| YouTube Channel

दिग्ज्ञान (digjJAna)

 
Shabdartha Kaustubha
Kannada
दिग्ज्ञान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪೂರ್ವ ಮೊದಲಾದ ದಿಕ್ಕುಗಳನ್ನು ತಿಳಿಯುವ ರೀತಿ
वाचस्पत्यम्
Sanskrit
दिग्ज्ञान
न०
त० सि० शि० उक्ते दिशां प्राचीत्वादिज्ञान-साधनी प्रकारभेदे तत्रोक्तो यथा“वृत्तेऽम्भःसुसमीकृतक्षितिगते केन्द्रस्थशङ्कोः क्रमा-ड्गाग्रंयत्र विशत्यपैति यतस्तत्रापरैन्द्र्यौ दिशौ ।तत्कालापमजीवयोस्तु विवराद्भाकर्णमित्या हताल्लम्बज्याप्त-मिताङ्गुलेरयनदिश्यैन्दी स्फुटां चालिता तन्मत्स्यादथयाम्यसौम्यककुभौ सौम्या ध्रुवे वा भवेदेकस्मादपि भाग्रती-भुजमितां कोटीमिमां शङ्कुतः न्यस्येद्यष्टिमृजुं तथाभुवि यथा यष्ट्यग्रयोः संयुतिः कोटिः प्राच्यपरा भवदितिकृते बाहुश्च याम्योत्तरा” मू० “उदकेन समीकृतायां भूमा-विष्टपमाणं वृत्तं विलिख्य तस्य केन्द्रे द्वादशाङ्गुलशङ्कुनिवश्य तस्य छाया तस्मिन् वृत्ते यत्र प्रविशति पूर्वाह्णे वाअपराह्णे यतो निर्गच्छति तत्र पश्चिमपूर्वदिशौ किलभवतः परन्तु यस्मिन् काले छायाप्रवेशो जातो यस्मिन्काले निर्गमस्तात्कालिकयोरर्कयोः क्रान्तिज्ये साध्ये ।तयोरन्तरात् तस्याश्छायायाः कर्णेन मुणिताल्लम्बज्ययाभक्ताद्यल्लब्धमङ्गुलादि फलं तेनैन्द्रो दिगुत्तरतश्चालितास्फुटा भवति यद्युत्तरेऽयने रविर्वर्त्तते तदा उत्तरतः यदिदक्षिणे तदा दक्षिणतः एवं स्फुटा प्राची अन्यथास्थूलेत्यर्थः तन्मत्स्याद्याम्यसौम्यो दिशौ अथ प्रकारा-न्तरेणाह ध्रुवमवलम्बसूत्रेण विद्ध्वा ध्रुवाभिमुंखकी-लकः सौम्या स्वस्थानकीलको याम्या तन्मत्स्यात्पूर्वापरे प्रथमं भाच्छायाग्रदर्शने दिग्ज्ञानमुक्तम् ।इदानीमथवैकस्मादपि भाग्रतः तच्चैवम् अभीष्ट-काले शङ्कोर्भाग्रं चिह्नयित्वा तस्याश्छायाया वक्ष्यमाण-प्रकारेण भुजं कोटिं चानीय भुजकोटिमिते शलाकेगृहीत्वा शङ्कुमूलाद्यथादिग्गतां कोटिशलाकां छाया-ग्राद्व्यस्तदिग्गतां भुजशलाकां तथा भुवि न्यसेद्यथाशलकाग्रयोः संयुतिः स्यात् एवं कृते सति कोटिःप्राच्यपरा दिग्भवति बाहुश्च याम्योत्तरा अत्रो-पपत्तिः अहोरात्रवृत्ते इष्टानामुन्नतघटिकानामग्रेपूर्वाह्णे समपण्डलेन यावदन्तरं तावदेवापराह्णे तावती-नां घटीनामग्रे भवति अतस्तच्छायाग्रबिन्दुभ्यांदिग्ज्ञानमुपपद्यते परं तत्कालान्तरेण यदर्कक्रान्त्यन्तरंतेनान्तरितं भवति अतस्तत् सन्धेयम् तच्चैवम् ।तस्मित् काले यानि कर्णवृत्ताग्राङ्गुलानि पूर्वाह्णे यानिचापराह्णे तेषामन्तरं कार्यम् तत्र लाघवार्थं तत्काल-क्रान्त्योरेवान्तरं कृतम् ततोऽग्राकरणायानुपातः ।यदि लम्बज्याकोट्या त्रिज्या कर्णस्तदा क्रान्तिज्यान्तरेणकिमिति अत्र लब्धमग्रान्तरम् ततोऽन्योऽनुपातः ।यदि त्रिज्याध्यासार्धे एतावदन्तरं तदा कर्णव्यासार्धेकिमिति अत्र तुल्यत्वाद्गुणकभाजकयोस्त्रिज्यानाशेकृते सत्युपपन्नं तत्कालापमजीवयोस्तु विवरादित्यादि ।यद्युत्तरमयनं वर्तते उत्तरतोऽर्के चालिते शङ्कोर्भाग्रंदक्षिणतो याति तदोत्तरतश्चालनीयम् अत उपपन्न-मैन्द्रीस्फुटा चालितेति भुजकोटीनामुपपत्तिरग्रे ।सन्निवेशमात्रेण दिग्ज्ञानमिव दर्शितम्” प्रमि०