| YouTube Channel

दानुः (dAnuH)

 
शब्दकल्पद्रुमः
Sanskrit
दानुः, त्रि, (ददाताति दा + “दाभाभ्यां नुः ।”उणां ३२ इति नुः ।) दाता विक्रान्तः ।इति मेदिनी ने, १०
शर्म्म वायुः इतिसंक्षिप्तसारे उणादिवृत्तिः
(पुं, दानवः ।यथा, ऋग्वेदे १२ ११ ।“ओजायमानं यो अहिं जघान दानुं शयानं सजनास इन्द्रः
”दीयते इति कर्म्मणि नुः देयः यथा, ऋग्-वेदे २५ ।“सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः
”)