| YouTube Channel

दिवासप्न (divAsapna)

 
वाचस्पत्यम्
Sanskrit
दिवासप्न
पु०
दिवा दिवसे स्वप्नः दिवानिद्रायाम तद्दोषा-दिंकं दिनचर्य्याशब्दे भावप्र० उक्तमुक्तम् सुश्रुते “सर्वर्त्तुषुदिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् प्रतिषिद्धेष्यपितु बालवृद्धस्त्रीकर्षितक्षतक्षीणमद्यनित्ययानवाहनाध्वकर्मपरिश्रान्तानामभुक्तवतां मेदःस्वेदकफरसरक्तक्षी-णानामजीर्णिनाञ्च मुहूर्त्तं दिवास्वप्नमप्रतिषिद्धं रात्रा-वपि जागरितवतां जागरितकालादर्द्धमिष्यते दिवा-स्वप्नः विकृतिर्हि दिवाखप्नो नाम तत्र स्वपतामधर्मःसर्वदोषप्रकोपश्च तत्प्रकोपाच्च कासश्चासप्रतिश्यायसिरागौरवाङ्गमर्द्दाऽरोचकज्वराग्निदौर्बल्यानि भवन्ति” ।“मृगयाक्षी दिवास्वप्नः परीवादः स्त्रियोमदः तौर्य-त्रिकं वृथाट्या कामजो दशको गणः” व्यसनोक्तौमनुः रसाभियुक्तमन्नं वा दिवास्वप्नञ्च सेवते अप-क्वान्नगते काले स्वयं दोषान् प्रकोपयेत्” भा० आश्व० १७ अ०