दिवु (divu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit दिव्
दिवु
क्रीडा-विजिगीषा-द्युति-स्तुति-मोद-मद-स्वप्न-कान्ति-गतिषु
दिवादिः
सकर्मकः
सेट्
परस्मैपदी
दीव्यति
दिव्
दिवु
परिकूजने
चुरादिः
अकर्मकः
सेट्
आत्मनेपदी
देवयते
आकुस्मीयः
धातुप्रदीपः
Sanskritदिवुँ दिवु क्रीडा, विजिगीषा, व्यवहार, द्युति, स्तुति, कान्ति, मोद, मद, स्वप्न, गतिषु
- दीव्यति दिदेव दिदिवतुः दिदेविषति दुद्यूषति देवयति देवः अक्षद्यूः दीव्यन्ती देवित्वा द्यूत्वा द्यूतम् आद्यूनः क्विप्-द्यूः, द्युवौ देवा (1) 1
दिवुँ दिवु परिकूजने
- देवयते परिदेवकः अन्यत्र दीव्यतीति वञ्चुप्रभृतिमुदितं पठन्ति स एवायं धातुरर्थान्तरे चुरादिरित्येवं बोधनार्थम् (20) 157
दिवुँ दिवु अर्द्दने
- देवयति शत्रून् परिकूजने पूर्वं दर्शितः अन्यत्र दीव्यतीति 185
क्षीरतरङ्गिणी
Sanskritदिवुँ दिवु क्रीडा, विजिगीषा, व्यवहार, द्युति, स्तुति, गतिषु
- (अर्थविवरणम्) व्यवहारः क्रयविक्रयादिः
इतः षुहान्ता (418) एकविंशतिः सेटः परस्मैपदिनश्च दिवादिभ्यः श्यन् (3163)-दीव्यति देविता दिवः कर्म च (1443) अक्षान् दीव्यति, अक्षैर्दीव्यति वा दिवस्तदर्थस्य (2358) इति षष्ठी शतस्य दीव्यति सनीवन्तर्ध (7249) इति वेट्-दुद्यूषति, छ्वोः शूडनुनासिके च (6419) इति दिदेविषति द्यूत्वा, देवित्वा न क्त्वा सेड् (1218) इति कित्त्वाभावः अक्षद्यूः पचादौ (गण 31134) देवः, देवी दिवोऽविजिगीषायां (8249) निष्ठानत्वम्-आद्यून औदरिकः विजिगीषायाम्-द्यूतम् वृषादिभ्यश्चित् (उ0 1106) देवलः शकादिभ्योऽटन् (उ0 481)-देवटः दिवेरृन् (तु0 उ0 299)-देवा पत्युः कनिष्ठो भ्राता तथा अर्तिकमिभ्रमि (उ0 3132) इति देवरः कृविघृष्वि (उ0 456) किकीदिविश्चाषः दिवो द्वे दीर्घश्चाभ्यासस्य (उ0 455) इति क्विन्-दीदिविरन्नम् दिवेर्डिव्-द्यौः 1
दिवुँ दिवु परिकूजने
- देवयते गन्त्री दिवादौ (41) दीव्यति भ्वादौ [देवृ] देवने (1334) परिदेवने 173
दिवुँ दिवु अर्दने
- परिदेवयति अन्यत्र दीव्यति (41) चन्द्रो दिवु परिकूजने इत्येव सिद्धिमाह 190
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritदिवुँ दिवु (अर्थः) क्रीडा, विजिगीषा, व्यवहार, द्युति, स्तुति, मोद, मद, स्वप्न, कान्ति, गतिषु
एतदादयो दीङ् पर्यन्ता उदात्ता उदात्तेतः क्षिपिस्त्वनिट् ( अक्षैर्दीव्यति, अक्षान् दीव्यति, दीव्यतः दीव्यन्ति दीव्यामि) "दिवादिभ्यश्श्यन्'' इति श्यन् शपो ऽपवादः "हलि च'' इतीको दीर्घः "दिवः कर्म च'' इति दिवस्साधकतमस्य करणस्य सतः कर्मसंज्ञाविधानाद् अक्षशब्दात् तृतीयाद्वितीये पर्यायेण भवतः संज्ञासमावेशस्य प्रयोजनं मनसा दीव्यति मनसादेवो नाम कश्चिदित्यत्र मनसः कर्मत्वात्तस्मिन्नुपपदे अण्प्रत्ययः, करणत्वात्तृतीया च अत्र तृतीयाया"मनसः संज्ञायाम्'' इत्यनुक् तथाक्षैर्देवयते देवदत्तेनेत्यत्र संज्ञासमावेशेन करणानामेवाक्षाणां कर्मत्वाद् "अणावकर्मकात्'' इति परस्मैपदनियमो न भवति किञ्च "गतिकुद्धि'' इति प्रयोज्यस्य कर्मत्वमपि न भवति ( दिदेव दिदिवतुः, दिदिवुः, दिदिविथ, दिदिविव, दिदिविम देविता देविष्यति दीव्यतु, दीव्यतां, दीव्य, दीव्यानि, ) "अतो हेः'' इति हेर्लुक् ( अदीव्यत्, अदीव्यताम् अदीव्यः, अदीव्यम् दीव्येत्, दीव्येतां, दीव्येयुः दीव्येः, दीव्येयम् ) यासुटि "अतो येयः'' आद्गुणः यलोपो वलि, आशिषि, ( दीव्यात्, दीव्यास्ताम्, अदेवीत्, अदेविष्टाम्, अदेवीः, अदेविषम्, ) "नेटि'' इति न वृद्धिः ( दीव्यत् दीव्यन्ती कुले दीव्यन्ती ब्राह्मणी ) "नपुंसकाच्च'' इत्यौङश्शीभावः ङीप् उभयत्र "शप्श्यनोर्नित्यम्'' इति शीनद्योः परतो नित्यं नुम् ( दिदेविषति ) "सनीवन्त'' इति वेट् अन्यदा "हलन्ताच्च'' इति सनः कित्त्वे "च्छवोश्शूठ्'' इत्यूठि यणादेशे ( दुछूषति देदीव्यते ) ऊठ्द्भाविनां वकारान्तानां यङ्लुक्नास्तीति भूवादौ प्रतिपादितम् (देवयति अदीदिवत् देवः, देवी ) पचादिषु देवडिति पाठाद् इगुपधलक्षणं कं बाधित्वाऽचि टित्वान्ङीप् देवस्यापत्यादि ( दैव्यं दैवं ) "दित्यदित्यादित्य'' इत्यत्र "देवस्य यञञौ'' इति प्राग्दीव्यतीयेष्वर्थेषु यञञौ देवस्येदं ( देवकीयम् ) "गहादिभ्यश्च'' इत्यत्र [ देवस्य चेति वक्तव्यम् ] इति कुगागमच्छप्रत्ययश्च शैषिकः "नूनमस्य दैवानुग्रह' इति भाष्यप्रयोगादञपि भवति देव एव ( देवता ) "देवात्तल्'' इति स्वार्थे तल् स्वभावात्स्त्रीत्वम् दैवतैव ( दैवतम् ) प्रज्ञादित्वाद् अण् [ स्वार्थकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते ] इति पुंनपुंसकत्वम् पितृदेवतायै इदं ( पितृदैवत्यम् ) "देवतान्तात्तादर्थ्ये यत्'' इति यत् ( दैविकम् ) अध्यात्मादित्वाट्ठञ् (आधिदैविकम्) पूर्ववठ्ठञ् "अनुशतिकादीनां च'' इत्युभयपदवृद्धिः देवेषु वसति देवान् गच्छति ( देवत्रा ) "देवमनुष्य'' इत्यादिना त्राप्रत्ययः ( देविका ) देवीशब्दात्संज्ञायां कनि "केऽण'' इति ह्रस्वः देविकायां भवं ( दाविकम् ) देविकाकूले भवाः शालयः ( दाविकाकूलाः ) पूर्वदेविका नाम प्राचां ग्रामः तत्र भवः ( पूर्वदाविकः ) "देविकाशिंशपा'' इत्यादिना देविकाया अचामादेरच आकारः अयं चाकार अद्योरुदाहरणयोः "तद्धितेष्वचामादेः'' इति वृद्धिप्रसङ्गे इतरस्य तु "प्राचां ग्रामनगराणाम्'' इत्युत्तरपदवृद्धिप्रसङ्गे सुदेविकायां भवं ( सौदेविकम् ) इत्यत्र देविकाया अनङ्गादित्वात् समुदायस्याप्राग्ग्रामवाचित्वाच्च नास्ति देविकायां वृद्धेः प्राप्तिरिति वृद्धिप्रसङ्गे विधीयमानोऽयमाकारोऽपि नैव प्रसजति यस्तु ण्वुलन्तः क्रियाशब्दो देविकाशब्दो, न तस्येह ग्रहः, रूढ्या योगस्यापहारात् तेन तत्र दैविकमिति वृद्धिरेव भवति अत्रात्रेयः "देवको नाम क्षत्रियः, संज्ञायां ण्वुल् तस्यापत्यं ( दैवकिः ) अत इञि आदिवृद्धिः "इतो मनुष्यजातेः'' इति ङीष्, दैवकीनन्दनः शौरिः अवृद्धस्त्वयमसाधुः इति ( आदेवकः ) "दैविक्रुशोः'' इति ण्यन्तात् ताच्छील्यादौ वुञि ( देवित्वा, द्यूत्वा, ) "उदितो वा'' इतीड्विकल्पः इटि "न क्त्वा सेट्'' इत्यकित्त्वाद्गुणः, अन्यदा "च्छ्वोश्शूठ्'' इत्यूठि यणादेशः न च वर्णमात्राश्रयत्वेनान्तर्भूताश्रयत्वेन वा ऽन्तरङ्गे यणि बाह्यप्रकृतिप्रत्ययापेक्षस्य बहिरङ्गस्योठः "असिद्धं बहिरङ्गमन्तरङ्गे'' इत्यासिद्धत्वम्
"नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः' इति निषेधात्, अचोरानन्तर्ये यत्रान्तरङ्गे बहिरङ्गे वा विधावाश्रीयते न तत्र "असिद्धं बहिरङ्गमन्तरङ्गे' इति परिभाषा प्रवर्तत इत्यर्थः ( आद्यूनः ) "दिवोऽविजिगीषायाम्'' इति निष्ठानत्वम्, विजिगीषायां तु (द्यूतम्) "यस्य विभाषा'' इत्यनिट्त्वम् अक्षद्यूतेन निर्वृत्तम् (आक्षद्युतिकम्) "निर्वृत्तेऽक्षद्यूतादिभ्यः'' इति ठक् ( शतस्य दीव्यति ) "दिवस्तदर्थस्य'' इति कर्मणि षष्ठीतच्छब्देन व्यवहृपणौ परामृश्येते तदर्थत्वं च द्यूते क्रयविक्रययोश्च ( शतस्य प्रतिदीव्यति, शतं प्रतिदीव्यति) "विभाषेपसर्गे'' इति पूर्वेण नित्यं प्राप्तायां षष्ठ्यां तद्विकल्पः किकीतिदीव्यतीति ( किकीदिविः ) चापः, दीर्घद्वितीयः तथा च निघण्टुः "अथ चापः किकीदिविः' इति "कृविवृष्टिच्छविस्थविकिकीदिविः'' इति किकीशब्दउपपदे क्विनि निपात्यते रत्नकोशानसारिणस्तु दीर्घतृतीयं पठन्ति तैत्तिरीयकेऽपि दृश्यते "श्येनेन किकिदीविना''"छगलं कल्माषं किकिदीविम्' इति दीर्घतृतीयान्त एव ( द्यौः, ) "दिवोर्डिविः'' इति न्यासऊहितसूत्रेण व्युत्पादितम्, "दिव औत्'' इति सौ औत्, यणादेशः ( द्युभ्याम् ) इत्यादौ "दिव उत्'' इति दिवः पदस्योत्वम् शूड्विधौ क्ङिद्ग्रहणाननुवृत्तिवादिनः परोऽप्यूठ् इहाहर्विमलद्यु इत्यत्र सावकाशेनाप्युत्वेन तपरकरणसामर्थ्याद्वाध्यत इति परिहरन्ति दिव्ग्रहणे च धातोस्सानुबन्धकत्वेन न ग्रह इति अक्षद्यूः, अक्षद्युभ्यामित्यत्र क्विबन्ते औत्वोत्वयोर्नैव प्रसङ्गः ( दिव्यम् ) "द्युप्राक्'' इति यत् शैषिकः, "न भकुर्छुराम्'' इति दीर्धनिषेधः ( द्यावाभूमी ) "दिवो द्यावा'' इत्युत्तरपदे द्यावादेशः ( द्यावापृथिव्यौ, दिवस्पृथिव्यौ ) "दिवसश्च पृथिव्याम्'' इत्युत्तरपदे दिवस्भावो द्यावादेशश्च द्यावापृथिव्यौ देवता अस्य ( द्यावापृथिव्यम्, द्यावापृथिवीयम् ) "द्यावापृथिवीशुनाशीर'' इत्यादिना यच्छौ ण्यन्ताद्देवयतेः क्वौ णिलोपे [ क्वौ लुप्तं न स्थानिवत् ] इति स्थानिवत्त्वनिषेधाद् ऊट्ययदेशे दयूरिति भवति ( दय्वौ ) इत्यादौ "ओस्सुपि'' इति यणादेशः द्योरोको येषां ते ( दिवौकसः) अत्र विवदन्दे "दिव उत्''इत्यत्र रक्षितः "उत्त्वे कृते शब्दपरविप्रतिषेधात्तस्य यणि दिवोकस इत्यवृद्धिः'' इति चान्द्रास्तु पूर्ववद्यणि ओकारस्य पृषोदरादित्वाद्वृद्धिमाहुः अन्ये तु दीव्यन्त्यस्मिन्निति ( दिवम् ) [ घञर्थे कविधानम् ] इति कः, तत्र "वृद्धिरेचि'' इति वृद्धिरिति अस्य वृद्धिविषय एव प्रयोग इति केचित् अपरे तु सर्वत्रेति तथा च सुभूतिचन्द्राभ्यां प्रयोगो दर्शितः "मरुत्वता वृत्रवधे यथादिवम्'' इति त्रिदशा दीव्यन्त्यत्रेति ( त्रिदिवः ) पृषोदरादित्वाद् दशशब्दस्य लोपः, पूर्ववत्कः यद्वा ब्रह्मविष्णुमहेश्वरास्त्रयो दीव्यन्त्यत्रेति व्युत्पत्तिः देवते इति देवने शपि गतम् 1
दिवुँ दिवु (अर्थः) परिकूजने
( देवयते परिदेवकः ) "देविक्रुशोश्चोपसर्गे'' इति ताच्छलिको वुञ् अत्र दिव्यतेर्ण्यंन्तस्यास्य ग्रह इति हरदत्तः सम्पृचादौ नानयोः यदाह वृत्तिकारः परिदेविर्भूवादिर्गृह्यतइति अत्र हरदत्तः क्रीडाद्यर्थस्य हेतुमण्ण्यन्तस्य दिषु परिकूजनइत्यस्य चुरादिण्यन्तस्य ग्रहणं न भवति लाक्षणिकत्वादण्यन्तैः साहचर्याच्चेति अत्र मैत्रेयः वञ्चुपव्रभृतिमुदितं पठति, स एवायं धातुरर्थान्तरे चुरादिरित्येवं बोधनार्थमिति, तन्मत ऊदित्त्वं प्रत्यभिज्ञानार्थत्वात् णिचो विकल्पाय न प्रकल्पते, प्रत्यभिज्ञामात्रएव फलेऽनुदित एव पठ्येरन् 172
कृदन्तरूपमाला
Sanskrit1 {@“दिवु क्रीडा-विजिगीषा-व्यवहार-द्युति-स्तुति-मोद-मद- स्वप्न-कान्ति-गतिषु”@} 2 व्यवहारः = क्रयविक्रयादिः।
यथासम्भवं सकर्मकत्वाकर्मकत्वे बोध्ये।
‘अर्दने देवयेत्, दीव्येत् क्रीडादौ, परिकूजने।।
देवयेत, इदितो दिन्वेत्, देवेर्देवेत देवने।’ 3 इति देवः।
देवकः-विका, देवकः-विका, 4 दिदेविषकः-दुद्यूषकः-षिका, 5 देदिवकः-विका
देविता-त्री, देवयिता-त्री, दिदेविषिता-दुद्यूषिता-त्री, देदिविता-त्री
6 7 दीव्यन्-न्ती, 8 9 दीव्यन्, 10 11 दीव्यन्, 12 13 प्रतिदीव्यन्, देवयन्, 14 दिदेविषन्-दुद्यूषन्-न्ती
-- देविष्यन्-न्ती-ती, देवयिष्यन्-न्ती-ती, दिदेविषिष्यन्-दुद्यूषिष्यन्-न्ती-ती
15 व्यतिदीव्यमानः, देवयमानः, 16 व्यतिदिदेविषमाणः-व्यतिदुद्यूषमाणः, 17 देदीव्यमानः
व्यतिदेविष्यमाणः, देवयिष्यमाणः, व्यतिदिदेविषिष्यमाणः-व्यतिदुद्यूषिष्यमाणः, देदिविष्यमाणः
18 अक्षद्यूः-मृगद्यूः- 19 मृगद्युवौ-मृगद्युवः, 20 दयूः-दय्वौ-दय्वः
-- 21 आद्यूनः, 22 द्यूतम्-द्यूतः-द्यूतवान्, देवितः, दिदेविषितः-दुद्यूषितः, देदिवितः-तवान्
23 24 देवः-देवी, 25 मनसादेवः, 26 देवकः-देवकी, 27 देवनः, 28 दीव्यमानः, 29 30 दुद्यूवान्-दिदिवान्, देवः, 31 आदेवकः, 32 परिदेवकः, 33 परिदेवी, दिदेविषुः- 34 दुद्यूषुः
-- देवितव्यम्, देवयितव्यम्, दिदेविषितव्यम्-दुद्यूषितव्यम्, देदिवितव्यम्
35 देवनीयम्, देवनीयम्, दिदेविषणीयम्-दुद्यूषणीयम्, देदिवनीयम्
देव्यम्, देव्यम्, दिदेविष्यम्-दुद्यूष्यम्, देदीव्यम्
ईषद्देवः-दुर्देवः-सुदेवः
-- -- दीव्यमानः, देव्यमानः, दिदेविष्यमाणः-दुद्यूष्यमाणः, देदीव्यमानः
देवः, 36 दिवः-त्रिदिवः, देवः, दिदेविषः-दुद्यूषः, देदिवः
देवनम्, देवनम्, दिदेविषणम्-दुद्यूषणम्, देदिवनम्
37 देवित्वा-द्यूत्वा, देवयित्वा, दिदेविषित्वा-दुद्यूषित्वा, देदिवित्वा
प्रदीव्य, प्रदेव्य, प्रदिदेविष्य-प्रदुद्यूष्य, प्रंदेदीव्य
देवम् २, देवित्वा २-द्यूत्वा २, देवम् २, देवयित्वा २, दिदेविषम् २-दुद्यूषम् २, दिदेविषित्वा २-दुद्यूषित्वा २, देदिवम् २
देदिवित्वा २
38 इत्यनेन क्विन्प्रत्य- यान्तो दीर्घोपधश्च निपातितः।
‘किकि’ इति दीव्यतीति किकिदीविः = चाषः।
‘श्येनेन किकिदीविना’ 39 इति, ‘छगलं कल्माषं किकिदीवि’ इति तैत्तिरीयकप्रयोगाच्च दीर्घतृतीयोऽयं शब्दः, केचित्तु दीर्घद्वितीयं किकीदिविः इत्यपि पठन्ति।]] किकिदीविः, 40 कनिन्प्रत्यये रूपम्।
प्रतिदीव्यतेऽस्मिन् इत्यधिकरणे प्रत्ययः।
प्रतिदिवा = दिवसः।]] प्रतिदिवा, 41 क्विपि, णेर्लुकि, देवयतीति द्यौः = स्वर्गोऽन्तरिक्षं वा।]] द्यौः, 42 इति ष्ट्रन्प्रत्यये, ‘द्यु’ इति प्रकृतेरादेशे वृद्धौ च द्यौत्रम् इति भवति।
दीव्यन्ति तस्मिन् सुकृतिनः इति द्यौत्रम् = त्रिदिवः, विमानं वा।]] द्यौत्रम्, 43 इति कलप्रत्यये, बाहुलकाद् गुणे च रूपम् देवलः = ऋषिः।]] देवलः।
44
01 (८३८)
02 (४-दिवादिः-११०७। सक। सेट्। पर।)
03 (श्लो। १६०-१६१)
04 [[१। ‘सनीवन्तर्ध--’ (७-२-४९) इत्यादिना इवन्तत्वेन सन्नन्ते इड्विकल्पः। इट्पक्षे रूपमेवम्। इडभावपक्षे, ‘च्छ्वोः शूडनुनासिके च’ (६-४-१९) इत्यूठि, यणा- देशे, द्विर्वचने च, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वेन गुणनिषेधः। एवं सन्नन्ते सर्वत्र रूपद्वयस्यापि गतिरिति ज्ञेयम्।]]
05 [[२। यङन्तान्ण्वुलि, अल्लोपयलोपयोः कृतयोः पूर्वखण्डे, ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः। एवमेव यङन्ते सर्वत्र प्रक्रिया ज्ञेया। ‘वकारान्तानामूड्भाविनां यङ्लुक् नास्ति’ इति भाष्यकारवचनात् अस्य धातोः यङन्ते पचाद्यच् न भवति इति ज्ञेयम्।]]
06 [पृष्ठम्०७४२+ २७]
07 [[१। शतरि, ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। ‘हलि च’ (८-२-७७) इति दीर्घः। स्त्रियाम्, ‘शप्श्यनोर्नित्यम्’ (७-१-८१) इति नित्यं नुमागमः। एवं यकि, ल्यपि च दीर्घो ज्ञेयः।]]
08 [अक्षैः, अक्षान् वा]
09 [[२। ‘दिवः कर्म च’ (१-४-४३) इति साधनस्य वा कर्मसंज्ञा। तेन अक्षशब्दात् तृतीयाद्वितीये भवतः।]]
10 [शतस्य]
11 [[३। ‘दिवस्तदर्थस्य’ (२-३-५८) इति कर्मणि षष्ठी। तदर्थः = पूर्वसूत्रोपात्तः व्यवहारः पणश्च।]]
12 [शतस्य शतं वा]
13 [[४। ‘विभाषोपसर्गे (२-३-५९) इति प्रतिपूर्वकादस्मात् कर्मणि कारके षष्ठी।]]
14 [[आ। ‘देहं बिभ्रक्षुरस्त्राग्नौ मृगः प्राणैर्दिदेविषन्।’ भ। का। ५। ५७।]]
15 [[५। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्। गत्यर्थभिन्नेष्वर्थेष्वेव कर्मव्यती- हारो ज्ञेयः।]]
16 [[६। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तात् शानच्।]]
17 [[७। यङन्ताच्छानचि, ‘हलि च’ (८-२-७७) इति दीर्घः। एवं यत्-ल्यप्-प्रभृतिष्वपि ज्ञेयम्।]]
18 [[८। अक्षैः दीव्यतीति अक्षद्यूः। ‘क्विप् च’ (३-४-७६) इति कर्मोपपदात् क्विप्। ऊठ् यणादेशश्च। ‘दिवः कर्म च’ (१-४-४३) इति अक्षशब्दस्य कर्मसंज्ञा। एवं मृगद्यूरित्यत्रापि। द्विवचनादौ उवङ्।]]
19 [[B। {??}]]
20 [[९। ण्यन्तात् क्विपि, णिज्निमित्तके ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति गुणे, वकारस्य ऊठि, अयादेशे च रूपमेवम्। द्विवचनादौ यणादेशः।]]
21 [[१०। ‘दिवोऽविजिगीषायाम्’ (८-२-४९) इति निष्ठानत्वम्। विजिगीषादिषु तु द्यूतम् इत्यादि। सर्वत्र, अस्य धातोरुदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायाम् ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधे, ऊठि यणादेशो भवति।]]
22 [[C। {??}]]
23 [पृष्ठम्०७४३+ २९]
24 [[१। पचादिषु (३-१-१३४) देवट् इति पाठात् इगुपधलक्षणं कप्रत्ययं (३-१-१३५) बाधित्वा अजेव भवति। टित्त्वेन स्त्रियां ‘टिड्ढाणञ्--’ (४-१-१५) इति ङीप्।]]
25 [[२। ‘मनसः संज्ञायाम्’ (६-३-४) इति तृतीयाया अलुक्। अत्र मनश्शब्दस्य ‘दिवः कर्म च’ (१-४-४३) इति कर्मसंज्ञायाम्, ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
26 [[३। संज्ञायाम्, ‘आशिषि च’ (३-१-१५०) इति वुन्। अकादेशः। स्त्रियाम्, ‘पुंयोगादाख्यायाम्’ (४-१-४८) इति ङीष्।]]
27 [[४। अस्य धातोर्व्यवहाररूपार्थे शब्दार्थकत्वाद् अकर्मकत्वाच्च, ‘चलनशब्दार्थादकर्मकाद् युच्’ (३-२-१४८) इति युचि, अनादेशः। देवनः = कितवः।]]
28 [[५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति चानश् प्रत्ययः, न तु शानच्।]]
29 [[आ। ‘दीव्यमानं शितान् बाणानस्यमानं महागदाः।’ भ। का। ५। ८१।]]
30 [[६। ‘पपुष आगतं पपिवद्रूप्यम्’ (भाष्यम् ४-३-२४) इति भाष्यकारप्रयोगात् छान्दसोऽपि क्वसुर्भाषायामपि क्वचिद्भवति। तेन क्वसौ, ऊठ्, यणादेशौ, द्विर्वच- नादिकं च भवन्ति। ‘वकारादौ क्ङिति प्रत्यये परतः ‘च्छ्वोः शूठ्--’ (६-४-१९) इत्यूठ् वा भवति इति केचित्।’ इति प्रक्रियाकौमुदीकार- दर्शितमतानुसारेण, ऊडभावे वलिलोपे च दिदिवान् इति रूपं प्रदर्शितम्।]]
31 [[७। ण्यन्तात्, ‘देविक्रुशोश्चोपसर्गे’ (३-२-१४७) इत्यनेन तच्छीलादिषु कर्तृषु वुञ्- प्रत्यये अकादेशे च रूपम्।]]
32 [[B। ‘प्रावृष्यनैषीत् काकुत्स्थः कथञ्चित् परिदेवकः।।’ भ। का। ७। १३।]]
33 [[८। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेवि--’ (३-२-१४२) इत्यादिना ण्यन्तात् घिनुण्प्रत्यये रूपम्। अयमपि ताच्छीलिकः। ‘परिदेवी--इति देवतेरिदम्। ण्यन्तस्य दीव्यतेस्तु न। लाक्षणिकत्वात्, अण्यन्तसाहचर्यात्, सकर्मकत्वात्, ‘घिनुण् अकर्मकाणाम्’ इति भाष्योक्तेश्च।’ इति बृहच्छब्देन्दु- शेखरे प्रोक्तम् साहचर्यपरिभाषाया अनित्यत्वात्, अस्य धातोरनेकार्थत्वेन, अकर्मकत्वस्य व्यवहारादिष्वर्थेषु सम्भवात्, क्वचिदलाक्षणिकत्वस्यापि बहुल- ग्रहणाच्च अस्यापि धातोः परिदेवीति प्रदर्शितमिति ज्ञेयम्।]]
34 [[ड्। ‘शस्त्रैर्दिदेविषुं संख्ये दुद्यषुः परिघं कपिः।’ भ। का। ९। ३२।]]
35 [पृष्ठम्०७४४+ २९]
36 [[१। ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति घञर्थे = अधिकरणार्थे कप्रत्ययः। कित्त्वेनोपधागुणनिषेधः। दिवः = द्युलोकः। त्रिदशाः दीव्यन्तीत्यधिकरणे कप्रत्यये पृषोदरादित्वेन (६-३-१०९) दशशब्दस्य लोपे त्रिदिवः इति रूपम्। यद्वा, त्रयो देवाः-विष्णुब्रह्मेश्वराः दीव्यन्त्यत्रेति अधिकरणे कप्रत्ययो वा।]]
37 [[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः। इडभावपक्षे ऊडादिषु द्यूत्वा इति रूपमिति च ज्ञेयम्।]]
38 [[३। ‘कृविघृष्विच्छविस्थविदविकिकिदीविः’ [द। उ। १-२६]
39 (ऋग्वेदे १०-९७-१३)
40 [[४। औणादिके [द। उ। ६। ५१]
41 [[५। ण्यन्तात् औणादिके [द। उ। ८-४०]
42 [[६। ‘दिवेर्द्यु च’ [द। उ। ८। ८१]
43 [[७। ‘वृषादिभ्यश्चित्’ [द। उ। ८-१०९]
44 [पृष्ठम्०७४५+ २७]
1 {@“दिवु परिकूजने”@} 2 आकुस्मीयः।
‘अर्दने देवयेद्, दीव्येत् क्रीडादौ, परिकूजने।।
देवयेतेदितो दिन्वेद्, देवेर्देवेत देवने।’ 3 इति देवः।
देवकः-विका, दिदेवयिषकः-षिका
देवयिता-त्री, दिदेवयिषिता-त्री, 4 देवन्-न्ती, -- देवयिष्यन्-न्ती-ती, 5 देवयमानः, दिदेवयिषमाणः, देवयिष्यमाणः, दिदेवयिषिष्यमाणः, 6 दयूः-दय्वौ-दय्वः
देवितः, दिदेवयिषितः- तवान्
देवः, 7 आदेवकः, 8 परिदेवी, दिदेवयिषुः, देवयितव्यम्, दिदेवयिषितव्यम्, देवनीयम्, दिदेवयिषणीयम्
देव्यम्, दिदेवयिष्यम्
ईषद्देवः-दुर्देवः-सुदेवः
देव्यमानः, दिदेवयिष्यमाणः
देवः, दिदेवयिषः, देवयितुम्, दिदेवयिषितुम्
देवना, दिदेवयिषा, 9 देवनम्, दिदेवयिषणम्
देवयित्वा, दिदेवयिषित्वा, 10 देवित्वा-द्यूत्वा
परिदेव्य, प्रदिदेवयिष्य, देवम् २, देवयित्वा २, दिदेवयिषम् २-दिदेवयिषित्वा २
01 (८३९)
02 (१०-चुरादिः-१७०७। अक। सेट्। आत्म।)
03 (श्लो। १६०-१६१)
04 [[१। उदित्करणादस्य धातोर्णिज्विकल्पः। णिजभावपक्षे ‘शेषात् कर्तरि --’ (१-३-७८) इति परस्मैपदं शता। एवं स्यप्रत्ययेऽपि ज्ञेयम्। विशेषविहितानि रूपाणि विना, अन्यानि सर्वाण्यपि पूर्वोक्तदिवुधातुवत् (८३८) णिजभावपक्षे ज्ञेयानि।]]
05 [[२। ‘आकुस्मादात्मनेपदिनः’ (ग। सू। चुरादौ) इत्यात्मनेपदम्।]]
06 [[३। क्विपि, णिज्निमित्तके वृद्धौ, वकारस्योठि अयादेशे च रूपमेवम्।]]
07 [[४। ‘देविक्रुशोश्चोपसर्गे’ (३-२-१४७) इत्यनेन ण्यन्तस्यास्य वुञि रूपमेवम्।]]
08 [[५। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेवि--’ (३-२-१४२) इत्यादिना तच्छीलादिषु कर्तृषु घिनुणि रूपम्।]]
09 [[आ। ‘इत्यादिवाद्यशतदेवनमध्य एव लोकः समालपदगारितकृष्णवीर्यः।’ धा। का। ३। ३७।]]
10 [[६। णिजभावपक्षे, ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे सेटः क्त्वायाः कित्त्वनिषेधाद्गुणः। इडभावपक्षे ऊठि, यणादेशे च रूपम्।]]
1 {@“दिवु मर्दने”@} 2 ‘अर्दने’ इति क्षीरस्वाम्यादयः।
अस्य धातोरुभयपदित्वात् शताऽपि भवतीति विशेषः।
पूर्वलिखितदिवुधातुवत् 3 सर्वाण्यपि रूपाणि।
ज्ञेयानि 4
01 (८४०)
02 (१०-चुरादिः-१७२५। सक। सेट्। उभ।)
03 (८३९)
04 [पृष्ठम्०७४६+ २४]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
