दामोदर (dAmodara)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English दामोदर dAmodara name of 12th month
दामोदर dAmodara name of 2 kings of kazmIra
दामोदर dAmodara name of 9th arhat of past utsarpiNI
दामोदर dAmodara name of a lord Krishna
दामोदर dAmodara name of a sacred river
दामोदर dAmodara having a rope round waist
Wilson
EnglishMonier Williams Cologne
EnglishMacdonell
EnglishBenfey
EnglishApte Hindi
Hindiदामोदरः
दामन्- उदरः -
कृष्ण का विशेषण
Shabdartha Kaustubha
Kannadaदामोदर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಾಸುದೇವ /ಶೀಕೃಷ್ಣ
व्युत्पत्तिः - > दाम उदरे यस्य । सकललोकधारतया दामानि लोकाः उदरे अस्य इति वा ।
प्रयोगाः - > "हेतुर्दामोदरः सहः"
उल्लेखाः - > वि० स०
विस्तारः - > "दामानि लोकनामानि ह्युदरे यस्य सन्ति सः । दामोदर इति ख्यातो यशोदादामबन्धनात् । देवानं सुखशंसित्वात् दामाद्दामोदरेऽपि वा ॥" - निरुक्तिः ।
दामोदर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದಾಮೋದರವೆಂಬ ಒಂದು ಗಂಡು ಹೊಳೆ /ನದ
दामोदर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಳೆದ ಉತ್ಪರ್ಪಿಣೀ ಕಾಲದಲ್ಲಿದ್ದ ೯ನೆಯ ಅರ್ಹಂತ
Aufrecht Catalogus Catalogorum
Englishअभिधानचिन्तामणिः
Sanskritउत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् ।
केवलज्ञानी निर्वाणी सागरोऽथ महायशाः ॥ ५० ॥
विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् ।
दामोदरः सुतेजाश्च स्वाम्यथो मुनिसुव्रतः ॥ ५१ ॥
p{0006}
सुमतिः शिवगतिश्चैवात्यागोऽथ निमीश्वरः ।
अनिलो यशोधराख्यः कृतार्थोऽथ जिनेश्वरः ॥ ५२ ॥
शुद्धमतिः शिवकरः स्यन्दनश्चाथ संप्रतिः ।
अतीतावसर्पिण्यर्हत् (पुं), केवलज्ञानिन् (पुं), निर्वाणिन् (पुं), सागर (पुं), महायशस् (पुं), विमल (पुं), सर्वानुभूति (पुं), श्रीधर (पुं), दत्ततीर्थकृत् (पुं), दामोदर (पुं), सुतेजस् (पुं), स्वामिन् (पुं), मुनिसुव्रत (पुं), सुमति (पुं), शिवगति (पुं), अस्ताग (पुं), निमीश्वर (पुं), अनिल (पुं), यशोधर (पुं), कृतार्घ (पुं), जिनेश्वर (पुं), शुद्धमति (पुं), शिवकर (पुं), स्यन्दन (पुं), सम्प्रति (पुं)
विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवो
दाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।
विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-
र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥
गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।
वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥
दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।
त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥
मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।
पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥
श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।
सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥
यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
विष्णु (पुं), जिष्णु (पुं), जनार्दन (पुं), हरिकेश (पुं), हृषीकेश (पुं), अच्युत (पुं), केशव (पुं), दाशार्ह (पुं), पुरुषोत्तम (पुं), अब्धिशयन (पुं), उपेन्द्र (पुं), अज (पुं), इन्द्रानुज (पुं), विष्वक्सेन (पुं), नरायण (पुं), जलशय (पुं), नारायण (पुं), श्रीपति (पुं), दैत्यारि (पुं), पुराणपुरुष (पुं), यज्ञपुरुष (पुं), तार्क्ष्यध्वज (पुं), अधोक्षज (पुं), गोविन्द (पुं), षड्बिन्दु (पुं), मुकुन्द (पुं), कृष्ण (पुं), वैकुण्ठ (पुं), पद्मेशय (पुं), पद्मनाभ (पुं), वृषाकपि (पुं), माधव (पुं), वासुदेव (पुं), विश्वम्भर (पुं), श्रीधर (पुं), विश्वरूप (पुं), दामोदर (पुं), शौरि (पुं), सनातन (पुं), विधु (पुं), पीताम्बर (पुं), मार्ज (पुं), जिन (पुं), कुमोदक (पुं), त्रिविक्रम (पुं), जह्नु (पुं), चतुर्भुज (पुं), पुनर्वसु (पुं), शतावर्त (पुं), गदाग्रज (पुं), स्वभू (पुं), मुञ्जकेशिन् (पुं), वनमालिन् (पुं), पुण्डरीकाक्ष (पुं), बभ्रु (पुं), शशबिन्दु (पुं), पृश्निशृङ्ग (पुं), धरणीधर (पुं), पाण्डवायन (पुं), सुवर्णबिन्दु (पुं), श्रीवत्स (पुं), देवकीसूनु (पुं), गोपेन्द्र (पुं), विष्टरश्रवस् (पुं), सोमसिन्धु (पुं), जगन्नाथ (पुं), गोवर्धनधर (पुं), यदुनाथ (पुं), गदाभृत् (पुं), शार्ङ्गभृत् (पुं), चक्रभृत् (पुं), श्रीवत्सभृत् (पुं), शङ्खभृत् (पुं)
अभिधानरत्नमाला
Sanskritविष्णु
विष्णु, कृष्ण, केशव, मञ्जुकेशी, श्रीवत्साङ्क, श्रीपति, पीतवासस्, विष्वक्सेन, विश्वरूप, मुरारि, शौरि, शार्ङ्गिन्, पद्मनाभ, मुकुन्द, गोविन्द, धरणिधर, सुपर्णकेतु, वैकुण्ठ, जलशयन, चतुर्भुज, दैत्यारि, मधुमथन, रथाङ्गपाणि, दाशार्ह, क्रतुपुरुष, वृषाकपि, जनार्दन, अधोक्षज, वासुदेव, दामोदर, श्रीधर, अच्युत, उपेन्द्र, इन्द्रावरज, बभ्र, हरि, हृषीकेश, आत्मभू, पुण्डरीकाक्ष, श्रीवत्स, विष्टरश्रवस्, नारायण, जगन्नाथ, वनमाली, गदाधर, सनातन, जिन, शम्भु, विधि, वेधस्, गदाग्रज, कैटभारि, अज, जिष्णु, कंसजित्, पुरुषोत्तम
विष्णुः कृष्णः केशवो मञ्जुकेशी,
श्रीवत्साङ्कः श्रीपतिः पीतवासाः ।
विष्वक्सेनो विश्वरूपो मुरारिः,
शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः ॥ २१ ॥
गोविन्दो धरणिधरः सुपर्णकेतु-
र्वैकुण्ठो जलशयनश्चतुर्भुजश्च ।
दैत्यारिर्मधुमथनो रथाङ्गपाणि-
र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च ।
उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः ।
नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः ।
कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥
verse 1.1.1.21
page 0004
नाममाला
Sanskritकृष्ण, दामोदर, विष्णु, उपेन्द्र, पुरुषोत्तम, केशव, हृषीकेश, शार्ङ्गिन्, नारायण, हरि, केशीसूदन, मधुसूदन, बलिसूदन, बाणसूदन, हिरण्यकशिपुसूदन, मुरसूदन, शौरि, पद्मनाभ, अधोक्षज, गोविन्द, वासुदेव
कृष्णो दामोदरो विष्णुरुपेन्द्रः पुरुषोत्तमः ।
केशवश्च हषीकेशः शार्ङ्गी नारायणो हरिः ॥ ७४ ॥
केशी मधुर्बलिर्बाणो हिरण्यकशिपुर्मुरः ।
तदादिसूदनः शौरिः पद्मनाभोऽप्यधोक्षजः ॥ ७५ ॥
गोविन्दो वासुदेवश्च लक्ष्मीः श्रीर्गोमिनीन्दिरा ।
तत्पतिः शैलभूम्यादिधरश्चक्रधरस्तथा ॥ ७६ ॥
verse 0.1.1.74
page 0039
Mahabharata
EnglishDāmodara = Kṛshṇa, q.v.--Do.^2 = Vishṇu (1000 names).
पुराणम्
Englishदामोदर / DĀMODARA. śrī kṛṣṇa. When śrī kṛṣṇa was a small boy, yaśodā tied him to a mortar-stone. The boy ran about, dragging the heavy stone with him and the rope snapped. Part of the rope still remained round his abdomen. From that he got the name dāmodara. “Dama” means rope and “Udara” means abdomen. (See kṛṣṇa).
शब्दकल्पद्रुमः
Sanskritदामोदरः, (“दमादिसाधनेनोदारा उत्कृष्टामतिर्या तया गम्यते इति दामोदरः । ‘दाम्ना-दामोदरं विदुः ।’ इति भगवद्बचनात् । यशो-दया दाम्नोदरे बद्ध इति वा दामोदरः ।‘दामानि लोकनामानि तानि यस्योदरान्तरे ।तेन दामोदरो देवः श्रीधरस्तु रमाश्रितः ॥
’इति वा ।” इति विष्णुसहस्रनामभाष्ये शङ्करः ॥
५३ ॥
तथा, महाभारते । ५ । ७० । ८ ।“देवानां स्वप्रकाशत्वात् दमाद्दामोदरो विभुः ॥
”)विष्णुः । इत्यमरः । १ । १ । १८ ॥
(दाम रज्जु-रुदरे यस्य । श्रीकृष्णः । यथा, महाभारते ।१ । १९० । १९ ।“दामोदरो भ्रातरमुग्रवीर्य्यंहलायुधं वाक्यमिदं बभाषे ॥
”यशोदयासौ उदरदेशे दाम्ना बद्ध आसीत् अतो-ऽस्य तथा नाम । यथा, हरिवंशे । ६३ । १४, २६ ।“दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुदूखले ।यदिशक्तोऽसि गच्छेति तमुक्त्रा कर्म्म साकरोत् ॥
”“स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् ।गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥
”)भूतार्हद्विशेषः । इति हेमचन्द्रः । २ । १३० ॥
(शालग्राममूर्त्तिविशेषः । तल्लक्षणं यथा, पद्म-पुराणे ।“स्थूलो दामोदरो ज्ञेयः सूक्ष्मचक्रो भवेत्तु सः ।चक्रे तु मध्यदेशेऽस्य पूजितः सुखदः सदा ॥
”अस्य अन्यद्विवरणन्तु शालग्रामशब्दे द्रष्ट-व्यम् ॥
* ॥
काश्मीरस्य नृपविशेषः । यथा, राज-तरङ्गिण्याम् । १ । ६४ ।“गतिं प्रवीरसुलभां तस्मिन् सुक्षत्त्रिये गते ।श्रीमान् दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥
”)
वाचस्पत्यम्
Sanskritदामोदर दाम वन्धनसाधनं उदरे यस्य । यशोदा-नन्दने कृष्णे तत्कथा “ततो यशोदा संक्रुद्धा कृष्णकमललोचनम् । आनाय्य शकटीमूले भर्त्सयन्ती पुनः-पुनः । दाम्ना चैवोदरे बद्ध्वा प्रत्यबध्नादुदूखले । यदिशक्नोषि गच्छेति तमुक्त्वा कर्म साऽकरोत्” इत्युपक्रमे“स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् । घोषेदामोदर इति गोपिभिः परिगीयते” हरिव० ६४ अ०“विदारो रोहितोमार्गो हेतुर्दामोदरः सहः” विष्णु० स० ।शाङ्करभाष्ये तु अस्यान्यापि व्युत्पत्तिर्दर्शिता यथा“दमादिसाधनेनोदरा उत्कृष्टा गतिर्या तया गम्यत इतिदामोदरः । “दमाद्दाभोदरं विदुरिति” महाभारते य-शोदया दाम्नोदरे बद्ध इति वा “दामानि लोकनामानि-तानि यस्योदरान्तरे । तेन दामोदरस्त्वेषः श्रीधरस्त्विट्स-माश्रितः” इति व्यासवचनात् वा दामोदरः । “दमो ब-हिरिन्द्रियनिग्रहः तज्जन्यो दामः तस्येदमित्यण् ऋ-गताविति धातोर्भावे “ऋदोरप्” पा० अपि गुणे रपरत्वेच अरः अवगतिः गत्यर्थानां ज्ञानार्थकत्वात्तस्य विशेषण-मुदिति उत्कृष्ट इत्यर्थः तथा च दामो दमसाधकः उत्उत्कृष्टः अरः अवगतिः साक्षात्काररूपास्येति दामोदरः ।उत्कृष्टा च गतिः धूमादिगतिमपेक्ष्यार्चिरादिः दमादिसा-धना अस्य सगुणस्येति दामोदरनामनिरुक्तिः । “तर्वोर्म-ध्यगतं बद्ध दाम्ना गाढं तथोदरम् । ततश्च दामोदरतां सययौ दामबन्धनादिति” ब्रह्मपुराणम् इति आनन्दगिरिः ।२ अतीते अर्हद्भेदे हेमच० । वर्द्धमानपुरसन्निकृष्टे ३ नदभेदेच । ४ शालग्राममूर्त्तिभेदे तल्लक्षणं पद्मपुराणे यथा“स्थूलो दामोदरो ज्ञेयः सूक्ष्मचक्रो भवेत्तु सः । चक्रेतु मध्यदेशेऽस्य पूजितः सुखदः सदा” । ब्रह्माण्डपुराणे“दामोदरस्तथा स्थूलो मध्यचक्रः प्रतिष्ठितः” प्रतिष्ठितइत्यत्र प्रकीर्तित इति क्वचित् पाठः । “दूर्वाभंद्वारसङ्कीर्णं पीतरेखायुतं शुभम्” । “पीतरेखा तथैवचेति” ब्रह्मपुराणे पाठः । ब्रह्मपुराणे “उपर्य्यधश्च चक्रेद्वे नातिदीर्घं मुखे बिलम् । मध्ये च रेखा लम्बैकास च दामोदरः स्मृतः” । अन्यत्र “स्थूलो दामोदरोज्ञेयः सूक्ष्मरन्ध्रो भवेत्तु यः । चक्रे तन्मध्यदेशस्थेपजितः शुभदः सदा” । ब्रह्मवै० प्रकृतिखण्डे “द्विचक्रंस्फुटमत्यन्तं ज्ञेयं दामोदराभिधम्” । मत्स्यसूक्ते“विश्वक्सेनमतिस्थूलं लघु दामोदरं स्मृतम्”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
