| YouTube Channel

दिनचर्य्या (dinacaryyA)

 
वाचस्पत्यम्
Sanskrit
दिनचर्य्या त० भावप्र० उक्ते दिने कर्त्तव्यभेदे यथा“मानवो येन विधिना स्वस्थस्तिष्ठति सर्वदा तमेवकारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम् दिनचर्य्यानिशाचर्य्यां ऋतुचर्यां यथोदिताम् आचरन् पुरुषःस्वस्थः सदा तिष्ठति नान्यथा” तत्र स्वस्थस्य लक्षणःमाह सुश्रुतः “समदोषः समाग्निश्च समधातुमल-क्रियः प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते” ।क्रियात्र कर्म तेन समक्रियः शरीरानुरूपकर्मा तत्रदिनचर्य्यामाह ब्राह्मे मुहूर्त्ते बुद्ध्येत स्वस्थोरक्षार्थमायुषः तत्र दुःखप्रशान्त्यर्थं स्मरेद्धि मधुसू-दनम् दध्यन्नदर्शसिद्धार्थविल्वगोरोचनास्रजाम् ।दर्शनं स्पर्शनं कार्य्यं प्रबुद्धेन शुभावहम् स्वमाननंघृते पश्येत् यदीच्छेत् चिरजीवितम् आयुष्यमुषसिप्रोक्तं मलादीनां विसर्जनम् तदत्र कूजनाध्मानोदर-गौरववारणम् आदिशब्देन वातमूत्रादीनां ग्रहणम् ।आटोपशूलौ परिकर्त्तिका सङ्गः पुरीषल्य तयोर्द्ध-वातः पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहतेनरस्य परिकर्त्तिका गुदे परिकर्त्तनवत्पीडा ।पुरीषस्य सङ्गो निराधः ऊर्द्धवातः उद्गाढबाहुल्यम् ।वातमूत्रपुरीषाणां सङ्गाध्माने क्लमो रुजा जठांवातजाश्चान्ये रोगाःस्यु वातनिग्रहात् वस्तिमेहनयोःशूलं मूत्रकृच्छ्रं शिरोरुजाः विनामो वङ्क्षणानाहस्याल्लङ्गं मूत्रनिग्रहे विनामः शरीरस्य नम्रता वङ्क्षस्नानाहः वङ्क्षणस्याकर्षणवत्पीडा वेगितोऽन्य-कार्य्यः स्यान्न वेगान् धारयेद् बलात् कामशोकभ-यक्रोधान् मनोवेगान्विधारयेत् गुदादिमलमार्गाणांशौचं कान्तिबलप्रदम् पवित्रकरमाख्यानमलक्ष्मीक्लिपापहृत् प्रक्षालणं मतं पाण्याः पादयोः शुद्धिकार-णम् मलश्रमहरं वृष्यं चक्षुपां राजसापहम् ।दन्तकाष्ठविधिः भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम् ।कनिष्ठिकाग्रवत् स्थूलभृज्वग्रन्धि तथाऽव्रणम् एकैकंघर्षयेद्दन्तं मृदुना कूर्चकेन तु दन्तशोधनचूर्णेन दन्त-मांसान्यबाधयन् क्षौद्रत्रिकटुकाक्तेन तैलसिन्धुभवेनवा चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोघयेत् तेजो-वती (तेजवल्कल) इति लोके प्रसिद्धा मधूको मधुरेश्रेष्ठः करञ्जः कटुके तथा निम्बं स्यात्तिक्तके श्रेष्ठःकषाये स्वदिरस्तथा समयन्तु समालोक्य दोषञ्च प्रकृतिंतथा यथोचितैरसैर्वीर्य्यैर्युक्तं द्रव्यं प्रयोजयेत् ।तेनास्य मुखवैरस्यदन्तजिह्वास्यजा गदाः रुचिवैशद्यलघुता भवन्ति भवन्ति अर्के वीर्य्यं वटे दीप्तिःकरञ्जे विजयो भवेत् प्लक्षे चैवार्थसम्पत्तिर्वदर्य्यांमधुराशनम् खदिरे मुखसौगन्ध्यं बिल्वे तुविपुलं धनम् उदम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेवच कदम्बे तु धृतिर्मेधा चम्पके दृढवाक्श्रुतिः ।शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव अपामार्गेधृतिर्मेधा प्रज्ञाशक्तिस्तथासने दाडिम्यां सुन्दराकारःककुभे कुटजे तथा जातीतगरमन्दारैर्दुःस्वप्नञ्च विन-श्यति गुञ्जाकातालहिन्तालं केतकश्च वृहच्छरः ।खर्जूरं नारिकेलञ्च सप्तैते तृणराजकाः तृणराजसमुत्पन्नं यः कुर्य्याद् दन्तधावनम् नरश्चाण्डालयोनिःस्याद्यावद्गङ्गान्न पश्यति खादेद् गलताल्वोष्ठजिह्वादन्तगदेषु तत् मुखस्य पाके शोथे श्वासकासवमीषु दुर्बलो जीर्णभुक्तश्च हिक्वामूर्च्छामदा-न्वितः शिरोरुजार्त्तस्तृषितः श्रान्तः पानक्लमान्वितः ।अर्द्दितः कर्णशूली नेत्ररीगी नवज्वरी वर्ज्जयेद्दन्त-काष्ठन्तु हृदामययुतोऽपि अजीर्णभुक्तः जीर्णंभुक्तं यस्य सः जिह्वानिर्लेखनं हैमं राजतं ताम्रजंतथा पाटितं मृदु तत् काष्ठं मृदुपत्रमयं तथा तत्काष्ठं दन्तशोधनयोग्यं काष्ठम् दशाङ्गुलं मृदु स्निग्धंतेन जिह्वां लिखेत् सुखम् तज्जिह्वामलवैरस्वदुर्गन्धजडताहरम् गण्डूषमपि कुर्वीत शीतेन पयसामुहुः कफतृष्णामलहरं मुखान्तःशुद्धिकारकम् ।मुखोष्णोदकगण्डूषः कफारुचिमलापहः दन्त-जाड्यहरश्चापि मुखलाघवकारकः विषमूर्च्छागदा-र्त्तानां शोषिणां रक्तपित्तिनाम् कुपित्ताक्षिमलक्षीणरूक्षाणां शस्यते मुखोष्णोदकगण्डूषो यथा“मुखप्रक्षालणं शीतपयसा रक्तथित्तजित् मुखस्यपीडि-काशोषनीलिकाव्यङ्गनाशनम् कुर्य्याद्वापि कटूष्णेनपयसास्यविशोधनम् कफवातहर स्निग्धं मुख-शोबविनाशनम् कटुतैलादि नस्यार्थे नित्याभ्यासेनयोजयेत् प्रातः श्रेष्मणि मध्याह्णे पित्ते सायं समी-रणे सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रियाः ।निर्बलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः सौवीरमञ्जनंनित्यं हितमक्ष्खोस्ततो भजेत् लोचने भवतस्तेनमनोज्ञे सूक्ष्मदर्शने सौवीरं (श्वेतसुरमा) दति लोकेप्रसिद्धम् स्रोतोऽञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भ-वम् दृष्टेः कण्डूयनहरं दाहक्लेदरुजापहम् ।अक्ष्णोरूपावहञ्चैव सहते मारुतातपौ नेत्रे रोगा नजायन्ते तस्मादञ्जनमाचरेत् स्रोतोऽञ्जनं (कृष्णसुरमा)इति लोके विशुद्धं शोधनं विनापि सिन्धुसम्भवम्सिन्धुर्नाम पर्वतः तत्र सम्भवम् रात्रौ जागरितःश्रान्तः छर्द्दितो भुक्तवांस्तथा ज्वरातुरः शिरःस्नातोनाक्ष्णोरञ्जनमाचरेत् पञ्चरात्रान्नखश्यश्रुकेशरोमाणिकर्त्तयेत् केशश्मश्रुनखादीनां कर्त्तनं सम्प्रसाधनम् ।वौष्टिकं घनमायुष्यं शौचकान्तिकरं परम् सम्प्र-साधनम् शोभाजनकम् उत्पाटयेत्तु लोमानिनासायाः कदाचन तदुत्पाटनतो दृष्टेर्दौर्बल्यंत्वरया भवेत् केशपाशे प्रकुर्वीत प्रसाधग्या प्रसाधनम् ।केशप्रसाधनं केश्यं रजोजन्तुमलापहम् आदर्शा-लोकनं प्रोक्तं माङ्गल्यं कान्तिकारकम् पौष्टिकबल्यमायुष्यं पापालक्ष्मीविनाशनम् लाघवं कर्म-सामर्थ्यं विभक्तघनगात्रता दोषक्षयोऽग्निवृद्धिश्चव्यायामादुपजायते व्यायामे दृढगात्रस्य व्याधिर्नास्तिकदाचन विरुद्धं वा विदग्धं वा मुक्तं शीध्रं विप-च्यते भवन्ति शीघ्रं नैतस्य देहे शिथिलतादयः नचैनंसहसाक्रम्य जरा समधिरोहति चास्ति सदृशन्तेनकिञ्चित् स्थौल्यापकर्षकम् सदा गुणमाधत्ते बलिनांस्निग्धभोजिनाम् वसन्ते शीतसमये सुतरां हितोमतः अन्यदापि कर्त्तव्यो बलार्द्धेन यथाबलम् ।हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते मुखञ्च शोषंलभते तद् बलार्द्धस्य लक्षणम् किं वा ललाटे नासायांगात्रसन्धिषु कक्षयोः यदा सञ्जायते स्वेदो बलार्द्धन्तुतदादिशेत् भुंक्तवान् कृतसम्भोगः कासी श्वासी कृशः-क्षयी रक्तपित्ती क्षती शोषी तं कुर्य्यात् कदाचन ।अतिव्यायामतः कासो ज्वरः छर्द्दिः श्रमः क्लमः तृष्णा-क्षयः प्रतमको रक्तपित्तञ्च जायते अभ्यङ्गं कारये-न्नित्यं सर्वेष्वङ्गेषु पुष्टिदम् शिरःश्रवणपादेषु तंविशेषेण शीलयेत् सार्षपं गन्धतैलञ्च यत्तैलं पुष्प-वासितम् अन्यद्रव्ययुतं तैलं दुष्यति कदाचन ।गन्धतैलम् गन्धद्रव्याणामगुर्वादीनामग्नियोगेन निष्का-शितः स्नेहः अभ्यङ्गो वातकफहृच्छ्रमशान्तिबलंसुखम् निद्रावर्णमृदुत्वायुः कुरुते देहपुष्टिकृत् ।अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रियतर्पकः दृष्टिपुष्टि-करो हन्ति शिरोभूमिगतान् गदान् केशानां बहुतांदार्ढ्यं मृदुतां दीर्घतां तथा कृष्णतां कुरुते कुर्य्या-च्छिरसः पूर्णतामपि कर्णरोगान्न मलं मन्या-हनुग्रहः नोच्चैःश्रुतिर्न व्याधिर्य्यं खालित्यं कर्ण-पूरणात् रसाद्यैः पूरणं कर्णे भोजनात् प्राक् प्रश-स्यते तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ।पादाभ्यङ्गश्च तत्स्थैर्य्यं निद्रादृष्टिप्रसादकृत् पादसुप्तिश्रषस्तम्भसङ्कोचस्फुटनप्रणुत् व्यायामक्षुण्णवपुषं पद्भ्यांसमर्दितं तथा व्याधयोनोपसर्पन्ति वैनतेयमिवोरगाः ।लोमकूपं शिराजालं धमनीभिः कलेवरैः तर्पयेद्बल-माधत्ते स्नेहयुक्तावगाहने अद्भिः संसिक्तमूलानांतरूणाम्पल्लवादयः वर्द्धन्ते हिं तथा नृणां स्नेह-संसिक्तधीस्तवः नवज्वरी अजीर्णी नाभ्यञ्जेत कथ-ञ्चन तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः ।निरूढः दत्तो निरूहवस्तिः यस्मै सः पूर्वयोः कृच्छ्रताव्याधेरसाध्यत्वमथापि वा शोषाणां नत्विह प्रोक्ताबह्निसादादयो गदाः पूर्बयोः तरुणज्वरिणोऽजीर्णि-नश्च उद्बर्त्तनङ्कफद्वरं मेदोघ्नं शुक्रदम्परम् बल्यंशोणितकृच्चापि त्वकप्रमादमृदुत्वकृत् मुखलेपात् दृढंचक्षुः पीनोगण्डस्तथाननम् कान्तमव्यङ्गपिडकं भवे-त्कमलसन्निभम् दीपनं वृष्यमायुष्यं स्नानमोजोबलप्रदम् कण्डूमलश्रमखेदतन्द्रातृड्दाहपाकनुत् ।बाह्यैश्च सेकैः शीताद्यैरूम्मान्तर्याति पीडितः नरस्यस्नातमात्रस्य दीप्यते तेन पावकः शीतेन पयसा स्नानंरक्तपित्तप्रशान्तिकृत् तदेवोष्णेन तोयेन बल्यं वात-कफापहम् शिरःस्नानमचक्षुष्यमत्युष्णेनाम्बुनासदा वातश्लेष्मप्रकोपे तु हितन्तच्च प्रकीर्त्तितम् ।“अशीतेनाम्भसा स्नानं पयःपानन्नवाः स्त्रियः एतद्वोमानवा! पथ्यं स्निग्धमल्पञ्च भोजनम् ।” हरिश्चन्द्र-स्यैतत् यः सदामलकैः स्नानं करोति विनिश्चितम् ।बलीपलितनिर्मुक्तो जीवेद्वर्षशतन्नरः स्नानं ज्वरेऽ-तिसारे नेत्रकर्णानिलार्त्तिषु आध्मानपीनसाजीर्ण-मुक्तवत्सु गर्हितम् स्नानस्यानन्तरं सम्यग्वस्त्रेणा-ङ्गस्य मार्जनम् कान्तिप्रदं शरीरस्य कण्डूत्वग्दोष-नाशनम् कौशेयौर्णिकवस्त्रञ्च रक्तवस्त्रन्तथैव ।वातश्लेष्महरन्तत्तु शीतकाले विधारयेत् कौशेयंपट्टाम्बरम् तसरवस्त्रञ्च मेध्यं सुशीतम्पित्तघ्नं कषायंवस्त्रमुच्यते तद्धारयेदुष्णकाले तत्रापि लघु शस्यते ।कषायं (कोमुकी) इति लोके कषायरागरक्तं वा शुक्लन्तुशुभदं वस्त्रं शीतातपनिवारणम् नचोष्णन्न वाशीतन्तत्तु वर्षासु धारयेत् यशस्यङ्काम्यमायुष्यं श्रीम-दानन्दवर्द्धनम् त्वच्यं वशीकरं रुच्यं नवं निर्मल-मम्बरम् काम्यं कामोद्दीपकम् कदापि जनैःसद्भिर्धार्य्यम्मलिनमम्बरम् तत्तु कण्डूकृमिकरं ग्लान्य-लक्ष्मीकरम्परम् अलक्ष्मीः अशोभा हारिद्र्यञ्च ।कुङ्कुमञ्चन्दनञ्चापि कृष्णागुरु मिश्रितम् उष्णवातकफध्वंसि शीतकाले तदिष्यते चन्दनं घनसारेणवालकेन मिश्रितम् सुगन्धि परमं शीतमुष्णकालेप्रशस्यते घनसारः कर्पूरः बालकं ह्रीवेरम् चन्दनंघुसृणोपेतं मृगनाभिसमायुतम् चोष्णं नच वाशीतं वर्षाकाले तदिष्यते घुसृक्षं कुङ्कुमम् मृग-नाभिः कस्तूरी अनुलेपस्तृषामूर्च्छादुर्गन्धस्वेद-दाहजित् सौमाग्यतेजस्त्वग्वणप्रीत्योजोबलबर्द्धनः ।स स्नानानर्हलोकानामनुलेपोऽपि नो हितः सुगन्धि-पुष्पपत्राणां धारणङ्कान्तिकारकम् पापरक्षोग्रहहरंकामदं श्रीविबर्द्धनम् भूषणैर्भूषयेदङ्गं यथायोग्यंविधानतः शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् ।ग्रहरिष्टिहरं पुष्टिकरं दुःसप्ननाशनम् पापदौर्माग्य-शमनं रत्नामरणधारणम् माणिक्यंन्तरणेः सुजात्य-ममलं मुक्ताफलम् शीतगोर्माहेयस्य विद्रुमोनिगदितःसौम्यस्य गारुत्मतम् देवेज्यस्य पुष्परागमसुरा-चार्य्यस्य वज्र शनेः नीलन्निर्मलमन्ययोश्च गदिते गोमेद-वैदूर्य्यके वासःशृङ्गाररत्नानां धारणं प्रीतिवर्द्ध-नम् रक्षोघ्नमर्थ्यमौजस्यं सौभाग्यकरमुत्तमम् सततंसिद्धमन्त्रस्य महौषध्यास्तथैव रोचनासर्षपादीनांमाङ्गल्यानाञ्च धारणम् आयुर्लक्ष्मीकरं रक्षोहरंमङ्गलदं शुभम्! हिंस्नादिभयविध्वंसि वशीकरणकार-णम् ततो भोजनवेलायां कुर्य्यात्माङ्गल्यदर्शनम् ।तस्य प्रदर्शनन्नित्यमायुर्धर्मविवर्द्धनम् लोकेऽस्मिन्मङ्ग-लान्यष्टौ ब्राह्मणो गौर्हुताशनः पुष्पस्रक्सर्पिरादित्यआपो राजा तथाष्टमः पादुकारोहणङ्कुर्य्यात् पूर्बंभोजनतः परम् पादरोगहरं वृष्य चक्षुष्यञ्चायुषोहितम् शरीरे जायते नित्यं वाञ्छा नॄणाञ्चतुर्विधा ।वुक्षुक्षा पिपासा सुषुप्सा रतिस्पृहा भोजने-च्छाविघातात् स्यादङ्गमर्दोऽरुचिः श्रमः तन्द्रालोचन-दौर्बल्यं धातुदाहो बलक्षयः विघातेन पिपासायाःशोषः कण्ठास्ययोर्मवेत् श्रवणस्यावरोधश्च रक्तशोषोहृदि व्यथा निद्राविघाततो जृम्भा शिरोलोचनगौरवम् ।अङ्गमर्दस्तथा तन्द्रा स्यादन्नापाक एव बुभुक्षितो नयोऽश्नाति तस्याहारेन्धनक्षयात् मन्दीभवति कायाग्निर्यथा चाग्निर्निरिन्धनः आहारं पचति शिखी दोषा-नाहारवर्जितः पचति दोषक्षये धातून् धातुक्षयेच प्राणान् आहारः प्रीणनः सद्यो बलकृद्दे हधार्तणः ।स्मृत्यायुःशक्तिवर्णौजःसत्वशोभाविबर्द्धनः यथोक्त-गुणसम्पन्नं नरः सेवेत भोजनम् विचार्य्य दोषकाला-दीन् कालयोरुभयोरपि उभयोः कालयोः प्रातः-सायञ्च तथा सायं पातर्मनुष्याणामशनं श्रुतिबो-धितम् नान्तरा भोजनङ्गुर्य्यादग्निहोत्रसमोविधिः ।प्रातः प्रथमयामादुपरि द्वितीययामादर्वाक् तथा ।“याममध्ये भोक्तव्य यामयुग्मं लङ्घयेत् याममध्येरसोत्पत्तिर्य्यामयुग्माद् बलक्षयः” अन्यच्च “क्षुत् सम्भ-वति पक्वेषु रसढोषमलेषु काले वा यदि वाऽकालेसोऽन्नकाल उदाहृतः” रसादीनां पाकज्ञानमाहउद्गारशुद्धिरुत्साहो येगात्सर्गो यथोचितः लघुता क्षुत्पि-पासा जीर्णाहारस्य लक्षणम् स्थानमाह आहारन्तुनरः कुर्य्यान्निर्हारमपि सर्वदा उभाभ्यां लक्ष्म्युपेतःस्यात् प्रकाशें हीयते श्रियाः निर्हारो मलमूत्रोत्सगः ।आहांरनिर्हारविहारयोगाः देव सद्भिर्विजने विधेयाः” ।अतः परम आहारविधिः आहारशब्दे सुश्रुतोक्तःउक्तप्रायः ।आहारानन्तर कृत्यजातञ्च भावप्रकाशे दर्शितं यथा“एवं भुक्त्वा समाचामेद्रूक्षग्रहणपूर्वकम् भोजने दन्त-लग्नानि निर्हृत्याचमनं चरेत् दन्तान्तरगतं चान्नंशोधनेनाहरेत् शनैः कुर्य्यादनिर्हृतं तद्धि मुखस्यांनिष्ट-गन्धताम् दन्तलग्नमनिर्हार्य्यं लेपं मन्येत दन्ववत् ।न तत्र बहुशः कुर्य्यात् यत्नं निर्हरणं प्रति आचम्यजलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत् भुक्त्वा चसंस्मरेन्नित्यमगस्त्यादीन् सुखावहान् विष्णुरात्मातथैवान्नं परिणामश्च वै यथा सत्येन तेन मद्भुक्तंजीर्य्यत्वन्नमिदन्तथा अगस्तिरग्निर्वडवानलश्च भुक्तंममान्नं ज्वरयत्वशेषम् सुखञ्च मे तत्परिणामसम्भवंयच्छन्त्वरोगं मम चास्तु देहम् अङ्गारकमगस्तिञ्चपावकं सूर्य्यमश्विनौ पञ्चैतान् संस्मरेन्नित्यं भुक्तंतस्याशु जीर्य्यति इत्युच्चार्य्य स्वहस्तेन परिमार्ज्यतथोदरम् अनायासप्रदायीनि कुर्य्यात् कर्म्माण्य-तन्द्रितः अतन्द्रितः निरन्तरं जाग्रत् तिष्ठेन्नतु स्वप्यात् ।“भुक्तमात्रस्य तु स्वप्नाद्धन्त्यग्निं कुपितः कफः” इति वच-नात् जीर्णेऽन्ने वर्द्धते वायुर्विदग्धे पित्तमेधते ।भुक्तमात्रे कफश्चापि क्रमोऽय भोजनोपरि विदग्धंकिञ्चित् पक्वं किञ्चिदपक्वम् ततः परं भुक्तमात्रे सञ्जा-तस्य कफस्य प्रतीकारोपाय ताम्बूलादिभक्षणम् तत्रोक्तंतच्च ताम्बूलशब्दे ३२०७ पृ० उक्तम् खदिरगुणादिं चतत्रोक्तं खदिरशब्दे २४६४ पृ० उक्तम् ततः कृत्य-शेषास्तत्रोक्ता यथा“भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते अङ्ग-सङ्घातशैथिल्यं ग्रीवाजानुकटीमुखम् भुक्तोपविशत-स्तन्द्रा शयानस्य तु पुष्टता आयुश्चङ्क्रममाणस्य मृत्यु-र्धावति धावतः चङ्क्रममाणस्य पदशतं शनैर्गच्छतः ।श्वासानष्टौ समुत्तानस्तान् द्विः पार्श्वे तु दक्षिणे ।ततस्तद्द्विगुणान् वामे पश्चात् स्वप्याद् यथासुखम् ।वामदिशायामनली नाभेरूर्द्धेऽस्ति जन्तूनाम् तस्मात्तुवामपार्श्वे शयीत भुक्तः प्रपाकार्थम् त्रिदोषशमनीखट्वा तूली वातकफापहा भूशय्या वृंहणी वृष्याकाष्ठपट्टी तु वातला अन्यः पुनराह “भूशय्यावातलातीव रूक्षा पित्तास्रनाशिनी सुशय्या शयनंहृद्यं पुष्टिनिद्राधृतिप्रदम श्रमानिलहरं वृष्यं विप-रीतमतोन्यथा” संवाहनं मांसरक्तत्वकप्रसादकरंपरम् प्रीतिनिद्राकरं वृष्य कफवातश्रमापहम् ।प्रवातरौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत् स्वेदमूर्च्छा-पिपासाघ्नमप्रवातमतोऽन्यथा सुखं प्रवातं सेवेतग्रीष्मे शरदि चान्तरा निर्वातमायुषे सेव्यमारोग्यायच सर्वदा पूर्वोऽनिलो गुरुः सोष्णः स्निग्धःपित्तास्रदूषकः विदाही वातलः श्रान्तिकफशोषवतांहितः स्वादुः पटुरभिष्यन्दी त्वग्दोषार्शोविष-कृमीन् सन्निपातं ज्वरं श्वासमामवातञ्च कोपयेत् ।स्वादुर्भक्ष्यद्रव्येषु बाहुल्येन मधुररसजनकः दक्षिणःपवनः स्वादुः पित्तरक्तहरो लघुः वीर्य्येण शीतलोबल्यश्चक्षुष्यो तु वातलः पश्चिमः पवनस्तीक्ष्णःशोषणो बलहृल्लघुः मेदःपित्तकफध्वसी प्रभञ्जन-विवर्द्धनः उत्तरो मारुतः शीतः स्निग्धो दोषप्रकोप-कृत् क्लेदनः प्रकृतिस्थानां बलदो मधुरो मृदुः ।दोषप्रकोपकृत् आतुराणाम् आग्नेयो दाहकृद्रूक्षोनैरृतो विदाहकृत् वायव्यस्तु भवेत्तिक्त ऐशानःकटुकः स्मृतः विष्वग्वायुरनायुष्यः प्राणिनां बहुरोग-कृत् अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे व्यजन-स्यानिली दाहस्वेदमूर्च्छाश्रमापहः तालवृन्तभवोवातस्त्रिदोषशमको मतः वंशव्यजनजस्तूष्णो रक्त-पित्तप्रकोपणः चामरो वस्त्रसम्भूतो मायूरो येत्रज-स्तथा एते दोषजिता वाताः स्निग्धाः हृद्याः सुपू-जिताः दिवास्वापं कुर्वीत यतोऽसौ स्यात् कफा-पहः ग्रीष्मवर्ज्येषु कालषु दिवास्वप्नो निषिध्यते ।उचितो हि दिवास्वप्नो नित्यं येषां शरीरिणाम् ।वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा व्यायाम-प्रमदाध्ववाहनरतान् क्लान्तानतीसारिणः शूलश्वास-वतस्तृषापरिगतात् हिक्कामरुत्पीडितान् क्षीणान्क्षीणकफान् शिशून् मदहतान् वृद्धान् रसाजीर्णिनोरात्रीजागरितान्नरान्निरशनान् कामं दिवा स्वापयेत् ।दिवा वा यदि वा रात्रौ निद्रा सात्मीकृता तु यैः ।न तेषां स्वपतां दोषो जाग्रतां चोपजायते स्वपतांदिवा जाग्रतां रात्रौ भोजनानन्तरं निद्रा वातंहरति पित्तहृत् कफं करोति वपुषः पुष्टिसौख्यन्तनोतिहि शयनं पित्तनाशाय वातनाशाय मर्द्दनम् वमनंकफनाशाय ज्वरनाशाय लङ्घनम् आसीनं चूर्णितंयत्तु नाभिष्यन्दि रूक्षणम् अपरानप्युदरेऽन्नस्यसंस्थापनहेतूनाह शब्दान् स्पर्शांश्च रूपाणि रसान्गन्धान् मनःप्रियान् भुक्तवानपि सेवेत तेनान्नंसाधु तिष्ठति उदरे इति विशेषः अन्नस्योदरे-ऽस्थितिहेतूनाह शब्दः स्पर्शस्तथा रूपं रसो गन्धोजुगुप्सितः भुक्तमप्रयतञ्चान्नमतिहास्यञ्च वामयेत् ।अप्रयतमपवित्रम् अन्यदपि वर्ज्जनीयमाह शयनंचासनञ्चाति भजेन्न द्रवाधिकम् नाग्न्यातपो नप्लवनं यानं नापि वाहनम् प्लवनं बाहुभ्यां जल-पतरणं यानं मार्गे चलनं, वाहनमश्वादि व्यायामञ्चव्यवायञ्च धावनं यानमेव युद्ध गीतञ्च पाठञ्चमुहूर्त्तं भुक्तवांस्त्यजेत् परिवर्जनार्थमजीर्णस्य हेतू-नाह अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्न-विपर्य्ययाच्च कालेऽपि सात्म्यं लघु चापि भुक्तमन्नंन पाकं भजते नरस्य ईर्ष्याभयक्रोधसमन्वितेन लुब्धेनरुग्दैन्यनिपीडितेन विद्वेषयुक्तेन सेव्यमानमन्नंन सम्यक् पारिपाकमेति सन्धारणात् अधोवात-मलमूत्रादीनाम् अध्यशनलक्षणमाह अजीर्णेभुज्यते यत्तु तदध्यशनमुच्यते तन्निवारयन्नाहप्राग्मुक्ते चानले मन्दे द्विरह्नो समाचरेत् अस्याय-मर्थः प्रातर्भुक्तेऽजीर्णे सति अहन्येव पुनर्न भुञ्जीतइत्यर्थः रात्रौ पुनस्तथापि सति भुञ्जीतैव यतआह सुश्रुत एव “प्रातराशे त्वजीर्णे तु सायमाशे तुदुष्यति पूर्वभुक्ते विदग्धेऽन्ने मुञ्जानो हन्तिपावकम्” अस्य त्वयमर्थः पूर्वं भुक्ते रात्रिभुक्तेअन्ने विदग्धे किञ्चित् पक्वे प्रातर्भुञ्जानः पावकं हन्ती-त्यर्थः यत आह “सायमाशे त्वजीर्णे तु प्रातर्भुक्तविषोपममिति” सायमाशाजीर्णे भोजनीपायमाहभवेद्यदि प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम् ।विचूर्णितां शीतजलेन युक्तां भञ्जीत चान्नं मितमन्नकाले ।आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम् अवशोयदि सेवेत तदा ग्रीष्मवसन्तयोः अवशः अजितेन्द्रियः ।आस्या (स्थितिः) वर्णकफस्थौल्य सौकुमार्य्यसुखप्रदा अ-ध्वा(गतिः)वर्णकफस्थौख्यसौकुमार्य्यविनाशनः यत्तुचङ्क्रमणं नातिदेहपीडाकरं भवेत् तदायुर्बलमेधाग्नि-प्रदमिन्द्रियरोधनम उष्णीषं कान्तिकृत् केश्यं रजोवातकफापहम् लघु तच्छस्यते यस्मादगुरु पित्ताक्षि-रोगकृत् उपानद्धारणं नेत्र्यमायुष्यं पादरागहृत् ।सुखप्रचारमोजस्यं वृष्यञ्च परिकीर्त्तितम् पादाग्या-मनुपानद्भ्यां सदा चङ्कुमणं नृणाम् अनारोग्यसनायुष्यनिन्द्रियघ्नमदृष्टिदम् छत्रस्य धारणं वर्षातप्वातरजोऽपहम् हिमघ्नं हितमक्ष्णोश्च माङ्गल्यमपिकीर्त्तितम् सत्वोत्साहबलस्थैर्य्यधैर्य्यतेजोविवर्द्धनम् ।अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम् कर्षाच्छादनसंयुक्ता शिविका सर्ववल्लभा तस्यामारोहणं नॄणांत्रिदोषशमकं मतम् वातश्लेष्मगदार्त्तानामहिताभ्रमकृत्तरिः पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्टि-वर्द्धनः घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम् ।मेदोवर्णकफघ्नञ्च हितं तद्बलिनां परम् आतपस्वेदमूर्च्छास्रपित्ततृष्णाक्लमश्रमान् दाहं विवर्णतांकुर्य्यादेतान् छाया व्यपोहति वृष्टिर्वृष्या हिमावस्थानिद्रालस्यविधायिनी ।”