| YouTube Channel

दिक्साधन (diksAdhana)

 
वाचस्पत्यम्
Sanskrit
दिक्साधन
न०
दिशः साध्यन्ते ज्ञानार्थम् अनेन दिग्ज्ञानसाधने उपायभेदे तच्च कुण्डार्के दर्शितं यथा“नृपाङ्गुलैः संमितकर्कटेन सूत्रेण वा वृत्तवरं वि-लिख्य रव्यङ्गुलं शङ्कुममुष्य मध्ये निवेशयेत् खाक्षिमिताङ्गुलीभिः चतुर्मिताभिश्च ऋजूत्तमाभिः संस्पृष्ट-शीर्षं तु शलाकिकाभिः तच्छङ्कुभा यत्र विशेदपेयाद्-वृत्ते क्रमात् स्तो वरुणेन्द्रकाष्ठे” नृपाङ्गलैः परिमितेनकर्कटेन सूत्रेण वा वृत्तं विलिख्य तन्मध्ये द्वादशाङ्गुलंदृडसूच्यग्रं स्थापयेत् कीदृशं विंशत्यङ्गुलमिताभिश्चतसृभिःऋजुभिः समानाभिः शलाकामिः कल्पितचतुर्दिग्गत-वृत्तस्थाभिः संस्पृष्टमस्तकम् एवं शङ्कुसमत्वं साधयित्वातादृशस्य शङ्कोश्छाया पूर्वाह्णे यत्र यस्मिन् प्रदेशेवृत्ते प्रविशति यत्र वापराह्णे वृत्ताद्बहिरपैति तत्रचिह्नयोः क्रमात् प्रतीची प्राची भवत इतिअत्र दिगज्ञानशब्दे वक्ष्यमाणम् “वृत्तेऽम्भः सुसमी-कृतक्षितिगते इत्यादि सि० शि० वाक्यं प्रमाणम् तत्रअसार्द्धश्लोकस्योपपत्तिः ग्रमि० उक्ता यथा “दोःकोट्योर्नामभेदो स्वरूपभेद इति दोःकोटिवर्गयोगपद कर्णः १०वृत्तपरिधिस्पृष्टदिगन्ताच्छङ्क्वग्रं यावन्नीयमानाश्चतस्रःशलाकाः कर्णा भवन्ति समे देशे शङ्कुं निखाय शङ्कुसमितया रज्ज्वा मण्डलं परिलिख्य यत्र शङ्क्वग्रछायापतति सा प्राचीति” अत्र शङ्कुसंमितयेत्युपल-क्षणं तेनाधिकयापि रज्ज्वा वृत्तं कार्य्यम् अ-न्यथा यत्राक्षभा षडङ्गुला तत्र धनुःसंक्रान्तौ द्वादशा-ङ्गुलशङ्कोश्छायाप्रवेशस्तादृशे वृत्ते स्यादेव तस्माद-स्माभिः षोडशाङ्गुलसूत्रेण वृत्तं कारितं तथा वृत्तेकृते लाघवं चैकेनैव वृत्तेन शङ्कुसमत्वमाधनं दिक्साधनंच सिध्यति अतएव रामवाजपेयी “शङ्कुमानाधिकेव्यासदले वृत्ते विशेद्यदि” इत्याह एवं स्थूलप्राचीसाघनंकृत्वा सूक्ष्ममपि शालिन्याह “कर्के कीटे गोमृगे यूकयासा द्वाभ्यां चाल्पा सिंहकुम्भात्त्रिकेऽपि यां वै काष्ठांभानुमान् याति तस्यां चाल्पा द्वन्द्वे कार्मुके चालनं ।”सा प्राची कर्के कर्कसंक्रान्तौ कीटे वृश्चिकसंक्रान्तौ वृषभ-मकरसंक्रान्तौ एकया यूकया चाल्पा सूर्यस्यायनवशात्उत्तरायणे उत्तरतः दक्षिणायने दक्षिणतः एवं सिंह-कुम्भात्त्रिके सिंहकन्यातुलासंक्रान्तौ कुम्भमीनमेषसंक्रान्तौच द्वाभ्यां यूकाभ्यां चालनीया अयनवशात् मिथुनधनुः-संक्रान्तौ चालनं नास्तीति एवं प्राचीसाधनं कृत्वाथो-त्तरदक्षिणयोः साधनं शालिन्याह “रज्ज्वुं द्विघ्नांमध्यचिह्नां सपाशां प्राचीं शङ्कौ पश्चिमे चापि दत्त्वा ।कर्षेद्धीमान् दक्षिणे चोत्तरे तच्चिह्ने स्याद्दक्षिणा-चोत्तरा दिक्” कुण्डमण्डपयोर्यावान् विस्तारस्तद्द्वि-गुणकृतमध्याङ्कादुभयतः पाशवती रज्ज्वुर्न्यस्या तां प्राचीप्रचीच्योर्दत्तशङ्क्वोर्विन्यसेत् ततो मध्याङ्के धृत्यारज्ज्वुंदक्षिणे उत्तरे चाकर्षेत् विद्वान्, कर्षाङ्के दक्षिणाउत्तरा स्यादिति अत्र स्पष्टैव युक्तिरिति अथरात्रौ दिक्साधनीपायं वसन्तमांलिकयाह “निशिवा श्रवणोदये दिगैन्द्री गुरुभस्योदयनेऽथ वह्निभस्य ।शरवर्द्धकिवायुभान्तरालेऽप्यमुतः साधय पूर्ववच्च याम्याम्”अथवा रात्रौ श्रवणस्योदये प्राची अथ वा पुष्पस्योदयेप्राची अथवा कृत्तिकोदये प्राची अथ शरवर्द्धकिस्त्वष्टावायुस्तयोर्भे चित्रास्वात्यौ तयोरन्तराले प्राची अमुतःप्राचीतः पूर्बवत् पूर्वोक्तेन तथा याम्यां दक्षिणादिशंसाधयेदिति “कृत्तिका श्रवणः पुष्यश्चित्रास्वात्यो-र्शदन्तरम् एतत् प्राच्या दिशो रूपं युगमात्रोदितेपुरः” इति अथ चित्रास्वात्योर्यदन्तरे प्राचोत्युक्तंतन्मध्यस्य दुर्विज्ञेयत्वात्तदुपायमनष्टुभाह “चित्रां विद्ध्वै-कया स्वातीमन्ययापि शलाकया तिर्यक्स्थान्तरचिह्नात्तु द्विमूलेऽन्या स्फुटेन्द्रदिक् एकया ऋज्वा शलाकयाचित्रां विद्ध्वा अन्यया तादृशैव शलाकया स्वातीं विद्ध्वा-तयोः शलाकयोरुपाग्रं दक्षिणोत्तरा मध्याङ्कात् द्वितीयांशलाकां समतया दद्यात् प्रथमद्वितीययोः शलाकयोर्मूलम्एकीकृत्य तृतीयां मध्याङ्कादुभयसंपातं यावच्चतुर्थीशलाकां प्रान्ते रज्ज्वुप्रोतलम्बद्वयवतीं पूर्वापरायतांदद्यात् यत्र लम्बकौ भूम्यां पतितौ तत्राङ्कयोः पूर्वापर-सूत्रदानात् स्पष्टा प्राचीत्यत्र स्पष्टा युक्तिरिति ।अथ प्रकारान्तरेण लघूपायेनोदीचीसाधनमाह, दिन-मानदले सप्ताङ्गुलच्छायाग्रतो हि यत् शङ्कुमूले नीय-मागं सूत्रं स्यादुत्तरा दिशा” तिथिपत्राद्गणिताद्वादिनमानमेतावदिति ज्ञात्वा ततो घटिकादिनां ज्ञातेदिनार्द्धे मध्याह्ने सप्ताङ्गुलशङ्कोर्यत्र छायाग्रं लगतितस्माच्छङ्कुमूलं यावन्नीयमानं सूत्रं दक्षिणोत्तरसूत्र-मिति अथ वा सप्ताङ्गुलशङ्कोर्गणितागतमाध्याह्निक-छायातुल्या तस्यैव छाया यदा स्यात्तदग्राच्छङ्कुमूलेनीयमानं सूत्रं दक्षिणोत्तरेति अत्र युक्तिस्तस्मिन्समये रविर्दक्षिणोत्तरवृत्ते भवतीति ततः पूर्ववत् पूर्वा-परे साध्ये एवं दिक्साधनं विधाय मण्डपस्य चतुष्को-णत्वाच्चतुष्कोणसाधनं विपरीताख्यानक्याह “दिगन्तशङ्कु-द्वयगं द्विपाशं विस्तारतुल्यं तु गुणं द्रलाङ्के कोणे प्रकर्षेदिति वेदकोणेष्वेवं चतुःकोणमतीव साधु” दिगन्तयोःपूर्वदक्षिणयोः दक्षिणापरयोः अपरीत्तरयो उत्तरपूर्वयोःशङ्कुद्वयगं द्वौ पाशौ यस्य तं विस्तारेण तुल्यगुणंसूत्रं अर्द्धचिह्ने धृत्वा कोणे आकर्षयेत् एवं चतु-र्ष्वपि कोणेष्विति कृते साधु चतुरस्रं स्यादिति” तद्-व्याख्या अधिकं दिग्ज्ञानशब्दे दृश्यम्