| YouTube Channel

दाशृ (dAzR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दाश्
मूलधातुः:
दाशृ
धात्वर्थः:
दाने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
दाशति-ते
धातुः:
दाश्
मूलधातुः:
दाशृ
धात्वर्थः:
हिंसायाम्
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
दाश्नोति
अनुबन्धादिविशेषः:
छान्दसः
धातुप्रदीपः
Sanskrit
दाशृँ दाश्रृ दाने
- दाशति दाशते अददाशत् दाशः ।। 886 ।।
क्षीरतरङ्गिणी
Sanskrit
दाशृँ दाश्रृ दाने
- दाशते, दाशति अददाशत् क्वसौ दाश्वान् (6112) साधुः दाशगोघ्नौ सम्प्रदाने (3473) पुरो दाश्यते-पुरोडाशः, पृषोदरादित्वात् (63109) डत्वम्, एवं दुःखेन दाश्यते दूडाशः दायृ दान इति कौशिकः 853
दाशृँ दाशृ दाने
- दाशयते भ्वादौ (1621) दाशति, दाशते 143
धातुवृत्तिः
Sanskrit
दाशृँ दाशृ (अर्थः) दाने
( दाशति ददाश दाशिता दिदाशिषति दादाश्यते दादाष्ठिः दाशयति अददाशत् शशते ददाशे ) इत्यादि ( सूत्रम्) दाश्वान्साह्वान् (इति सूत्रम्) इतिक्कसावद्वित्वमनिट्त्वं निपात्यते दाशतेस्मै इति ( दाशः ) "दाशगोघ्रौ संप्रदाने'' इति अचि निपात्यते पुरो दाश्यत इति ( पुरोडाशः ) तत्सहचरितग्रनथोपि ( पुरोडाशः ) पुरोडाशस्य संस्कारो "मखस्य शिरोसि' इत्यादि मन्त्रः ( पौरोडाशः ) पुरोडाशस्य पौरोडाशस्य व्याख्यानं तत्र भवं वा ( पुरोडाशिकं, पौरोडाशिकम् ) ( सूत्रम्) पौरोडाशपुरोडाशात्ष्ठन् (इति सूत्रम्) इति प्रत्येकं षष्ठ्यन्ताभ्यामाभ्यां भवव्याख्यानयोरर्थयोष्ठन् अत्रैव निर्देशात् दाशेर्दकारस्य डकारः अस्मादनन्तरं स्वामिकाश्यपावयतिं पठतः तदनार्षां प्रतीयते यदाह "उपसर्गस्यायतौ'' इत्यत्र हरदत्तः अयतिरनुदात्तेदिति 867
कृदन्तरूपमाला
Sanskrit
1 {@“दाशृ दाने”@} 2 दाशकः-शिका, दाशकः-शिका, दिदाशिषकः-षिका, दादाशकः-शिका
दाशिता-त्री, दाशयिता-त्री, दिदाशिषिता-त्री दादाशिता-त्री
दाशन्-न्ती, दाशयन्-न्ती, दिदाशिषन्-न्ती
-- दाशिष्यन्-न्ती-ती, दाशयिष्यन्-न्ती-ती, दिदाशिषिष्यन्-न्ती-ती
-- दाशमानः, दाशयमानः, दिदाशिषमाणः, दादाश्यमानः
दाशिष्यमाणः, दाशयिष्यमाणः, दिदाशिषिष्यमाणः, दादाशिष्यमाणः
3 4 दाट्-दाड्-दाशौ-दाशः
-- -- दाशितम्-तः, दाशितः, दिदाशिषितः, दादाशितः-तवान्
5 दाशः 6, 7 दाश्वान्, प्रदाशी, दाशः, दिदाशिषुः, दादाशः
दाशितव्यम्, दाशयितव्यम्, दिदाशिषितव्यम्, दादाशितव्यम्
दाशनीयम्, दाशनीयम्, दिदाशिषणीयम्, दादाशनीयम्
दाश्यम्, दाश्यम्, दिदाशिष्यम्, दादाश्यम्
ईषद्दाशः- 8 दूडाशः-सुदाशः
-- -- -- दाश्यमानः, दाश्यमानः, दिदाशिष्यमाणः, दादाश्यमानः
दाशः, 9 पुरोडाशः, दाशः, दिदायिषः, दादाशः
दाशितुम्, दाशयितुम्, दिदाशिषितुम्, दादाशितुम्
दाशा, दाशना, दिदाशिषा, दादाशा
दाशनम्, दाशनम्, दिदाशिषणम्, दादाशनम्
दाशित्वा, दाशयित्वा, दिदाशिषित्वा, दादाशित्वा
प्रदाश्य, प्रदाश्य, प्रदिदाशिष्य, प्रदादाश्य
दाशम् २, दाशित्वा २, दाशम् २, दाशयित्वा २, दिदाशिषम् २, दिदाशिषित्वा २, दादाशम्
दादाशित्वा २।
प्रासङ्गिक्यः
01
=>
(८३५)
02
=>
(१-भ्वादिः-८८२। सक। सेट्। उभ।)
03
=>
[पृष्ठम्०७४०+ २७]
04
=>
[[१। क्विपि, ‘व्रश्चभ्रस्ज--’ (८-२-३६) इत्यादिना षत्वे, जश्त्वचर्त्वयो रूपम्।]]
05
=>
[[२। दाश्यतेऽस्मै इति सम्प्रदाने पचाद्यच्। ‘दाशगोघ्नौ सम्प्रदाने’ (३-४-७३) इति वचनात् सम्प्रदाने प्रत्ययोऽयम्।]]
06
=>
[[आ। ‘चाय्या व्ययद्दाशविलोकभेषभ्रेषज्झषा यासदघं स्पशन्ती।।’ धा। का। २। २७।]]
07
=>
[[३। ‘दाश्वान् साह्वान् मीढ्वांश्च’ (६-१-१२) इति क्वसुप्रत्यये इडभावः, द्वित्वाभावश्च भाषायामपि निपातितः।]]
08
=>
[[४। ‘दुरो दाशनाशदभध्येषु षत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम्’ (वा। ६-३-१०९) इति वचनात् षत्व-उत्तरपदादिष्टुत्व-डलोपदीर्घेषु रूपमेवम्।]]
09
=>
[[५। पुरो दाश्यते इति पुरोडाशः = चरुविशेषः। ‘पौरोडाशपुरोडाशात् ष्ठन्’ (४-३-७०) इति सूत्रे निपातनात् ष्टुत्वम्।]]