| YouTube Channel

दिवाकीर्त्त्य (divAkIrttya)

 
वाचस्पत्यम्
Sanskrit
दिवाकीर्त्त्य
न०
दिवा दिवसे कीर्त्त्यं कीर्त्तनीयम् वर्षसाध्येगवामयने सत्रे द्वयोर्मासषठ्कयोर्मध्ये विषुवन्नामकेएकस्मिन्नहनि गेये सामभेदे तच्च ता० ब्रा० दर्शितंयथा “विषुवानेष भवति” पूर्वोत्तरयोः पक्षसोर्मध्येऽनुष्ठेयंगवायनस्य प्रधानभूतं विषुवदाख्यमहः प्रदशयति एषविषुवान् संवत्सरस्य मध्यतो भवतीत्युपक्रमे अस्मिन्न-हनि सामानि विधत्ते” भा० “दिवाकीर्त्त्यसामा भवति”ता० ब्रा० १२ “दिवाकीर्त्त्यानि शुक्रियाणि सा-मानि तस्मिन् प्रयुज्यन्ते इति दिवाकीर्त्त्यसामा अयविषुवान् दिवाकीर्त्त्यसामा कार्यः” भा० तस्य प्रशंसापूर्वकंतत्र गेयर्चः प्रतीकञ्च दर्शतं यथा“स्वर्भानुर्बा आसुर आदित्यन्तमसाविध्यत्तस्य देवा दिवा-कीर्त्त्यैस्तमोऽपाघ्नन् यद्दिवाकीर्त्यानि भवन्ति तम एवास्मा-दपघ्नन्ति रश्मयो वा एत आदित्यस्य यहृवाकीर्त्यानिरश्मिभिरेव तदादित्यं साक्षादारभन्ते” ता० ब्रा० ।६ १३ “आसुरेण स्वर्भानुना तमसाविद्धस्यादित्यस्य वाधकं तमोऽन्धकारं देवा दिवाकीर्त्त्यैः सामभिरपाघ्नन्व्यनाशयन् अते यद्दिवाकीर्त्त्यान्यस्मिन् भवन्ति तेनतम एवास्मादादित्यादपघ्नन्ति कथमेषां साम्नां तमसो-हननसामर्थ्यमिति चेत् उच्यते दिवाकीर्त्यसामानीतियत् एते आदित्यस्य रश्मयो वै रश्मिरूपा एव अतएषां युक्तमेव तमसो नाशकत्वं तत्तथासति रश्मिभि-रेवादित्य साक्षात् प्रत्यक्षमारभन्ते ये सत्रिणो विषु-वति दिवाकीर्त्यानि प्रयुञ्जत इत्यर्थः दिवाकीर्त्त्यसामभिस्तमसोऽपहननं सामान्येनोक्तं तदेव विवृणोति”भा० “भ्राजाभ्राजे पवमानमुखे भवतो मुण्यत एवास्यतमोऽपघ्नन्ति” ता० ब्रा० १४ “पवमानमुस्वे माध्य-न्दिनार्भवयोः पवमानयोर्मुखे प्रमुखे भ्राजाभ्याजेसामनी भवतः गायत्रस्य नित्यत्वात् ततः परस्तात् क्रमेणभवत इत्यर्थः अस्य प्रत्नामनुद्यूतमिति तृचे गातव्यं सामभ्राजं, तन्माध्यन्दिने पवमानमुखे, “परिस्वानोगिरिष्टाइत्यस्मिन् गेयं साम आभ्राजं तदार्भवपवमानमुखे” भा०