हिमाद्रिजा ।तच्छैलपूर्व्वभागात्तु कान्ता नाम महानदी
दक्षिणं सागरं याति प्रथमा चोत्तरस्रवा ।दिव्यकुण्डं महाकुण्डं तच्छैलोपत्यकां गता ।संस्थितस्तत्र स्नात्वा तु तां देवीं परिपूजयेत् ।दिव्यकुण्डे नरः स्नात्वा पञ्चपुष्करिणीं शिवाम्
यः पूजयेन्महाभागः योनौ हि जायते
”इति कालिकापुराणे ८१ अध्यायः