| YouTube Channel

दिवोदासः (divodAsaH)

 
Apte
English
दिवोदासः [divōdāsḥ],
N.
of a reputed Vedic king, father of सुदास
Rv.*
7.18.25.
Wordnet
Sanskrit
Synonyms:
दिवोदासः
noun
पुराणे वर्णितः एकः पुरुषः यः अप्सरसः मेनकायाः गर्भात् जातः।
"दिवोदासः अहल्यायाः पुत्रः आसीत्।"
Synonyms:
दिवोदासः
noun
एकः चन्द्रवंशी राजा यः भीमरथस्य पुत्रः तथा काशीराज्यं शशास।
"दिवोदासः धन्वन्तरेः अवतारः आसीत् इति जनाः मन्यन्ते।"
शब्दकल्पद्रुमः
Sanskrit
दिवोदासः,
पुं,
(दिवः स्वर्गात् दासो दानं यस्मे ।)काशीराजः चन्द्रवंशीयभीमरथराजपुत्त्रः ।इति पद्मपुराणम्
(“अधीत्य चायुषो वेदमिन्द्राद्धन्वन्तरिः पुरा ।आगत्य पृथिवीं काश्याञ्जातो बाहुजवेश्मनि
नाम्ना तु सोऽभवत् ख्यातो दिवोदास इतिक्षितौ
”“वत्स ! वाराणसीं गच्छत्वं विश्वेश्वरवल्लभाम्
तत्र नाम्ना दिवोदासः काशिराजोऽस्तिबाहुजः ।स हि धन्वन्तरिः साक्षादायुर्व्वेदविदांवरः
”“अथ धन्वन्तरिं सर्व्वे वानप्रस्थाश्रमे स्थितम् ।भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम्
काशिराजं दिवोदासं तेऽपश्यन् विनयान्विताः ।स्वागतञ्च इति स्माह दिवोदासो यशोधनः
कुशलं परिपप्रच्छ तथागमनकारणम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
“अथ खलु भगवन्तममरवरमृषिगणवरिवृत-माश्रमस्थं काशिराजं दिवोदासं धन्वन्तरि-मौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य्यगोपुर-रक्षितसुश्रुतप्रभृतय ऊचुः ।”इति सुश्रुते सूत्रस्थाने प्रथमेऽध्याये
)