| YouTube Channel

दाप् (dAp)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दा
मूलधातुः:
दाप्
धात्वर्थः:
लवने
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
दाति
धातुप्रदीपः
Sanskrit
दाप् लवने
- दाति प्रणिदाति प्रनिदाति दायते वृक्षस्तक्ष्णा ददौ अदासीत् दापयति दातं बर्हिः। दात्रम् ।। 50 ।।
क्षीरतरङ्गिणी
Sanskrit
दाप् लवने
- पकारो दाधा घ्वदाप् (1120) इत्यर्थः दाति क्षेत्रम् दायन्ते व्रीहयः दाता दाम्नी (32182) इति ष्ट्रन्-दात्रम् 47
धातुवृत्तिः
Sanskrit
दाप् (अर्थः) लवने
( दाति ) इत्यादि पूर्ववत् पकारो घुसञ्ज्ञायामादाविति निषेधार्थः तेन ( प्रणिदाति प्रनिदाति ) इत्यत्र "शेषे विभाषा'' इति णत्वविकल्पो भवति तथा ( दायते, अदासीत्, व्यत्यदास्त, दात्त, दिदाति ) इत्यादौ यथासङ्ख्यम् "घुमास्था'' इतीत्वम्, "गातिस्था'' इति सिचो लुक्, "स्थाध्वोरिच्च'' इति प्रकृतेरित्वं सिचश्च कित्त्वं, "दोदद्घोः'' इति दद्भावः, "सनिमीमा'' इतीस्भावो भवति ( दावम् ) "दाम्नी'' इत्यादिना करणे ष्ट्रन् रक्षणे दयते, शोधने दायतीति शपि गतम् 49