| YouTube Channel

दिधिषाय्यः (didhiSAyyaH)

 
शब्दकल्पद्रुमः
Sanskrit
दिधिषाय्यः,
पुं,
(दधाति आनन्दमिति धा +“दिधिषाय्यः ।” उणां ९७ इति आय्यःधातोर्द्बित्वं इत्वं षुक् ।) आरोपितबन्धुः
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः
(धारके, त्रि यथा, ऋग्वेदे ।“मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जनेजातवेदाः
”“दिधिषाय्यो धारयिता भूत् ।” इति तद्भाष्येसायनः
उज्ज्वलदत्तस्तु “दधिषाय्यः” इतिउणादिसूत्रं कस्त्ययित्वा दधिपूर्व्वात् स्यतेराय्यःषत्वञ्च इति व्याख्याय दधिषाय्यो घृतम् इत्युक्त-वान्
)