| YouTube Channel

दापयितव्यम् (dApayitavyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“डु दाञ् दाने”@} 2 ‘दाञो दत्ते ददातीति, दाणो यच्छति, दो द्यति।
दाति दायति दाप्दैपोः, दयते रक्षणे ङितः।।’ 3 इति देवः।
4 दायकः-यिका, 5 दापकः-पिका, 6 दित्सकः-त्सिका, 7 देदीयकः-यिका
दाता-त्री, दापयिता-त्री, दित्सिता-त्री, देदीयिता-त्री
8 9 ददत्- 10 ददतौ-ददतः, 11 व्याददत्, 12 आददत्, 13 14 व्याददत्, दापयन्-न्ती, दित्सन्-न्ती
-- -- दास्यन्-न्ती-ती, दापयिष्यन्-न्ती-ती, दित्सिष्यन्-ती
-- ददानः, 15 16 आददानः, 17 18 व्याददानः, दापयमानः, दित्समानः, 19 20 आदित्समानः, देदीयमानः
दास्यमानः, आदास्यमानः, दापयिष्यमाणः, दित्सिष्यमाणः, देदीयिष्यमाणः
प्रदाः-प्रदौ-प्रदाः
-- -- 21 दत्तम्-दत्तः-दत्तवान्, 22 मनसादत्ता, 23 प्रत्तम्- 24 नीत्तम्-सूत्तम्- 25 मरुत्तः, 26 अवदत्तम्-विदत्तम्-प्रदत्तम्-सुदत्तम्-अनुदत्तम्-निदत्तम्, अवत्तम्-अनूत्तम्, दापितः, 27 दित्सितः, देदीयितः-तवान्
28 29 प्रदः, 30 ददः- 31 दायः, 32 गोदः, 33 34 दायादः, 35 कम्बल- प्रदः, 36 उपदाः, 37 सुदामा-सुदीवा-गोदावरी, 38 ग्रामदायी, 39 शापदायी, 40 साधुदायी, 41 कर्णदायी, 42 विद्यादायी, 43 ददिवान्, 44 दाता, 45 दारुः, 46 ददिः 47, 48 दायको 49, 50 अश्वदायः, 51 दानीयः 52, 53 54 दाता, 55 अवश्यंदायी-शतंदायी, 56 देवदत्तः, 57 आदिः, 58 अन्तर्दिः, दापः, दित्सुः, 59 देद्यः
दातव्यम्, दापयितव्यम्, दित्सितव्यम्, देदीयितव्यम्
दानीयम्, दापनीयम्, दित्सनीयम्, देदीयनीयम्
60 देयम्, दाप्यम्, दित्स्यम्, देदीय्यम्
61 ईषद्दानः-दुर्दानः-सुदानः
दीयमानः, दाप्यमानः, दित्स्यमानः, देदीय्यमानः
दायः, दापः, दित्सः, देदीयः
दातुम्, दापयितुम्, दित्सितुम्, देदीयितुम्
दत्तिः, 62 उपदा, दापना, 63 दित्सा, देदीया
दानम्, 64 दत्त्रिमम् 65, दापनम्, दित्सनम्, देदीयनम्
दत्त्वा, दापयित्वा, दित्सित्वा, देदीयित्वा
66 प्रणिदाय, प्रदाप्य, प्रदित्स्य, प्रदेदीय्य
67 दायम् २, दत्त्वा २, दापम् २, दापयित्वा २, दित्सम् २, दित्सित्वा २, देदीयम्
देदीयित्या
68 इति नुप्रत्ययः।
दानुः = दक्षिणार्थ धनम्।]] दानुः, 69 इति चेष्णकूप्रत्ययः।
ददातीति देष्णः = दानशीलः।
माधवधातुवृत्तौ तु देष्णुः इति रूपमौणादिकं साधितम्।]] देष्णः।
प्रासङ्गिक्यः
01
=>
(८३०)
02
=>
(३-जुहोत्यादिः-१०९१। सक। अनि। उभ।)
03
=>
(श्लो। ४)
04
=>
[[३। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञादिष्वपि ज्ञेयम्।]]
05
=>
[[४। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इति ण्यन्ते सर्वत्र पुगागमः।]]
06
=>
[[५। ‘दाधा ध्वदाप्’ (१-२-२०) इति घुसंज्ञायाम्, ‘सनि मीमाघु--’ (७-४-५४) इति सन्नन्ते इस्। ‘सः स्यार्धधातुके’ (७-४-४९) इति तकारे, ‘अत्र लोपो- ऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[६। ‘घुमास्था--’ (६-४-६६) इत्यादिना ईत्वम्। द्वित्वादिकम्। ‘गुणो यङ्लुकोः’ (७-४-८२) इति अभ्यासे गुणो भवति। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
08
=>
[पृष्ठम्०७३२+ ३०]
09
=>
[[१। शतरि, ‘जुहोत्यादिभ्यः श्लुः’ (२-४-७५) इति शपः श्लौ, ‘श्लौ’ (६-१-१०) इति द्वित्वे, उत्तरखण्डे, ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे, ‘नाभ्यस्ता- च्छतुः’ (७-१-७८) इति नुम्निषेधः। ‘अनास्यविहरणे’ (१-३-२०) इति पर्युदासात् ‘आस्यं, व्याददत्’ इत्यत्र शतैव। एवं आङो ङिद्विशिष्टस्य ग्रहणात् भिक्षामाददत् इत्यत्रापि शतैव।]]
10
=>
[[आ। ‘अमेयधामा जहेऽघहानिं ददज्जनेभ्यो मुदमादधानः।।’ धा। का। २-५४।]]
11
=>
[आस्यं]
12
=>
[भिक्षां]
13
=>
[विपादिकां]
14
=>
[[२। ‘आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः’ (काशिका। १-३-२०) इति वचनात् विपादिकां व्याददत् इत्यत्र शतैव।]]
15
=>
[विद्यां]
16
=>
[[३। ‘आङो दोऽनास्यविहरणे’ (१-३-२०) इति परगामिनि क्रियाफलेऽपि शानच्।]]
17
=>
[पिपीलिका पतङ्गस्य मुखं]
18
=>
[[४। ‘स्वाङ्गकर्मकाच्चेति वक्तव्यम्’ (वा। १-३-२०) इति शानच्।]]
19
=>
[विद्यां]
20
=>
[[५। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तादाङ्पूर्वकात् शानच्।]]
21
=>
[[६। ‘दो दद्घोः’ (७-४-४६) इति तादौ किति प्रत्यये परतः ‘दथ्’ इत्यादेशः। थकारस्य चर्त्वेन तकारः। तथा चोक्तम्-- ‘तान्ते दोषो दीर्घत्वं स्यात्, दान्ते दोषो निष्ठानत्वम्। धान्ते दोषो धत्वप्राप्तिः, निर्दोषत्वात् थान्तो ग्राह्यः।।’ (भाष्यम्--७-४-४६) इति। एवं क्तिन्प्रभृतिष्वपि ज्ञेयम्।]]
22
=>
[[७। ‘मनसः संज्ञायाम्’ (६-३-४) तृतीयाया अलुक्।]]
23
=>
[[८। निष्ठायाम् ‘अच उपसर्गात् तः’ (७-४-४७) इति धातोस्तकारे रूपमेवम्।]]
24
=>
[[९। ‘दस्ति’ (६-३-१२४) इत्यनेनात्र निष्ठायां तकारादेशे इगन्तस्योपसर्गस्य दीर्घः।]]
25
=>
[[१०। ‘मरुत उपसंख्यानम्’ (वा। १-४-५९) इति मरुच्छब्दस्योपसर्गसंज्ञायाः विधा- नसामर्थ्यात्, अनजन्तत्वेऽपि ‘अच उपसर्गात् तः’ (७-४-४७) इति तकारादेशः।]]
26
=>
[[११। ‘अवदत्तं विदत्तं प्रदत्तं चादिकर्मणि। सुदत्तमनुदत्तं निदत्तमिति चेष्यते।।’ (भाष्यम् ७-४-४६) इति भाष्येष्ट्या धातोस्तकारादेशः। अत्र चकारस्य समुच्चयार्थकत्वात् अवत्तम् इत्यादयोऽपि यथासम्भवं साधवः।]]
27
=>
[[B। ‘अन्वेषयन् दित्सितदक्षिणोऽहमाचार्यसान्दीपिनिसूनुवृत्तम्।’ या। अ। १८। १०९।]]
28
=>
[पृष्ठम्०७३३+ ३३]
29
=>
[[१। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्यकारलोपः।]]
30
=>
[[२। ‘ददातिदधात्योर्विभाषा’ (३-१-१३९) इति कर्तरि शप्रत्ययः। ‘कर्तरि शप्’ (३-१-६८) इति शपि, तस्य, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लौ, ‘श्लौ’ (६-१-१०) इति द्विर्वचने, ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे ददः इति रूपम्। अस्य शप्रत्ययस्य वैकल्पिकत्वात् पक्षे, ‘श्याऽऽद्व्यध--’ (३-१-१४१) इति कर्तरि णप्रत्यये, युगागमे दायः इति रूपम्।]]
31
=>
[[आ। ‘ददैः दुःखस्य मातृभ्यो धायैरामोदमुत्तमम्।’ भ। का। ६। ८०।]]
32
=>
[[३। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मण्युपपदेऽणोऽपवादः कप्रत्ययः। आकारलोपः।]]
33
=>
[गवां गोंषु वा]
34
=>
[[४। दायमादत्ते इति दायादः। ‘मूलविभुजादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति सोपसर्गात् धातोः कर्मण्युपपदे कप्रत्ययः। ‘स्वामीश्वराधिपतिदायाद--’ (२-३-३९) इति षष्ठीसप्तम्यौ।]]
35
=>
[[५। ‘प्रे दाज्ञः’ (३-२-६) इति प्रोपसृष्टादस्मात् कर्मण्युपपदे कप्रत्ययः।]]
36
=>
[[६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति विचि रूपमेवम्।]]
37
=>
[[७। ‘आतो मनिन्क्वनिब्वनिपश्च’ (३-२-७४) इत्यनेन क्रमेण मनिनि, क्वनिपि, वनिपि सुदामा-सुदीवा-गोदावरी इति रूपाणि। तत्र सुदीवा इत्यत्र प्रत्ययस्य कित्त्वादीकारः प्रकृतेः। गोदावरी इत्यत्र ‘वनो च’ (४-१-७) इत्यनेन स्त्रियां ङीब्-रेफादेशौ भवतः, इति विशेषः।]]
38
=>
[[८। ‘क्विप् च’ (३-२-७६) इत्यनेन कर्मोपपदादस्मात् क्विप्प्रत्ययः।]]
39
=>
[[९। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिप्रत्ययः। युगागमः।]]
40
=>
[[१०। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।]]
41
=>
[[११। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः। कर्ण इव ददातीत्यर्थः।]]
42
=>
[[१२। ‘व्रते’ (३-२-८०) इति णिनिः। यो विद्यादानं त्रतत्वोनचरति, एवमुच्यते।]]
43
=>
[[१३। क्वसौ, द्विर्वचने, आकारलोपे, ‘वस्वेकाजाद्घसाम्’ (७-२-७६) इतीडागमे रूपम्।]]
44
=>
[[१४। ‘तृन्’ (३-२-१३५) इति तच्छीलादिषु कर्तृषु तृन्। दानशील एवमुच्यते।]]
45
=>
[[१५। ‘दाधेट्सिशदसदो रुः’ (३-२-१५९) इति तच्छीलतद्धर्मतत्साधुकारिषु रुः।]]
46
=>
[[१६। ‘आदृगम--’ (३-२-१७१) इति किः, किन् वा प्रत्ययः। तस्य लिड्वद्भावाति- देशात् द्वित्वादिकार्यम्।]]
47
=>
[गाः]
48
=>
[[१७। क्रियार्थायां क्रियायाम्, ‘तुमुन्ण्वुलौ--’ (३-३-१०) इति ण्वुलि युगागमः।]]
49
=>
[व्रजति]
50
=>
[[१८। ‘अण् कर्मणि च’ (३-३-१२) इति क्रियार्थायां क्रियायां कप्रत्ययापवादोऽण् प्रत्ययः।]]
51
=>
[[१९। दीयतेऽस्मै, इति दानीयो विप्रः। सम्प्रदाने, ‘कृत्यल्युटो बहुलम्। (३-३-११३) इति अनीयर्।]]
52
=>
[ब्राह्मणः]
53
=>
[पृष्ठम्०७३४+ २६]
54
=>
[[१। ‘अर्हे कृत्यतृचश्च’ (३-३-१६९) इति अर्हार्थे तृच्। दातुमर्हो दाता।]]
55
=>
[[२। ‘आवश्यकाधमर्ण्ययोर्णिनिः’ (३-३-१७०) इति क्रमेणार्थद्वये णिनिप्रत्ययः।]]
56
=>
[[३। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति क्तप्रत्ययः।]]
57
=>
[[४। ‘उपसर्गे घोः किः’ (३-३-९२) इति किप्रत्ययः। आ-दीयते इत्यादिः कारणम्।]]
58
=>
[[५। ‘अन्तश्शब्दस्य अङ्किविधिणत्वेषूपसर्गत्वं वाच्यम्’ (वा। १-४-६५) इति वचना- दुपसर्गत्वात् किप्रत्ययः।]]
59
=>
[[६। यङन्तात् पचाद्यचि, यङो लुकि, ‘एरनेकाचः--’ (६-४-८२) इति यण्।]]
60
=>
[[७। ‘ईद् यति’ (६-४-६५) इति धातोरीकारे गुणे रूपमेवम्।]]
61
=>
[[८। ईषदाद्युपपदेषु, ‘आतो युच्’ (३-३-१२८) इति युचि, अनादेशः।]]
62
=>
[[९। ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्प्रत्ययः।]]
63
=>
[[आ। ‘नंनम्यमानाः फलदित्सयेव चकाशिरे तत्र लता विलोलाः।।’ भ। का। २। २५।]]
64
=>
[[१०। ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, ‘त्रेर्मप्नित्यम्’ (४-४-२०) इति मप् नित्यम्। दद्भावश्च भवति।]]
65
=>
[[B। ‘निष्ठां गते दत्त्रिमसभ्यतोषे विहित्रिमे कर्मणि राजपत्न्यः।’ भ। का। १। १३।]]
66
=>
[[११। ‘न ल्यपि’ (६-४-६९) इतीत्वनिषेधः। ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इति प्रोत्तरस्य नेर्णत्वम्।]]
67
=>
[पृष्ठम्०७३५+ २७]
68
=>
[[१। ‘दाभाभ्यां नुः’ [द। उ। १-१४३]
69
=>
[[२। ‘गादाभ्यां चेष्णक्’ [द। उ। ५-४८]
1 {@“दाण् दाने”@} 2 3 पूर्वलिखितदाञ्धातोः, अस्यापि सर्वत्र प्रत्ययेषु रूपसाम्यात् तत्र लिखितान्येव टिप्पणान्यस्यापि संगतानीति यथासम्भवं तत्रतत्र, रूपनिष्पत्तिर्ज्ञातव्येति मत्वाऽत्र पृथङ् लिखितानि।]] ‘दाञो दत्ते ददातीति, दाणो यच्छति, दो द्यति।
दाति दायति दाप्दैपोः, दयते रक्षणे ङितः।।’ 4 इति देवः।
दायकः-यिका, दापकः-पिका, दित्सकः-त्सिका, देदीयकः-यिका
दाता-त्री, दापयिता-त्री, दित्सिता-त्री, देदीयिता-त्री
5 प्रणियच्छन्-न्ती, 6 सम्प्रयच्छन्, 7 सम्प्रयच्छन्, दापयन्-दित्सन्-न्ती
-- दास्यन्-न्ती-ती, दापयिष्यन्-न्ती-ती, दित्सिष्यन्-न्ती-ती
-- 8 9 संयच्छमानः-सम्प्रयच्छमानः, दापयमानः, 10 11 सन्दित्समानः, देदीयमानः
12 संदास्यमानः, दापयिष्यमाणं, संदित्सिष्यमाणः, देदीयिष्यमाणः
धनदाः-धनदौ-धनदाः
-- -- दत्तम्-दत्तः-दत्तवान्, मनसादत्ता, 13 व्यात्तम्, प्रत्तम्-नीत्तम्-सूत्तम्-मरुत्तः, अवदत्तम्-प्रदत्तम्-विदत्तम्-सुदत्तम्-निदत्तम्, अनुदत्तम्-अवत्तम्-अनूत्तम्, दापितः, दित्सितः, देदीयितः-तवान्
प्रदः, दायः, 14 इष्टदः-नर्मदा, अब्दः, 15 16 दायादः, 17 विश्वा- सप्रदः, उपदाः, सुदामा-सुदीवा-गोदावरी, शर्मदाः, 18 शापदायी, साधु- दायी, कर्णदायी, मोक्षदायी, ददिवान्, दाता, दारुः, दायको 19, 20 भयदायः, कम्बलदायः, गोदायो 21, दानीयः 22, दाता, अवश्यंदायी, सहस्रंदायी, प्रदायी, यज्ञदत्तः, आदिः, अन्तर्दिः, दापः, दित्सुः, देद्यः
दातव्यम्, दापयितव्यम्, दित्सितव्यम्, देदीयितव्यम्
दानीयम्, 23 दथेलिमम्, दापनीयम्, दित्सनीयम्, देदीयनीयम्
देयम्, दाप्यम्, दित्स्यम्, देदीय्यम्
ईषद्दानः-दुर्दानः-सुदानः
-- -- -- दीयमानः, दाप्यमानः, दित्स्यमानः, देदीय्यमानः
दायः, दापः, दित्सः, देदीयः
दातुम्, दापयितुम्, दित्सितुम्, देदीयितुम्
24 दत्तिः, प्रदा, दापना, दित्सा, देदीया
प्रणिदानम्, दापनम्, दित्सनम्, देदीयनम्
दत्त्वा, दापयित्वा, दित्सित्वा, देदीयित्वा
प्रदाय, प्रदाप्य, प्रदित्स्य, प्रदेदीय्य
दायम् २, दत्त्वा २, दापम् २, दापयित्वा २, दित्सम् २, दित्सित्वा २, देदीयम्
देदीयित्वा २।
प्रासङ्गिक्यः
01
=>
(८३१)
02
=>
(१-भ्वादिः-९३०। सक। अनि। पर।)
03
=>
[[[अ]
04
=>
(श्लो। ४)
05
=>
[[३। शतरि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छ--’ (७-३-७८) इत्यादिना यथासम्भवं शिति प्रत्यते परतः यच्छादेशे, ‘नेर्गदन- दपतपदघुमा--’ (८-४-१७) इत्यादिना णत्वे रूपम्। अत्रेदमवधेयम्। ‘दाणश्च सा चेच्चतुर्थ्यर्थे’ (१-३-५५) इत्यत्र चतुर्थ्यर्थे विद्यमानायाः तृतीयाया योगे एव आत्मनेपदविधानात्, शुद्धतृतीयान्ते ‘पाणिना सम्प्रयच्छन्’ इति वाक्ये शानच्। एवं अशिष्टव्यवहार एव निरुक्तसूत्रप्रवृत्त्या, शिष्टव्यवहारे तु ‘ब्राह्मणीभ्यः संप्रयच्छन्’ इत्यत्रापि शानजिति ज्ञेयम्।]]
06
=>
[पाणिना]
07
=>
[ब्राह्मणीभ्यः]
08
=>
[दास्या मालां]
09
=>
[[४। ‘दाणश्च सा चेत् चतुर्थ्यर्थे’ (१-३-५५) इति शानच्। अनेनैव सूत्रेण चतुर्थ्यन्तस्य ‘दास्या’ इत्यस्य तृतीया भवति। अत्र च, ‘अशिष्टव्यवहार इति वक्तव्यम्’ (वा। १-३-५५) इति वचनात् अशिष्टव्यवहार एवैवं भवति। अशिष्टव्यवहारः = शिष्टसम्मतो यो भवति, सः।]]
10
=>
[दास्या मालां]
11
=>
[[५। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्ताच्छानश्।]]
12
=>
[पृष्ठम्०७३६+ २७]
13
=>
[[आ। ‘ध्वान्तेऽपि व्यात्तवक्त्रज्वलदनलशिखाजर्जरैर्व्यक्तकर्मा निर्मान्ती गृध्ररौद्रीं दिवमुपरि परिक्रीडते ताटकेयम्।।’ अनर्घराघवे-२-५४।]]
14
=>
[[B। ‘तिष्ठन्निहाम्नायगमिष्टदं तमस्तौत् स्फुटेनाहृतधीः स्वरेण।।’ धा। का। २। ३३।]]
15
=>
[गवां गोषु वा]
16
=>
[[C। ‘स्थितः प्रास्तस्य दायादैः भ्रातुर्ज्येष्ठस्य शासने।।’ किरातार्जुनीये ११-४५।]]
17
=>
[[ड्। ‘विश्वासप्रदवेषोऽसौ पथिप्रज्ञः समाहितः।’ भ। का। ६। ९०।]]
18
=>
[[E। ‘कैलासशैलचलनागसि शापदायी नन्दीश्वरः स्वयमुपागत इत्यमंस्त।।’ चम्पूरामायणे-५-४७।]]
19
=>
[व्रजति]
20
=>
[[F। ‘पूरयन्तः समाजग्मुर्भयदाया दिशो दश।।’ भ। का। ७। ३०।]]
21
=>
[वा व्रजति]
22
=>
[ब्राह्मणः]
23
=>
[[१। ‘केलिमर उपसंख्यानम्’ (वा। ३-१-९६) इति केलिमर्प्रत्ययः। केलिमर्प्र- त्ययस्य कित्त्वात् घुसंज्ञकस्यास्य धातोः ‘दो दद्घोः’ (७-४-४६) इति ‘दथू’ इत्यादेशः। तत्र ‘तान्ते दोषो दीर्घत्वं स्यात्, दान्ते दोषो निष्ठानत्वम्। धान्ते दोषो धत्वप्राप्तिः, निर्दोषत्वात् थान्तो ग्राह्यः।।’ (भाष्यम् ७-४-४६) इत्युक्तत्वात् थकारान्त आदेश इति ज्ञेयम्।]]
24
=>
[पृष्ठम्०७३७+ २७]
1 {@“दापू लवने”@} 2 ‘दाञो दत्ते ददातीति, दाणो यच्छति दो द्यति।
दाति दायति दाप्दैपोः, दयते रक्षणे ङितः।।’ 3 इति देवः।
दायकः-यिका, दापकः-पिका, दिदासकः-सिका, दादायकः-यिका
दाता-त्री, दापयिता-त्री, दिदासिता-त्री, दादायिता-त्री
4 प्रणिदान्-प्रनिदान्-ती-न्ती, 5 दापयन्-न्ती, दिदासन्-न्ती
-- प्रणिदास्यन्-प्रनिदास्यन्-न्ती-ती, दापयिष्यन्-न्ती-ती, दिदासिष्यन्-न्ती-ती
प्रदाः-प्रदौ-प्रदाः
-- -- -- अवदातम्-दातः, दापितः, दिदासितः, दादायितः-तवान्
6 प्रदः, दापः, दिदासुः, 7 दादाः
8 दातव्यम्, दापयितव्यम्, दिदासितव्यम्, दादायितव्यम्
दानीयम्, दापनीयम्, दिदासनीयम्, दादायनीयम्
देयम्, दाप्यम्, दिदास्यम्, दादाय्यम्
ईषद्दानः-दुर्दानः-सुदानः
-- -- दायमानः, दाप्यमानः, दिदास्यमानः, दादाय्यमानः
दायः, दापः, दिदासः, दादायः
दातुम्, दापयितुम्, दिदासितुम्, दादायितुम्
दातिः-प्रदा, दापना, दिदासा, दादाया
दानम्, 9 दात्रम्, दापनम्, दिदासनम्, दादायनम्
दात्वा, दापयित्वा, दिदासित्वा, दादायित्वा
प्रदाय, प्रदाप्य, प्रदिदास्य, प्रदादाय्य
दायम् २, दात्वा २, दापम् २, दापयित्वा २, दिदासम् २, दिदासित्वा २, दादायम्
दादायित्वा २।
प्रासङ्गिक्यः
01
=>
(८३३)
02
=>
(२-अदादिः-१०५९। सक। अनि। पर।)
03
=>
(श्लो। ४)
04
=>
[[१। ‘अदाप्’ (१-१-२०) इति पर्युदासात् अस्य धातोर्घुसंज्ञाप्रयुक्तानि कार्याणि भवन्ति। तेन शतरि, ‘अदिप्रभृतिभ्यः शपः--’ (२-४-७२) इति शपो लुकि, सवर्णदीर्घे, स्त्रियाम्, ‘आच्छीनद्योः--’ (७-१-८०) नुम्विकल्पे रूपम्। ‘शेषे विभाषा--’ (८-४-१८) इति ‘नि’ इत्यस्य णत्वविकल्पः।]]
05
=>
[[आ। ‘पान्त्यः शिशून् धान्यधनानि रान्त्यो लान्त्यश्च काश्चित् कुसुमानि दान्त्यः।।’ धा। का। २। ४९।]]
06
=>
[[२। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। निदर्शनार्थ कर्तरि प्रत्ययेष्वे- कमिह दर्शितम्। ‘दाण्’ धातोः (८३१) कर्तरि प्रत्यये प्रदर्शितानि सर्वाण्यपि रूपाणि प्रायोऽस्यापि भवन्ति।]]
07
=>
[[३। यङन्तात् पचाद्यचि, यङो लुकि सवर्णदीर्घे रूपमेवम्।]]
08
=>
[पृष्ठम्०७३९+ २७]
09
=>
[[१। ‘दाम्नीशस--’ (३-२-१८२) इत्यादिना करणे ष्ट्रन्प्रत्ययः। षित्त्वात् स्त्रियाम्, ‘षिद्गौरादिभ्यः--’ (४-१-४१) इति ङीष्।]]
1 {@“दीङ् क्षये”@} 2 स्वादिः।
3 दायकः-यिका, 4 दापकः-पिका, 5 दिदीषकः-दिदासकः-दित्सकः-त्सिका, 6 7 देदीयकः-यिका
दाता-त्री, दापयिता-त्री, दिदीषिता-त्री, देदीयिता-त्री
-- दापयन्-न्ती, दिदीषन्-न्ती
-- -- दापयिष्यन्-न्ती-ती, दिदीषिष्यन्-न्ती-ती
-- दीयमानः, दापयमानः, दिदीषमाणः, देदीय्यमानः
दास्यमानः, दापयिष्यमाणः, दिदीषिष्यमाणः, देदीयिष्यमाणः
प्रदाः-प्रदौ-प्रदाः
-- -- -- 8 दीनः-दीनम्-दीनवान्, दापितः, दिदीषितः, देदीयितः-तवान्
9 उपदायः, 10 प्रदः, दापः, दिदीषुः, देद्यः
दातव्यम्, दापयितव्यम्, दिदीषितव्यम्, देदीयितव्यम्
11 प्रणिदानीयम्-प्रनिदानीयम्, दापनीयम्, दिदीषणीयम्, देदीयनीयम्
देयम्, दाप्यम्, दिदीष्यम्, देदीय्यम्
12 ईषद्दानम्-दुर्दानम्-सुदानम्
-- -- दीयमानः, दाप्यमानः, दिदीष्यमाणः, देदीय्यमानः
दायः, दापः, दिदीषः, देदीयः
दातुम्, दापयितुम्, दिदीषितुम्, देदीयितुम्
दातिः, दापना, दिदीषा, देदीया
दानम्, दापनम्, दिदीषणम्, देदीयनम्
दात्वा, दापयित्वा, दिदीषित्वा, देदीयित्वा
13 14 प्रदाय, प्रदाप्य, प्रदिदीष्य, प्रदेदीय्य
दायम् २, दात्वा २, दापम् २, दापयित्वा २, दिदीषम् २, दिदीषित्वा २, देदीयम्
देदीयित्वा २।
प्रासङ्गिक्यः
01
=>
(८४४)
02
=>
(४-दिवादिः-११३४। अक। अनि। आत्म।)
03
=>
[[२। ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यात्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञादिष्वपि ज्ञेयम्। आत्वं तु शतरं वर्जयित्वा सर्वत्र ज्ञेयम्।]]
04
=>
[[३। प्रत्ययोत्पत्तेः प्रागनैमित्तिक आत्वे, आदन्तलक्षणे पुगागमे रूपम्। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[४। सन्नन्ते, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, दीर्घे, षत्वे रूपम्। ‘मीनाति मिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यत्र ल्यब्ग्रहणात्, ‘दीङः। प्रतिषेधः स्थाघ्वोरित्त्वे’ (वा। १-१-२०) इति वार्तिकारम्भसामर्थ्याच्च, अस्यापि धातोर्घुसंज्ञाऽस्तीति कैयटपदमञ्जर्यादिषु व्यक्तम्। तन्मते, काश्यपादि मतेऽपि आत्वे, दिदासकः इति रूपम्। आत्वाभावपक्षे ‘सनि मीमाघु--’ (७-४-५४) इत्यादिना इसाऽऽदेशे, द्वित्वे, ‘अत्र लोपः--’ (७-४-५८) इत्यभ्यासलोपे, ‘सः स्यार्धधातुके’ (७-४-४९) इति सकारस्य तकारे दित्सकः इत्यादीनि रूपाणि तृजादिष्वपि यथायथमूह्यानि। परं तु ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति सङ्केतात्, सन्निपातपरिभाषामाश्रित्य दीङः घुसंज्ञानिषेधादेतदप्रामाणिकमिति ज्ञायते। शाकटायनादयः घुसंज्ञामेवाशिश्रियुरात्वविकल्पं च।]]
06
=>
[पृष्ठम्०७५०+ २५]
07
=>
[[१। ‘यङन्तान्ण्वुलि, घुसंज्ञाप्रतिषेधात् ईत्वाभावे, द्वित्वे, अभ्यासस्य गुणे रूपम्। एवं यङन्ते सर्वत्र ज्ञेयम्।’]]
08
=>
[[२। ‘स्वादय ओदितः’ (ग। सू। दिवादौ) इति ओदित्त्वातिदेशात् ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वे रूपम्।]]
09
=>
[[३। ‘मीनातिमिनोतिदीङाम्--’ (६-१-५०) इत्यनेनान्तरङ्गत्वेनात्वे, ‘श्याऽऽद्--’ (३-१-१४१) इत्यनेन कर्तरि णप्रत्यये, युगागमः।]]
10
=>
[[४। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्यये रूपम्। प्रदर्शनार्थं कर्तरि प्रत्ययेषु द्वावत्रोपात्तौ। ‘डु दाञ्--’ धातौ (८३०) यानि रूपाणि कत्रर्थे प्रदर्शितानि, तानि सर्वाण्यपि, अत्रापि प्रायशो ज्ञेयानि।]]
11
=>
[[५। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
12
=>
[[६। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच् प्रत्ययः।]]
13
=>
[पृष्ठम्०७५१+ २५]
14
=>
[[१। ल्यपि ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यनेनात्वे रूपमेवम्।]]