| YouTube Channel

दिक्पतिः (dikpatiH)

 
Wordnet
Sanskrit
Synonyms:
दिक्पालः, लोकपालः, दिक्पतिः
noun
पुराणानुसारेण प्रत्येकस्याः दिशः पालनकर्त्री देवता।
"पूर्वदिशः दिक्पालः इन्द्रः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
दिक्पतिः,
पुं,
(दिशां पतिः ।) दिगधीश्वरः ।तद्यथा प्राच्यधिपो रविः अग्निकोणाधिपःशुक्रः दक्षिणाधिपः कुजः नैरृतकोणाधिपोराहुः प्रतीच्यधिपः शनिः वायुकोणाधिप-श्चन्द्रः उत्तराधिपो बुधः ईशानकोणाधिपोगुरुः तस्य प्रमाणं यथा, --“सूर्य्यः शुक्रः क्षमापुत्त्रः सैंहिकेयः शनिः शशी ।सौम्यस्त्रिदशमन्त्री प्राच्यादिदिगधीश्वराः
”इति ज्योतिस्तत्त्वम्