| YouTube Channel

दानविधिः (dAnavidhiH)

 
शब्दकल्पद्रुमः
Sanskrit
दानविधिः,
पुं,
(दानस्य विधिः ।) दानस्य विधा-नम् यथा, --“अथ दानविधिं वक्ष्ये तं मे शृणुत सुव्रताः ।अन्येभ्यो ब्राह्मणाः श्रेष्ठास्तेभ्यश्चैव क्रियापराः
ब्रह्मवेत्ता तेभ्योऽपि पात्रं विद्यातपोऽन्वितः ।गोभूघान्यहिरण्यादि पात्रे दातव्यमर्च्चितम्
विद्यातपोभ्यां हीनेन तु ग्राह्यः प्रतिग्रहः ।गृह्णन् प्रदातारमधो नयत्यात्मानमेव
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।याचितेनापि दातव्यं श्रद्धापूतन्तु शक्तितः
हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता ।सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा
दशसौवर्णिकं शृङ्गं शफं सप्तपलैः कृतम् ।पञ्चाशत्पलिकं पात्रं कांस्यं वत्सश्च कीर्त्त्यते
स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा ।तस्यामपि दातव्यं अपत्यं रोगवर्ज्जितम्
दाता स्वर्गमवाप्नोति वत्सरान् रोमसम्मितान् ।कपिला चेत्तारयते भूयश्चासप्तमं कुलम्
यावद्वत्सस्य द्बौ पादौ मुखं योन्यां प्रदृश्यते ।तावद्गौः पृथिवी ज्ञेया यावद्गर्भं मुञ्चति
यथाकथञ्चिद्दत्त्वा गां धेनुं वाधेनुमेव वा ।अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते
श्रान्तसंवाहनं रोगिपरिचर्य्या सुरार्च्चनम् ।पादशौचं द्विजोच्छिष्टमार्ज्जनं गोप्रदानवत्
द्बिजाय यदभीष्टन्तु दत्त्वा स्वर्गमवाप्नुयात् ।भूदीपाश्वान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान्
गृहधान्यच्छत्रमालायानवृक्षघृतं जलम् ।शय्यानुलेपनं दत्त्वा स्वर्गलोके महीयते
ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्ल्लभम्
वेदार्थयज्ञशास्त्राणि धर्म्मशास्त्राणि चैव हि ।मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात्
एतन्मूलं जगत् यस्मादसृजत् पूर्व्वमीश्वरः ।तस्मात् सर्व्वप्रयत्नेन कार्य्यो वेदार्थसंग्रहः
इतिहासं पुराणं वा लिखित्वा यः प्रयच्छतिब्रह्मदानसमं पुण्यं प्राप्नोति द्बिगुणोन्नतिम् ।लोकायतं कुतर्कश्च प्राकृतं म्लेच्छभाषितम् ।न श्रोतव्यं द्विजेनैव तदधो नयति द्बिजम्
समर्थो यो गृह्णीयात् दातृलोकमवाप्नुयात्
कुशाः शाकं पयो गन्धाः प्रत्याख्येयं वारि ।अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः
अन्यत्र कुलटाषण्ढपतितेभ्यो द्विषस्तथा ।देवातिथ्यर्च्चनकृते पितृभृत्यर्थमेव ।सर्व्वतः प्रतिगृह्णीयादात्मतृप्त्यर्थमेव
”इति गारुडे ९८ अध्यायः