| YouTube Channel

दिनं (dinaM)

 
शब्दकल्पद्रुमः
Sanskrit
दिनं,
क्ली,
(द्यति खण्डयति महाकालमिति ।दो छेदे + “बहुलमन्यत्रापि ।” उणां ४९ ।इति इनच् ।) कालविशेषः तत्पर्य्यायः ।घसः अहः दिवसः वासरः इत्य-मरः
भास्वरः दिवा इति राज-निर्घण्टः
वारः अंशकः द्यु १० अंशकम्११ इति शब्दरत्नावली
(यथा, रघुः ।“दिनेसु गच्छत्सु नितान्तपीवरंतदीयमालीनमुखं स्तनद्बयम्
”)तत्तु मनुष्यमाने षष्टिदण्डात्मकम् पितृमानेगौणचान्द्रमासात्मकम् देवासुरमाने वत्सरा-त्मकम् ब्रह्ममाने दिव्यद्बिसहस्रयुगात्मकम् ।मनुष्यमाने ब्रह्मणो दिनस्य संख्या ८, ६४०, ०००, ००० इति पुराणम्
तदेव मनुष्याणां सौर-सावनचान्द्रनाक्षत्रभेदेन चतुर्व्विधम् यथा, --सावनं दण्डाः षष्टिरहः स्वलग्नखगुणांशाढ्या-स्तदैनं भवेत् ।उदयादोदयाद्भानोर्भौमसावनवासराः ।तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः ।आयुर्द्दाये स्मृतं प्राज्ञैर्नाक्षत्रं षष्टिनाडिकम्
जीमूतवाहनमते तु सूर्य्यकिरणावच्छिन्नदतु-र्यामयुक्तम्
दिनं,
क्ली,
(दो छेदे + इनच् ।) सूर्य्यकिरणा-वच्छिन्नकालः तद्वैदिकपर्य्यायः वस्तोः १द्युः भाबुः वासरम् स्वसराणि घ्रंसः ६घर्म्मः घृणः दिनम् दिवा १० दिवे-दिवे ११ द्यविद्यवि १२ इति द्बादशाहर्नामानि ।इति वेदनिघण्टौ अध्यायः
*
सिंह-कन्यातुलावृश्चिककुम्भमीनलग्नानि यथा, --“अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा ।निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः
”इति ज्योतिस्तत्त्वम्