| YouTube Channel

दाश्यमानः (dAzyamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“दाशृ दाने”@} 2 दाशकः-शिका, दाशकः-शिका, दिदाशिषकः-षिका, दादाशकः-शिका
दाशिता-त्री, दाशयिता-त्री, दिदाशिषिता-त्री दादाशिता-त्री
दाशन्-न्ती, दाशयन्-न्ती, दिदाशिषन्-न्ती
-- दाशिष्यन्-न्ती-ती, दाशयिष्यन्-न्ती-ती, दिदाशिषिष्यन्-न्ती-ती
-- दाशमानः, दाशयमानः, दिदाशिषमाणः, दादाश्यमानः
दाशिष्यमाणः, दाशयिष्यमाणः, दिदाशिषिष्यमाणः, दादाशिष्यमाणः
3 4 दाट्-दाड्-दाशौ-दाशः
-- -- दाशितम्-तः, दाशितः, दिदाशिषितः, दादाशितः-तवान्
5 दाशः 6, 7 दाश्वान्, प्रदाशी, दाशः, दिदाशिषुः, दादाशः
दाशितव्यम्, दाशयितव्यम्, दिदाशिषितव्यम्, दादाशितव्यम्
दाशनीयम्, दाशनीयम्, दिदाशिषणीयम्, दादाशनीयम्
दाश्यम्, दाश्यम्, दिदाशिष्यम्, दादाश्यम्
ईषद्दाशः- 8 दूडाशः-सुदाशः
-- -- -- दाश्यमानः, दाश्यमानः, दिदाशिष्यमाणः, दादाश्यमानः
दाशः, 9 पुरोडाशः, दाशः, दिदायिषः, दादाशः
दाशितुम्, दाशयितुम्, दिदाशिषितुम्, दादाशितुम्
दाशा, दाशना, दिदाशिषा, दादाशा
दाशनम्, दाशनम्, दिदाशिषणम्, दादाशनम्
दाशित्वा, दाशयित्वा, दिदाशिषित्वा, दादाशित्वा
प्रदाश्य, प्रदाश्य, प्रदिदाशिष्य, प्रदादाश्य
दाशम् २, दाशित्वा २, दाशम् २, दाशयित्वा २, दिदाशिषम् २, दिदाशिषित्वा २, दादाशम्
दादाशित्वा २।
प्रासङ्गिक्यः
01
=>
(८३५)
02
=>
(१-भ्वादिः-८८२। सक। सेट्। उभ।)
03
=>
[पृष्ठम्०७४०+ २७]
04
=>
[[१। क्विपि, ‘व्रश्चभ्रस्ज--’ (८-२-३६) इत्यादिना षत्वे, जश्त्वचर्त्वयो रूपम्।]]
05
=>
[[२। दाश्यतेऽस्मै इति सम्प्रदाने पचाद्यच्। ‘दाशगोघ्नौ सम्प्रदाने’ (३-४-७३) इति वचनात् सम्प्रदाने प्रत्ययोऽयम्।]]
06
=>
[[आ। ‘चाय्या व्ययद्दाशविलोकभेषभ्रेषज्झषा यासदघं स्पशन्ती।।’ धा। का। २। २७।]]
07
=>
[[३। ‘दाश्वान् साह्वान् मीढ्वांश्च’ (६-१-१२) इति क्वसुप्रत्यये इडभावः, द्वित्वाभावश्च भाषायामपि निपातितः।]]
08
=>
[[४। ‘दुरो दाशनाशदभध्येषु षत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम्’ (वा। ६-३-१०९) इति वचनात् षत्व-उत्तरपदादिष्टुत्व-डलोपदीर्घेषु रूपमेवम्।]]
09
=>
[[५। पुरो दाश्यते इति पुरोडाशः = चरुविशेषः। ‘पौरोडाशपुरोडाशात् ष्ठन्’ (४-३-७०) इति सूत्रे निपातनात् ष्टुत्वम्।]]