| YouTube Channel

दिक्शूलं (dikzUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
दिक्शूलं,
क्ली,
(दिशि शूलमिव ।) दिग्विशेष-गमने निषिद्धवाराः यथा, --पश्चिमायां शुक्ररवी उत्तरस्यां बुधमङलौ ।पूर्व्वस्यां शनिसोमौ दक्षिणस्यां बृहस्पतिः ।तथा ।“शुक्रादित्यदिने वारुणदिशं ज्ञे कुजे चोत्तरांमन्देन्दोश्च दिने शक्रककुभं याम्यां गुरौ नव्रजेत् ।शूलानीति विलङ्घ्य यान्ति मनुजा ये वित्त-लाभाशयाभ्रष्टाशाः पुनरापतन्ति यदि ते शक्रेण तुल्याअपि
”इति ज्योतिःसारसंग्रहः
केषाञ्चिन्मते ।“-- बौधे गुरौ दक्षिणाम् ।ईशाने ज्वलने चैव नैरृते मारुते तथा ।न गन्तव्यं सुराचार्य्ये प्रतीच्यां रविशुक्रयोः
”इति सुखबोधः