| YouTube Channel

दिव्यं (divyaM)

 
Hindi
Hindi
ट्रान्सेंडैंटल
शब्दकल्पद्रुमः
Sanskrit
दिव्यं,
क्ली,
(दिवे वने भवम् दिव + यत् ।)लवङ्गम् इति मेदिनी ये, ३१
हरिचन्द-नम् इति राजनिर्घण्टः
शपथः तद्भेदायथा, दिव्यतत्त्वे बृहस्पतिः ।“धटोऽग्निरुदकञ्चैव विषं कोषश्च पञ्चमम् ।षष्ठञ्च तण्डुलाः प्रोक्ताः सप्तमं सप्तमाषकम्
अष्टमं फलमित्युक्तं नवमं धर्म्मजं स्मृतम् ।दिव्यान्येतानि सर्व्वाणि निर्द्दिष्टानि स्वयम्भुवा
”एषां विवरणं तत्तच्छब्दे केषाञ्चित् परीक्षाशब्देच द्रष्टव्यम्
*
गङ्गाजलस्पर्शपूर्व्वकशपथस्त्रत्रमिथ्याकथने दोषश्च यथा, --“ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनांवरः ।गङ्गातोयं करे कृत्वा स्वीकारञ्च चकार सः
गङ्गातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः ।स याति कालसूत्रञ्च यावद्बै ब्रह्मणो वयः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम्
*
गङ्गाजलादिस्पर्शपूर्व्वकशपथे दोषो यथा ।“तथा गङ्गोदकं ताम्रं गोमयं गोरजस्तथा ।सत्यं वा यदि वासत्यं यदि दिव्यं करोति यः
कर्त्ता रौरवं याति तथा कारयिता प्रिये ! ।उभयोः पुनरावृत्तिर्नरयोनिषु नास्ति वै
तस्यास्ति पुनरावृत्तिर्व्याघ्रशूकरयोनिषु ।दिव्यं कर्त्तुः कारयितुर्जपपूजा वृथा यथा
गायत्त्रीरहितस्यापि नरकञ्चोत्तरोत्तरम्
”इति गायत्त्रीतन्त्रे पञ्चमपटलः