| YouTube Channel

दासीघटः (dAsIghaTaH)

 
शब्दकल्पद्रुमः
Sanskrit
दासीघटः,
पुं,
(दासीपादनिक्षेप्यो घटः मध्य-पदलोपिसमासः ।) नवम्यां महापातकिनःपरित्यागार्थं सपिण्डसमानोदकनियुक्तदक्षिणा-भिमुखदासीपादनिःक्षेप्यजलपूर्णकलसः तदनु-ष्ठानं यथा, मनुः ११ १८३ -- १८५ ।“पतितस्योदकं कार्य्यं सपिण्डैर्बान्धवैर्बहिः ।निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ
दासीधटमपां पूर्णं पर्य्यस्येत् प्रेतवत् पदा ।अहोरात्रमुपासीरन्नशौचं वान्धवैः सह
निवर्त्तेरंश्च तस्मात्तु सम्भाषणसहासने ।दायाद्यस्य प्रदानञ्च यात्रा चैव हि लौकिली
”“पतितस्येति महापातकिनो जीवत एव प्रेत-स्योदकक्रिया वक्ष्यमाणरीत्या सपिण्डैः समानो-दकैश्च ग्रामाद्बहिर्गत्वा ज्ञात्यृत्विग्गुरुसन्निधानेरिक्तायां नवम्यां तिथौ दिनान्त कर्त्तव्या
दासीति सपिण्डसमानोदकानियुक्ता दासीउदकपूर्णं घटं प्रेतवदिति दक्षिणाभिमुखीभूयपादेन क्षिपेत् यथा निरुदको भवति तदनुते सपिण्डाः समानोदकैः सहाहोरात्रमशौच-माचरेयुः
निवर्त्तेरन्निति तस्मात् पति-तात् सपिण्डादीनां सम्भाषणमेकासनोपवेशनञ्चतस्मै ऋक्थप्रदानं सांवत्सरिकादौ निम-न्त्रणादिरूपो लोकव्यवहार एतानि निवर्त्ते-रन्
इति कुल्लूकभट्टः