| YouTube Channel

दिविषत् (diviSat)

 
Wordnet
Sanskrit
Synonyms:
देवः, देवता, सुरः, अमरः, निर्जरः, त्रिदशः, सुपर्वा, सुमनाः, त्रिदिवेशः, दिवौकाः, आदितायः, दिविषत्, लेखः, अदितिनन्दनः, ऋभुः, अमर्त्यः, अमृतान्धाः, बर्हिर्मुखा, क्रतुभुक्, गीर्वाणः, वृन्दारकः, दनुजारिः, आदित्यः, विबुधः, सुचिरायुः, अस्वप्नः, अनिमिषः, दैत्यारिः, दानवारिः, शौभः, निलिम्पः, स्वाबाभुक्, दनुजद्विट्, द्युषत्, दौषत्, स्वर्गी, स्थिरः, कविः
noun
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।
"अस्मिन् देवालये नैकाः देवताः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
दिविषत्, [द्]
पुं,
(दिवि सीदतीति सद् +क्विप् सप्तम्या अलुक् षत्वञ्च ।) देवः ।इत्यमरः
(यथा, गीतगोविन्दे ११ ।“सान्द्रानन्दपुरन्दरादिदिविषद्बृन्दैरमन्दादरा-दानम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दी-वरम्
”स्वर्गवासिनि, त्रि यथा, अथर्ववेदे १८ ८० ।“स्वधा पितृभ्यो दिविषद्भ्यः
”)