| YouTube Channel

दिधिक्षिष्यमाणः (didhikSiSyamANaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“दिह उपचये”@} 2 उपचयः = लेपः, वृद्धिश्च।
देहकः-हिका, देहकः-हिका, 3 दिधिक्षकः-क्षिका, देदिहकः-हिका
4 देग्धा-देग्ध्री, देहयिता-त्री, दिधिक्षिता-त्री, देदिहिता-त्री
5 6 प्रणिदिहन्-ती, देहयन्-न्ती, दिधिक्षन्-न्ती
-- प्रणिधेक्ष्यन्-न्ती-ती, देहयिष्यन्-न्ती-ती, दिधिक्षिष्यन्-न्ती-ती
प्रणिदिहानः, देहयमानः, दिधिक्षमाणः, देदिह्यमानः
प्रणिधेक्ष्यमाणः, देहयिष्यमाणः, दिधिक्षिष्यमाणः, देदिहिष्यमाणः
7 प्रधिक्-धिग्-दिहौ-दिहः
-- -- -- दिग्धम्- 8 दिग्धः-दिग्धवान्, देहितः, दिधिक्षितः देदिहितः-तवान्
दिहः, 9 देहनः, दिधिक्षुः, देदेहः
देग्धव्यम्, देहयितव्यम्, दिधिक्षितव्यम्, देदिहितव्यम्
देहनीयम्, देहनीयम्, दिधिक्षणीयम्, देदिहनीयम्
देह्यम्, देह्यम्, दिधिक्ष्यम्, देदिह्यम्
ईषद्देहः-दुर्देहः-सुदेहः
-- -- -- दिह्यमानः, देह्यमानः, दिधिक्ष्यमाणः, देदिह्यमानः
संदेहः, देहः, दिधिक्षः, देदिहः
देग्धुम्, देहयितुम्, दिधिक्षितुम्, देदिहितुम्
दिग्धिः, देहना, दिधिक्षा, देदिहा
देहनम्, देहनम्, दिधिक्षणम्, देदिहनम्
दिग्ध्वा, देहयित्वा, दिधिक्षित्वा, देदिहित्वा
सन्दिह्य, संदेह्य, प्रदिधिक्ष्य, प्रदेदिह्य
देहम् दिग्ध्वा देहम् देहयित्वा दिधिक्सम् दिधिक्षित्वा देदिहम्
देदिहित्वा २।
प्रासङ्गिक्यः
01
=>
(८४२)
02
=>
(२-अदादिः-१०१५। अक। अनि। उभ।)
03
=>
[[५। धातोरस्यानिट्त्वात्, झलादेः सनः कित्त्वे, धातुहकारस्य घत्वे, घकारस्य ककारे, भष्भावेन दकारस्य धकारे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[६। तृचि, हकारस्य घत्वे, ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति तकारस्य धत्वे जश्त्वे रूपम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
05
=>
[पृष्ठम्०७४८+ २५]
06
=>
[[१। शतरि, शपि, ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुकि प्रपूर्वकस्य नेः ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवादिद्रातिप्सातिवपतिवहतिशाम्यतिचिनो- तिदेग्धिषु च’ (८-४-१७) इति णत्वे रूपम्।]]
07
=>
[[२। क्विपि, घत्वे, भष्भावे चर्त्वे रूपम्।]]
08
=>
[[आ। ‘मालेयदिग्धो जनदृष्टिलेह्यश्चक्षीमहीमां पुरमित्युपैर्त।।’ धा। का। २। ४४।]]
09
=>
[[३। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। अनादेशः।]]
1 {@“धिक्ष सन्दीपनक्लेशनजीवनेषु”@} 2 3 धिक्षकः-क्षिका, धिक्षकः-क्षिका, 4 दिधिक्षिषकः-षिका, देधिक्षकः-क्षिका
धिक्षिता-त्री, धिक्षयिता-त्री, दिधिक्षिषिता-त्री, देधिक्षिता-त्री
-- धिक्षयन्-न्ती, धिक्षयिष्यन्-न्ती-ती
-- धिक्षमाणः, धिक्षयमाणः, दिधिक्षिषमाणः, देधिक्षमाणः
धिक्षिष्यमाणः, धिक्षयिष्यमाणः, दिधिक्षिषिष्यमाणः, देधिक्षिष्यमाणः
5 धिट्-धिड्-धिक्षौ-धिक्षः, 6 धिक्-धिक्षौ-धिक्षः
-- धिक्षितम्-तः, धिक्षितः, दिधिक्षिषितः, देधिक्षितः-तवान्
धिक्षः, 7 धिक्षणः, 8 प्रधिक्षी, धिक्षः, दिधिक्षिषुः, देधिक्षः
धिक्षितव्यम्, धिक्षयितव्यम्, दिधिक्षिषितव्यम्, देधिक्षितव्यम्
धिक्षणीयम्, धिक्षणीयम्, दिधिक्षिषणीयम्, देधिक्षणीयम्
9 धिक्ष्यम्, धिक्ष्यम्, दिधिक्षिष्यम्, देधिक्ष्यम्
ईषद्धिक्षः-दुर्धिक्षः-सुधिक्षः
-- -- धिक्ष्यमाणः, धिक्ष्यमाणः, दिधिक्षिष्यमाणः, देधिक्ष्यमाणः
धिक्षः, धिक्षः, दिधिक्षिषः, देधिक्षः
धिक्षितुम्, धिक्षयितुम्, दिधिक्षिषितुम्, देधिक्षितुम्
धिक्षा, धिक्षणा, दिधिक्षिषा, देधिक्षा
धिक्षणम्, धिक्षणम्, दिधिक्षिषणम्, देधिक्षणम्
धिक्षित्वा, धिक्षयित्वा, दिधिक्षिषित्वा, देधिक्षित्वा
प्रधिक्ष्य, प्रधिक्ष्य, प्रदिधिक्षिष्य, प्रदेधिक्ष्य
धिक्षम् २, धिक्षित्वा २, धिक्षम् २, धिक्षयित्वा २, दिधिक्षिषम् २, दिधिक्षिषित्वा २, देधिक्षम्
देधिक्षित्वा २।
प्रासङ्गिक्यः
01
=>
(८९८)
02
=>
(१-भ्वादिः-६०३। सक। सेट्। आत्म।)
03
=>
[[B। ‘संधुक्षमाणमरिधिक्षकमूष्मजालं संवृक्ष्यवेदमतशिक्षकभिक्षुगम्यम्।’ धा। का। १। ७७।]]
04
=>
[[२। सन्नन्ताण्ण्वुलि, ‘स्कोः संयोगाद्योरन्ते च’ (८-२-२९) इति ककारलोपे, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे, सनः सकारस्य षत्वे रूपमेवम्। संयोगादिलोपस्यासिद्धत्वात् लघूपधगुणो न। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[३। क्विपि, संयोगादिलोपे, षकारस्य ‘झलां जशोऽन्ते’ (८-२-३९) इति जश्त्वे, तस्य चर्त्वविकल्पे रूपम्।]]
06
=>
[[४। ण्यन्तात् क्विपि, णिलोपे, संयोगान्तलोपे रूपमेवम्।]]
07
=>
[[५। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति तच्छीलादिषु कर्तृषु युच्।]]
08
=>
[[६। ताच्छीलिको णिनिप्रत्ययः।]]
09
=>
[पृष्ठम्०७९६+ २७]