| YouTube Channel

दारकर्म्मन (dArakarmmana)

 
वाचस्पत्यम्
Sanskrit
दारकर्म्मन
न०
दाराणां तद्भावस्य प्रतिपादकं कर्म भार्य्यात्वसम्पादके ज्ञानविशेषरूपे विवाहे त्रिका० “सा प्रशस्ताद्विजातीनां दारकर्मणि मैथुने” “सवर्णाग्रे द्विजातीनांप्रशस्ता दारदर्मणि” मनुः दारक्रियाऽप्यत्र स्त्री “पुन-र्दारक्रियां कुर्य्यात् पुनराघानमेव च” मनुः “दारक्रियायोग्यदशञ्च पुत्रम्” रघुः “क्लीवे दारक्रिया यादृक्”भा० स० ३६ अ०