| YouTube Channel

दिवस्पुत्र (divasputra)

 
वाचस्पत्यम्
Sanskrit
दिवस्पुत्र
पु०
दिवः आकाशस्य पुत्रवत् प्रियः दिवः पुरुत्रायते त्रै--क पृषो० वा द्युलोकप्रिये द्युलोकपालकेवा सूर्ये “दिवस्पुत्राय सूर्याय शंसत” यजु० ३५“दिवस्पुत्राय द्युलोकस्य पुत्रवत् प्रियाय द्युलोकाद्धि सूर्योजायते दिवः पुरु त्रायते इति दिवस्पुत्राय दिवःपाल-कायेति” वा वेददी०